पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रति सहस्रस्येति प्रतिमन्त्रम् । सहस्रस्य प्रमा प्रमाणं भवसि । सहस्रस्य प्रतिमा प्रतिमानं भवसि । सहस्रस्योन्मा उन्मानं तुलामानं भवसि । साहस्रोऽसि सहस्रार्होऽसि यतः अतः सहस्राय त्वां प्रोक्षामि ॥ ६५ ॥
इति उवटकृतौ मन्त्रभाष्ये पञ्चदशोऽध्यायः ॥ ६५॥
म० "तिष्ठन्नग्निं प्रोक्षति हिरण्यशकलसहस्रेण शते द्वे द्वे प्रकिरति सहस्रस्येति प्रतिमन्त्रम्' ( का० १७ । १२ । २७)। इष्टकाचितं सपक्षपुच्छमग्निं पश्चादुत्तरपूर्वदक्षिणपश्चिमेषु शतद्वयं द्वयं सोदकस्तिष्ठन्प्रकिरतीत्यर्थः । पञ्चाग्नेयानि यजूंषि । हे अग्ने, सहस्रस्येष्टकानां प्रमा प्रमाणं त्वमसि । सहस्रस्य प्रतिमा प्रतिनिधिरसि । सहस्रस्योन्मोन्मानं तुलासि । साहस्रः सहस्रार्होऽसि। सहस्रायानन्तफलाप्त्यै त्वा त्वां प्रोक्षामि ॥ ६५ ॥
श्रीमन्महीधरकृते वेददीपे मनोरमे ।
अस्मिन्पञ्चदशाध्याये कथिता पञ्चमी चितिः ॥६५॥

षोडशोऽध्यायः।
तत्र प्रथमा।
नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नम॑: । बा॒हुभ्या॑मु॒त ते॒ नम॑: ।। १ ।।
उ० शतरुद्रियहोमः । 'अथातो यः शतरुद्रियं जुहोति' इत्युपक्रम्य ‘स एषोऽत्राग्निश्चितो बुभुक्षमाणो रुद्ररूपेणावतिष्ठते । तस्य तर्पणं देवैः कृतम् । द्वितीयं दर्शनम् । यद्वै शतरुद्रियं जुहोतीत्युपक्रम्य प्रजापतेर्विस्रस्तादित्यभिधाय मन्त्रार्थानुगुण्येन श्रुतिर्भवति । स एव शतशीर्षो रुद्रः समभवदिति । नमस्ते रुद्रमन्यवे रौद्रोऽध्यायः परमेष्ठिन आर्षं देवानां वा प्रजापतेर्वा आद्योऽनुवाकः षोडशभिर्ऋग्भिः । तत्र एको रुद्रो देवता एका गायत्री तिस्रोऽनुष्टुभस्तिस्रः पङ्क्तयः सप्तानुष्टुभौ द्वे जगत्यौ । नमोऽस्तु ते । हे रुद्र, ते तव संबन्धिने मन्यवे क्रोधाय । उत अपि च । ते तव संबन्धिने इषवे काण्डाय नमोऽस्तु । बाहुभ्याम् उत अपि ते तव संबन्धिभ्यां बाहुभ्यां नमोऽस्तु ॥ १ ॥
म० पञ्चदशे अध्याये चयनमन्त्रान् समाप्य षोडशे शतरुद्रियाख्यहोममन्त्रा उच्यन्ते । 'शतरुद्रियहोम उत्तरपक्षस्यापरस्याᳪ स्रक्त्यां परिश्रित्स्वर्कपर्णेनार्ककाष्ठेन शातयन्संततं जर्तिलमिश्रान् गवेधुकासक्तूनजाक्षीरमेके तिष्ठन्नुदङ्नमस्त इत्यध्यायेन त्र्यनुवाकान्ते स्वाहाकारो जानुमात्रे पञ्चान्ते च नाभिमात्रे प्राक् च प्रत्यवरोहेभ्यो मुखमात्रे प्रतिलोमं प्रत्यवरोहान् जुहोति प्रमाणेषु नमोऽस्त्विति प्रतिमन्त्रम्' ( का० १८ । १।१-५) । अस्यार्थः । हिरण्यशकलैरग्निप्रोक्षणानन्तरं शतरुद्रियसंज्ञो होमः तस्याहवनीये प्राप्तावपवादमाह । उत्तरपक्षपश्चिमकोणे याः परिश्रितो जङ्घामात्र्यादयः पूर्वं निखातास्तासु होमः । तत्र विधिः । जर्तिलैरारण्यतिलैर्मिश्रान् गवेधुकासक्तूनर्कपत्रेण जुहोति । किं कुर्वन् । अर्ककाष्ठेन संततं क्षारयन् परिश्रित्सु पातयन् अर्कपत्रं दक्षकरेणादायार्ककाष्ठं वामेनादाय तेन पातनीयम् । सक्तुस्थाने अजादुग्धमिति केचित् । उदङ्मुखो नमस्त इत्यध्यायेन । तत्रानुवाकत्रयान्ते 'अर्भकेभ्यश्च वो नमः' (क० २६ ) इत्यत्र जानुमात्रे परिश्रिति स्वाहाकारो विधेयः । पञ्चानुवाकान्ते 'सुधन्वने च' (क. ३६ ) इत्यत्र नाभिमात्रे परिश्रिति स्वाहाकारः । 'नमोऽस्तु रुद्रेभ्यः' (क० ६३) इति प्रत्यवरोहमन्त्राः तेभ्यः प्राक् मुखमात्रपरिश्रिति स्वाहाकारः । नमोऽस्त्विति कण्डिकात्रयेण प्रतिलोमं होमः। 'ये दिवि' (क० ६४ ) इति मुखमात्रे । 'येऽन्तरिक्षे (क० ६५ ) इति नाभिमात्रे । 'ये पृथिव्याम्' (क० ६६) इति जानुमात्रे । इति सूत्रार्थः । नमस्ते । षोडशर्चोऽनुवाकः एकरुद्रदेवत्यः आद्या गायत्री तिस्रोऽनुष्टुभः तिस्रः पङ्क्तयः सप्तानुष्टुभः द्वे जगत्यौ । अध्यायस्य परमेष्ठिदेवप्रजापतय ऋषयः । मा नः (क० १५-१६) इति द्वयोः कुत्सोऽपि ऋषिः । हे रुद्र, रुत् दुःखं द्रावयति रुद्रः । यद्वा 'रु गतौ' ये गत्यर्थास्ते ज्ञानार्थाः । रवणं रुत् ज्ञानं राति ददाति रुद्रः ज्ञानम् भावे क्विप् तुगागमः । रुत् ज्ञानप्रदः । यद्वा पापिनो नरान् दुःखभोगेन रोदयति रुद्रः । हे रुद्र, ते तव मन्यवे क्रोधाय नमः नमस्कारोऽस्तु । उतो अपिच ते तवेषवे वाणाय नमः । उतापि च ते तव बाहुभ्यां नमः । तव क्रोधबाणहस्ता अस्मदरिष्वेव प्रसरन्तु नास्मास्वित्यर्थः ॥ १॥

द्वितीया ।
या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी । तया॑ नस्त॒न्वा शन्त॑मया॒ गिरि॑शन्ता॒भिचा॑कशीहि ।। २ ।।
उ०. या ते तव हे रुद्र, शिवा शान्ता तनूः शरीरम् । अघोरा अविषमा। अपापकाशिनी पापमसुखं या प्रकाशयति सा पापकाशिनी पापप्रकाशिनी । न पापकाशिनी अपापकाशिनी । तया नः अस्मान् तन्वा शन्तमया सुखतमया सुखयितृतमया अतिशयेन सुखयित्र्या । गिरिशन्त गिरौ पर्वते कैलासाख्ये अवस्थितः शं सुखं तनोतीति गिरिशन्तः । यद्वा गिरि वाच्यवस्थितः सुखं तनोतीति । यद्वा गिरौ मेघेऽवस्थितो वृष्टिद्वारेण सुखं तनोतीति । तस्य संबोधनं हे गिरिशन्त । अभिचाकशीहि अभिपश्य । सुखयितुमिति शेषः । चाकशीतिः पश्यतिकर्मा ॥ २ ॥
म०. हे रुद्र, या ते तवेदृशी तनूः शरीरं हे गिरिशन्त, तया तन्वा नोऽस्मानभिचाकशीहि अभिपश्य । चाकशीतिः पश्यतिकर्मा ( नि० ३ । ११ । ८) । कीदृशी तनूः । शिवा शान्ता मङ्गलरूपा । यतोऽघोरा अविषमा सौम्या अतएवाऽपापकाशिनी पापमसुखं काशयति प्रकाशयति पापकाशिनी