पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

न पापकाशिनी अपापकाशिनी । या पुण्यफलमेव ददाति न पापफलमित्यर्थः । गिरौ कैलासे स्थितः शं सुखं प्राणिनां तनोति विस्तारयतीति गिरिशन्तः, गिरि वाचि स्थितः शं तनोतीति वा, गिरौ मेघे स्थितो वृष्टिद्वारेण शं तनोतीति वा, गिरौ शेते गिरिशः । अमति गच्छति जानातीत्यन्तः सर्वज्ञः । 'अम गतौ भजने शब्दे' कर्तरि क्तः । गिरिशश्वासावन्तश्च गिरिशन्तस्तत्संबुद्धिः । शकन्ध्वादित्वात्पररूपम् (पा० ६ । १ । ९४ ) कीदृश्या तन्वा । शन्तमया सुखतमया ॥२॥

तृतीया।
यामिषुं॑ गिरिशन्त॒ हस्ते॑ बि॒भर्ष्यस्त॑वे । शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हि॑ᳪसी॒: पुरु॑षं॒ जग॑त् ।। ३ ।।
उ० यामिषुम् । याम् इषुं काण्डम् । हे गिरिशन्त गिरौ पर्वतेऽवस्थितः कैलासाख्ये सुखं तनोतीति गिरिशन्तः तस्य संबोधनं हे गिरिशन्त । हस्ते बिभर्षि धारयसि । अस्तवे असितुं क्षेप्तुमित्यर्थः । शिवां गिरित्र गिरौ कैलासेऽवस्थितः त्रायते भक्तानिति गिरित्रः तस्य संबोधनं हे गिरित्र । तां कुरु । किंच। माहिंसीः मावधीः पुरुषम् जगत् जङ्गमं च गवादि ॥ ३ ॥
म० हे गिरिशन्त, त्वं यामिषुं बाणं हस्ते बिभर्षि धारयसि । किं कर्तुम् । अस्तवे 'असु क्षेपणे' तुमर्थे तवेप्रत्ययः । असितुं शत्रून् क्षेप्तुमित्यर्थः । गिरित्र, गिरौ कैलासे स्थितो भूतानि त्रायत इति गिरित्रः तामिषुं शिवां कल्याणकारिणीं कुरु । किंच पुरुषं पुत्रपौत्रादिकं जगत् जङ्गममन्यदपि गवाश्वादिकं मा हिंसीः मा वधीः ॥ ३ ॥

चतुर्थी।
शि॒वेन॒ वच॑सा त्वा गिरि॒शाच्छा॑ वदामसि । यथा॑ न॒: सर्व॒मिज्जग॑दय॒क्ष्मᳪ सु॒मना॒ अस॑त् ।। ४ ।।
उ० शिवेन वचसा । शिवेन वचनेन त्वा त्वाम् । गिरिश गिरौ पर्वते कैलासाख्ये शेते इति गिरिशः तस्य संबोधनम् हे गिरिश । अच्छावदामसि । 'अच्छाभेराप्तुमिति शाकपूणिः' । 'इदन्तो मसि' । तथा अभिवदाम । यथा येन प्रकारेण नः अस्माकं सर्वम् इत् । इच्छब्द एवार्थे । सर्वमेव जगत् जङ्गमादि। अयक्ष्मम् । यक्ष्मा व्याधिः । व्याधिरहितम् सुमनाश्च शोभनमनस्कं च असत् भूयात् ॥ ४ ॥
म० गिरौ कैलासे शेते गिरिशः हे गिरिश, शिवेन वचसा मङ्गलेन स्तुतिरूपेण वचनेन त्वा अच्छ त्वां प्राप्तुं वयं वदामसि वदामः प्रार्थयामहे । 'अच्छाभेराप्तुमिति शाकपूणिः' (नि० ५। २८ ) संहितायां 'निपातस्य च' (पा० ६ । ३ । १३६ ) इति दीर्घः । 'इदन्तो मसि' (पा. ७ । १ । ४६ )। किं वदाम इत्यत आह । नोऽस्माकं सर्वमित् सर्वमेव जगत् जङ्गमं नराः पश्वादि यथा येन प्रकारेण अयक्ष्मं नीरोगं सुमनाः शोभनमनस्कं च असत् भवति यथा कुर्विति शेषः । सुमनःशब्दे पुंस्त्वमार्षं जगद्विशेषणत्वात् । असदित्यत्र 'लेटोऽडाटौ' । (पा० ३ । ४ । ९४ ) इत्यट् इलोपः ॥ ४ ॥

पञ्चमी।
अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् ।
अही॑ᳪश्च॒ सर्वा॑ञ्ज॒म्भय॒न्त्सर्वा॑श्च यातुधा॒न्यो॒ऽध॒राची॒: परा॑ सुव ।। ५ ।।
उ० अध्यवोचत् । अधीत्युपरिभावमैश्वर्यं वा । अधिवदतु ब्रवीतु कंचित्स्वकीयं पुरुषम् भगवान् रुद्रः । अधिवक्ता ऐश्वर्येणैव यो वदितुं जानाति । प्रथमो दैव्यो भिषक् मुख्यो देवसंबन्धी भिषक् वैद्यः । किमधिवदत्वित्यत आह । अहींश्च सर्वान् जम्भयन् । 'जभिजृभी गात्रविनामे' । सर्वान् सर्वप्रकारान् नाशयन् । सर्वाश्च यातुधान्यः यातनाः दुःखं कष्टं तत्प्राणिषु धारयन्तीति यातुधान्यः राक्षसीः जम्भयन् । अधराचीः अधोञ्चनाः कृत्वा । परासुव पराक्षिप । यद्वा रुद्र एवोच्यते । अध्यवोचदधिवक्ता अधिवदतु ईश्वरो वक्ता । प्रथमो देवसंबन्धी भिषक् वैद्यः । अहींश्च सर्वान् । जम्भयन् सर्वाश्च यातुधान्यः अधराचीः कृत्वा परासुव क्षिप ॥ ५॥
म० रुद्रो मामध्यवोचत् अधिवक्तु मां सर्वाधिकं वदतु, तेनोक्ते मम सर्वाधिक्यं भवत्येवेत्यर्थः । कीदृशः । अधिवक्ता अधिकवदनशीलः । प्रथमः सर्वेषां मुख्यः पूज्यत्वात् । दैव्यः देवेभ्यो हितः । भिषक् रोगनाशकः स्मरणेनैव रोगनाशाद्भिषक्त्वम् । एवं परोक्षमुक्त्वा प्रत्यक्षमाह । हे रुद्र, सर्वा यातुधान्यः यातुधानीः राक्षसीः त्वं परासुव पराक्षिप अस्मभ्यो दूरीकुरु । किं कुर्वन् । सर्वानहीन् सर्पव्याघ्रादीन् जम्भयन् विनाशयन् । कीदृशीर्यातुधान्यः । अधराचीः अधरेऽधोदेशेऽञ्चन्ति ता अधराच्यः ताः अधोऽधोगमनशीलाः । चौ समुच्चये । सर्पनाशराक्षसीक्षेपौ सदैव कुर्वित्यर्थः ॥ ५॥

षष्ठी।
असौ॒ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गल॑: ।
ये चै॑नᳪ रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शोऽवै॑षा॒ᳪ हेड॑ ईमहे ।। ६ ।।
उ० असौ यः । आदित्यरूपेणात्र रुद्रः स्तूयते । अभिनयेन दर्शयन्नाह । असौ यस्ताम्रः ताम्रवर्णः । उदयकाले अस्तमनकाले च । अरुणः अरुणवर्णः रक्तवर्णः । उत बभ्रः अपिच बभ्रुवर्णः कपिलवर्णः । सुमङ्गलः शोभनानि मङ्गलान्यस्येति सुमङ्गलः । अवास्य हेड ईमह इत्यनुषङ्गः। । ये च एनं भगवन्तमादित्यं रुद्राः रश्मयः । अभितः इत