पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तप्रज्ञानम् । विप्रं न जातवेदसं विप्रमिव जातप्रज्ञानम् । यः देवो दानादिगुणयुक्तः। ऊर्ध्वया ज्वालया स्वध्वरः साधुयज्ञः । देवाच्याकृपा देवान् प्रत्यञ्चत्या देवान्प्रति गतया । कृपा कल्पितया । घृतस्य विभ्राष्टिमनुवष्टि शोचिषा । घृतस्य विभ्राष्ट्रिं विभ्रंशपातम् अनुकामयते दीप्त्या। आजुह्वानस्य आहूयमानस्य । सर्पिषो घृतस्य । तमहमग्निं होतारं मन्य इति संबन्धः ॥ ४७ ॥
म०. 'पुरीषवत्याः पूर्वामतिच्छन्दसं प्राच्यौ पुरीषहिते भद्रा रातिर्वृत्रतूर्येऽवस्थिराग्निᳪ होतारमिति' (का० १७ । १२ । १६) । अग्नेः पुरीषमसीति पुरीषशब्दवता मन्त्रेणोपहिता पञ्चम्यसपत्ना पुरीषवती तस्याः पूर्वामतिच्छन्दसमिष्टकामुपदधाति । भद्रा रात्रिः वृत्रतूर्ये अवस्थिरेति ककुभां चतुश्चतुरक्षरसहितयाग्निᳪ होतारमित्यृचा पुरीषवत्यतिच्छन्द इष्टके प्राग्लक्षणे पुरीषयुक्ते च भवतः । अनयोरन्तः पुरीषावापः कार्य इति सूत्रार्थः । अतिच्छन्दाः अवसानत्रिकोपेताः। छन्दांसि गायत्र्यादीनि सप्तातिक्रान्तातिच्छन्दाः । चतुःषष्ट्यक्षरत्वादष्टिः । ककुभामक्षरैः सहातिधृतिः । यो देवः दानादिगुणयुक्तोऽग्निरूर्ध्वयोन्नतया देवाच्या देवान्प्रत्यञ्चति गच्छतीति देवाची तया देवान् प्रति गतया कृपा कृप्यत इति कृप् तया क्लृप्तया समर्थया शोचिषा ज्वालया घृतस्य विभ्राष्टिं विभ्रंशपातमनुवष्टि अन्विच्छति । शोचिःशब्दस्य स्त्रीत्वमार्षम् । किंभूतस्य घृतस्य । आजुह्वानस्य समन्ताद्धूयमानस्य सर्पिषः सर्पतीति सर्पिस्तस्य । अभ्यङ्गेषु प्रसरणशीलस्य । य एतादृशः तमग्निं मन्ये जानामि । कीदृशम् । होतारं देवानामाह्वातारम् । दास्वन्तं 'दासृ दाने' दातारम् । वसुं वासयितारम् सहसो बलस्य सूनुं पुत्रं बलेन मथ्यमानत्वात् जातवेदसमुत्पन्नप्रज्ञम् । न इवार्थे । जातवेदसं जातसर्वशास्त्रज्ञानं विप्रं ब्राह्मणमिव स्थितम् ॥ ४७ ॥

अष्टाचत्वारिंशी।
अग्ने॒ त्वं नो॒ अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑व वरू॒थ्य॒: ।
वसु॑र॒ग्निर्वसु॑श्रवा॒ अच्छा॑ नक्षि द्यु॒मत्त॑मᳪ र॒यिं दा॑: ।
तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ।। ४८ ।।
उ० अग्ने त्वम् । द्विपदः तृचो व्याख्यातः ॥ ४८ ॥
म०. 'अग्ने त्वमित्यनूकान्तेऽपरे द्विपदाः' (का० १७ ।। १२।१७) । अग्ने, त्वम् वसुरग्निः तं त्वा इति तिसृभिरपरेऽनूकान्ते द्विपदेष्टका उपदधातीत्यर्थः । तिस्रो द्विपदा आग्नेय्यः व्याख्याताः ( ३ । २५-२६) ॥ ४८ ॥

एकोनपञ्चाशी।
येन॒ ऋष॑य॒स्तप॑सा स॒त्रमाय॒न्निन्धा॑ना अ॒ग्निᳪ स्व॑रा॒भर॑न्तः ।
तस्मि॑न्न॒हं नि द॑धे॒ नाके॑ अ॒ग्निं यमा॒हुर्मन॑वस्ती॒र्णब॑र्हिषम् ।। ४९ ।।
उ० येन ऋषयः । अष्टाभिर्ऋग्भिः पुनश्चितिश्चीयते । तत्र षट् त्रिष्टुभः द्वे अनुष्टुभौ । येन तपसा ऋषयो वसिष्ठप्रभृतयः सत्रम् आयन् आगतवन्तः । इन्धानाः अग्निम् आदीपयन्तः अग्निम् उख्यम् । स्वराभरन्तः स्वर्लोकमाभरन्तः स्वीकुर्वाणाः । तेनैवाहं तपसा सत्रमागत्याग्निं संदीप्य स्वर्लोकं च स्वीकृत्य । तस्मिन्नहं निदधे स्थापयामि । नाके अग्निम् न विद्यते अकं यत्र गतानां स नाकः स्वर्गो लोकः । यमाहुर्मनवः मननप्रधानाः। तीर्णबर्हिषम् सर्वैर्यज्ञसाधनैः संपादितसुखमित्यर्थः ॥ ४९ ॥
म० 'पुनश्चितिं चोपरि तद्वद्येन ऋषय इति प्रत्यृचम्' (का० १७ । १२ । १९) मध्योपहितस्यास्येष्टकस्य गार्हपत्यस्योपरि गार्हपत्यवदेव पुनश्चितिमुपदधाति येनेत्यष्टर्चेन प्रत्यृचमित्यर्थः । आग्नेय्योऽष्टौ षट् त्रिष्टुभः द्वे अनुष्टुभौ । ऋषयः मुनयो येन तपसा चित्तैकाग्र्येण सत्रं यज्ञमायन्नागताः। यज्ञं कर्तुमुद्यता इत्यर्थः । कीदृशाः । अग्निमिन्धानाः दीपयन्तः । तथा स्वः स्वर्गलोकमाभरन्तः आहरन्तः स्वीकुर्वाणाः । 'मनसश्चेन्द्रियाणां च ऐकाग्र्यं परमं तपः' इत्युक्तेः । तस्मिन् तपसि सति नाके स्वर्गलोकनिमित्तमग्निमहं निदधे स्थापयामि । मनवः मननप्रधाना विद्वांसो यमग्निं स्तीर्णबर्हिषमाहुर्वदन्ति स्तीर्णमाच्छादितं बर्हिर्यत्र तम् बर्हिर्यज्ञसाधनोपलक्षकम् । यज्ञसाधनसहितमित्यर्थः । 'ये विद्वाᳪसस्ते मनवः' (८। ६ । ३ । १८) इति श्रुतेः ॥ ४९ ॥

पञ्चाशी।
तं पत्नी॑भि॒रनु॑ गच्छेम देवाः पु॒त्रैर्भ्रातृ॑भिरु॒त वा॒ हिर॑ण्यैः ।
नाकं॑ गृभ्णा॒नाः सु॑कृ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः ।। ५०।
उ० तं पत्नीभिः । तदः श्रवणाद्यदोऽध्याहारः। द्वितीयादर्धर्चाद्व्याख्यायते । नाकं गृह्णानाः स्वीकुर्वन्तः ऋषयः । सुकृतस्य लोके साधुकृतस्य स्थाने । तृतीये पृष्ठे अधिरोचनेऽवस्थिता दिव एकदेशीभूते यत्रादित्यस्तपतीति तं पत्नीभिः सह अनुगच्छेम । हे देवाः, पुत्रैः भ्रातृभिः अपि च हिरण्यैः ॥ ५०॥
म० हे देवाः दीप्यमाना ऋत्विजः, पत्नीभिः कलत्रैः सह पुत्रैरुत पुत्रैरपि सह भ्रातृभिर्वा भ्रातृभिश्च हिरण्यैः सुवर्णादिद्रव्यैश्च सह तमग्निमनुगच्छेम वयमनुसरेम । सेवेमेत्यर्थः । वयम् । कीदृशे । तृतीये भूमिमारभ्य त्रिसंख्यापूरके दिवः पृष्ठे रविमण्डले नाकं दुःखहीनं स्थानमतिगृभ्णानाः अधिकं सुखस्थानं स्वीकुर्वन्तः । कीदृशे दिवः पृष्ठे । सुकृतस्य लोके शुभकर्मणः फलभूते रोचने दीप्यमाने । 'एतद्वै