पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्विषष्टी।
प्रोथ॒दश्वो॒ न यव॑सेऽवि॒ष्यन्य॒दा म॒हः सं॒वर॑णा॒द्व्यस्था॑त् ।
आद॑स्य॒ वातो॒ अनु॑वाति शो॒चिरध॑ स्म ते॒ व्रज॑नं कृ॒ष्णम॑स्ति ।। ६२ ।।
उ० व्याख्याताः । विकर्णीमुपदधाति । प्रोथदश्वः । आग्नेयीत्रिष्टुप् । मथ्यमानोऽग्निरत्रोच्यते। प्रोथतिः शब्दार्थः । शब्दायते अग्निः । अश्वोन यवसेऽविष्यन् अश्वइव यवसे घासे विषयभूते अविष्यन् ग्रसिष्यन् । यदा यस्मिन्काले । महतः संवरणात् । संव्रियते अस्मिन्नग्निरिति संवरणमरणिकाष्ठमुच्यते । अरणिकाष्ठात् । व्यस्थात् व्युत्तिष्ठते प्रकाशीभवति । आत् अथानन्तरमेव । अस्याग्नेः वातः अनुवाति । शोचिः संदीपनः । अध अथ समानार्थौ छन्दसि । स्मनिपातोऽनर्थकः । ते । अथैतस्येत्यर्थः । नह्यत्र युष्मदः प्रयोगः परोक्षकृतत्वान्मन्त्रस्य । श्रुतिरप्यमुमर्थं दर्शयति । अथैतस्य व्रजनं कृष्णं भवतीति । व्रजति गच्छत्यनेनेति व्रजनं कृष्णं भवति ॥ ६२ ॥
म० 'प्रच्छाद्य पुरीषेण विकर्णी स्वयमातृण्णे शर्करे सᳪस्पृष्टे छिद्रे प्रोथदश्व इत्युत्तरां विकर्णीम्' ( का० १७ । १२ । २५)। पञ्चमीं चितिं पुरीषेण पूर्ववत्प्रच्छाद्य शर्करामय्यौ परस्परसंलग्ने सच्छिद्रे विकर्णी स्वयमातृण्णासंज्ञे द्वे इष्टके उपधेये । तयोर्मध्ये उत्तरदिश्यनूकरेखामध्ये प्रोथदश्व इति विकर्णीष्टकामुपदधातीति सूत्रार्थः । वसिष्ठदृष्टाग्नेयी त्रिष्टुप् । मथ्यमानोऽग्निः कथ्यते । यदा यस्मिन् काले महः महतः संवरणात्संव्रियतेऽस्मिन्नग्निरिति संवरणमरणिकाष्ठं तस्मात् व्यस्थात् वितिष्ठते प्रकाशो भवति तदा प्रोथत् प्रोथयति शब्दायते । प्रोथतिः शब्दार्थः 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ४ । ९७) इति तिप इकारलोपः । तत्र दृष्टान्तः अश्वो न । न इवार्थे । अश्व इव यथा यवसे अविष्यन् यवसं घासं भक्षयिष्यन्नश्वः प्रोथति । आत् अस्य अनन्तरं वह्निज्वलनशब्दानन्तरं वातो वायुरस्याग्नेरनुवाति अग्निमनुलक्ष्य प्रसरति वाय्वग्न्योः सख्यादिति भावः । कीदृशो वायुः । शोचिः शोचयति ज्वलयति शोचिः अग्नेः संदीपनः । शोचिरिति ज्वलन्नामसु पठितम् । यद्वास्य शोचिर्ज्वालामनुलक्ष्य वातो वाति । अधेति निपातोऽथार्थः । अथ वातेनाग्नौ ज्वलिते सति ते एतस्याग्नेः व्रजनं व्रजत्यत्रेति व्रजनं गमनस्थानं कृष्णमस्ति श्यामं भवति 'कृष्णवर्त्मा हुताशनः' इत्युक्तेः । स्मेति निपातः पादपूरणः । श्रुत्या ते इति पदमेतस्येति व्याख्यातं परोक्षत्वान्मन्त्रस्य । 'अथैतस्य व्रजनं कृष्णं भवति' ( ८ । ७ । ३ । १२) इति श्रुतेः । अविष्यन्नित्यत्तिकर्मसु पठितम् ॥ ६२ ॥

त्रिषष्टी।
आ॒योष्ट्वा॒ सद॑ने सादया॒म्यव॑तश्छा॒याया॑ᳪ समु॒द्रस्य॒ हृद॑ये ।
र॒श्मी॒वतीं॒ भास्व॑ती॒मा या द्यां भास्या पृ॑थि॒वीमोर्व॒न्तरि॑क्षम् ।। ६३ ।।
उ० स्वयमातृण्णामुपदधाति । आयोष्ट्वा । आयाद्यां भासीत्याद्यारम्भः यच्छब्दयोगात् । आयाद्यांभासि । द्युलोकसंस्तवोऽस्याः स्वयमातृण्णायाः । आभासि प्रकाशयसि या त्वं द्यां द्युलोकम् । आपृथिवीम् आभासि च पृथिवीम् । आभासि च उरु विस्तीर्णमन्तरिक्षम् । तां त्वां रश्मीवतीं रश्मिसंयुक्ताम् । आयोः अयनस्य आदित्यस्य । त्वां सदने अवस्थाने सादयामि । अवतः अवनस्य पालयितुः दीप्यतो वा। छायायाम् आश्रये । समुद्रस्य समुन्दनस्यादित्यस्य । हृदये प्रधानप्रदेशे । आदित्यो हि सर्वमुन्दतीति समुद्र उच्यते ॥ ६३ ॥
म० 'आयोष्ट्वेति स्वयमातृण्णाम्' ( का० १७।१२।२५)। आयोरिति कण्डिकाद्वयेन विकर्णीदक्षिणां स्वयमातृण्णामुपदधातीत्यर्थः । आयोः परमेष्ठीति द्वे यजुषी स्वयमातृण्णादेवत्ये आद्यं ब्राह्युडिष्णिक् द्वितीयमाकृतिच्छन्दः । हे स्वयमातृण्णे, आयोः आदित्यस्य सदने स्थाने तां त्वा त्वां सादयामि । स्थापयति एति निरन्तरं गच्छतीत्यायुरादित्यः । कीदृशस्यायोः । अवतः जगत्पालयितुः दीप्यमानस्य वा । तथा समुद्रस्य समुनत्तीति समुद्रस्तस्य । आदित्यो वृष्ट्या जगदार्दीकुर्वन् समुद्र उच्यते । किंभूते सदने । छायायामाश्रयभूते हृदये प्रधानभूते । कीदृशीं त्वाम् । रश्मिवतीं किरणयुतामतएव भास्वतीं शोभमानाम् । तां काम् । या त्वं द्यां द्युलोकमाभासि प्रकाशयसि पृथिवीमाभासि उरु विस्तीर्णमन्तरिक्षं चाभासि । रश्मिपदस्य संहितायां दीर्घः ॥ ६३॥

चतुःषष्टी।
प॒र॒मे॒ष्ठी त्वा॑ सादयतु दि॒वस्पृ॒ष्ठे व्यच॑स्वतीं॒ प्रथ॑स्वतीं॒ दिवं॑ यच्छ॒ दिवं॑ दृᳪह॒ दिवं॒ मा हि॑ᳪसीः ।
विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य ।
सूर्य॑स्त्वा॒ऽभिपा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शन्त॑मेन॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ।। ६४ ।।
उ० परमेष्ठी त्वासादयत्विति व्याख्यातम् ॥ ६४ ॥
म० व्याख्यातम् ( १४ । १२ । १५ । ५८) ॥ ६४ ॥

पञ्चषष्टी।
स॒हस्र॑स्य प्र॒माऽसि॑ स॒हस्र॑स्य प्रति॒माऽसि॑ स॒हस्र॑स्यो॒न्माऽसि॑ साह॒स्रो॒ऽसि स॒हस्रा॑य त्वा ।। ६५ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां पञ्चदशोऽध्यायः॥ १५ ॥
उ० अग्निं प्रोक्षति । हिरण्यशकलसहस्रेण शते द्वे द्वे प्रकि