पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयं पृष्ठᳪ रोचनं दिवो यत्रैष एतत्तपति' (८।६।३ १९) इति श्रुतेः ॥ ५० ॥

एकपञ्चाशी।
आ वा॒चो मध्य॑मरुहद्भुर॒ण्युर॒यम॒ग्निः सत्प॑ति॒श्चेकि॑तानः ।
पृ॒ष्ठे पृ॑थि॒व्या निहि॑तो॒ दवि॑द्युतद॒धस्प॒दं कृ॑णुतां॒ ये पृ॑त॒न्यव॑: ।। ५१ ।।
उ० आ वाचो मध्यमरुहत् । अरुहत् वाचोमध्यम् । 'एतद्ध वाचोमध्यं यत्रैष एतच्चीयते' । भुरण्युः भर्ता । अयमग्निः सत्पतिः शोभनानां पतिः । चेकितानः चेतयमानः । किंच पृष्ठे पृथिव्याः निहितः स्थापितः । दविद्युतम् देदीप्यमानः । अधस्पदम् पादयोरधः कृणुतां करोतु । ये पृतन्यवः पाप्मानस्तान्सर्वान् ॥ ५१ ॥
म० अयमग्निः वाचो मध्यं चयनस्थानमारुहत् चयनोपर्यारूढः । 'एतद्ध वाचो मध्यं यत्रैष एतच्चीयते' (८।६। ३ । २०) इति श्रुतेः । सोऽयमग्निः ये पृतन्यवः युद्धेप्सवः पाप्मानस्तानधस्पदं कृणुतां पादयोरधः करोतु । पादयोरधोऽधस्पदम् । कस्कादित्वात्सः (पा० ८ । ३ । ४८ ) । पृतनां सेनां युद्धं वा इच्छन्ति पृतन्यन्ति 'सुप आत्मनः क्यच्' (पा० ३ । १।८) 'कव्यध्वर-' (पा० ७ । ४ । ३९) इत्यादिना पृतनायाष्टिलोपः ततः 'क्याच्छन्दसि' (पा० ३ । २। १७०) इत्युप्रत्ययः । 'अधस्पदं कुरुताᳪ सर्वान् पाप्मनः' इति श्रुतेः । कीदृशोऽग्निः । भुरण्युः जगद्भर्ता । 'भुरण्युरिति भर्तेत्येतत्' इति श्रुतेः । सत्पतिः सतां पालकः । चेकितानः चेतयमानः । पृथिव्याः पृष्ठे भूम्युपरि निहितः स्थापितः । दविद्युतदत्यन्तं द्योतमानः 'दाधर्ति-' (पा० ७ । ४।६५) इत्यादिना यङ्लुकि शत्रन्तो निपातः ॥५१॥

द्विपञ्चाशी।
अ॒यम॒ग्निर्वी॒रत॑मो वयो॒धाः स॑ह॒स्रियो॑ द्योतता॒मप्र॑युच्छन् ।
वि॒भ्राज॑मानः सरि॒रस्य॒ मध्य॒ उप॒ प्रया॑हि दि॒व्यानि॒ धाम॑ ।। ५२ ।।
उ० अयमग्निः वीरतमः अतिशयेन वीरः । वयोधाः वयोऽन्नं हविर्लक्षणमस्मिन्धीयते । सहस्रियः सहस्रार्हः । द्योततां दीप्यताम् । अप्रयुच्छन् अप्रमत्तः विभ्राजमानः सरिरस्य मध्ये । 'इमे वै लोकाः सरिरम्' । दीप्यमान एषु लोकेषु । उप प्रयाहि । यातु इति पुरुषव्यत्ययः परोक्षकृतत्वान्मन्त्रस्य । दिव्यानि धामानीति बहुवचनेन सन्नतिः। स्थानानीति पर्यायः ॥५२॥
म० अयमग्निर्द्योततां दीप्यतां दिव्यानि धाम धामानि स्थानानि उप प्रयाहि । उपप्रयातु च स्वर्गं लोकं गच्छतु । पुरुषव्यत्ययः । 'उपप्रयाहि दिव्यानि धामेत्युपप्रयाहि स्वर्गं लोकमित्येतत्' (८ । ६ । ३ । २१) इति श्रुतेः । कीदृशोऽग्निः । वीरतमः अतिशयेन वीरः शूरः । वयोधाः वयोऽन्नं हविर्लक्षणं दधातीति वयोधाः । सहस्रियः इष्टकानां सहस्रेण संमितः 'सहस्रेण संमितौ घः' (पा० ४ । ४ । १३५) इति घप्रत्ययः । अप्रयुच्छन् कर्मण्यप्रमाद्यन् सरिरस्य मध्ये लोकत्रयान्तर्विभ्राजमानः दीप्यमानः । 'इमे वै लोकाः सरिरम्' (२१) इति श्रुतेः ॥ ५२ ॥

त्रिपञ्चाशी।
स॒म्प्रच्य॑वध्व॒मुप॑ स॒म्प्रया॒ताग्ने॑ प॒थो दे॑व॒याना॑न् कृणुध्वम् ।
पुन॑: कृण्वा॒ना पि॒तरा॒ युवा॑ना॒ऽन्वाता॑ᳪसी॒त् त्वयि॒ तन्तु॑मे॒तम् ।। ५३ ।।
उ० संप्रच्यवध्वम् । ऋषीनाह मन्त्रदृक् संप्रच्यवध्वमेनमग्निम् उपसंप्रयात च । त्वम् हे अग्ने, पथः देवयानानृषीणां कुरु इति वचनव्यत्ययः । किंच पुनरपि कृण्वानाः कुर्वाणा ऋषयः । पितरा युवाना । 'वाक् च मनश्च पितरा युवाना' इति श्रुतिः । वाङ्मनसे युवाना तरुणे अयातयामे अन्योन्यं संगते वा । संगते हि वाक् च मनश्च यज्ञं साधयतः । अन्वाताᳪसीत् त्वयि तन्तुमेतम् अन्वातनोतु त्वयि तन्तुं यज्ञम् एतम् हे अग्ने ॥ ५३ ॥
म० मन्त्रदृगृषीनाह । हे ऋषयः, एतमग्निं यूयं संप्रच्यवध्वमग्निं प्रत्यागच्छत । उप संप्रयात च आगत्य सम्यक् प्राप्नुत । संप्रच्यवध्वमुप संप्रयातेत्यमूनेतदृषीनाह । 'समेनं प्रच्यवध्वमुप चैनᳪ संप्रयात' (८ । ६ । ३ । २२) इति श्रुतेः । एवमृषीनुक्त्वाग्निमाह हे अग्ने, देवयानान् पथः कृणुध्वं कुरु वचनव्यत्ययः । देवा यायन्ते प्राप्यन्ते यैस्ते देवयानास्तान् ‘करणाधिकरणयोश्च' (पा० ३ । ३ । ११७) इति ल्युट् । देवलोकप्राप्तिहेतून्मार्गान्कुर्वित्यर्थः । हे अग्ने, यत ऋषय एतं तन्तुं यज्ञं त्वयि अन्वातांसीत् अतानिषुः अनुक्रमेण विस्तारितवन्तः । वचनव्यत्ययः । कीदृशा ऋषयः । पुनः भूयः पितरा वाङ्मनसे युवाना तरुणौ अयातयामावन्योन्यसङ्गतौ कृण्वानाः कुर्वाणाः । स्वादेः कृञः शानच् । विभक्तेराकारः । संयताभ्यां वाङ्मनसाभ्यामेव यज्ञसाधनात् ते संयते कुर्वाणाः जितेन्द्रिया इत्यर्थः । पुनः कुर्वाणाः पितरा युवानेति 'वाक् चैव मनश्च पितरा युवाना' ( २२ ) इति श्रुतेः ॥ ५३ ॥

चतुःपञ्चाशी। |
उद्बु॑ध्यस्वाग्ने॒ प्रति॑ जागृहि॒ त्वमि॑ष्टापू॒र्ते सᳪ सृ॑जेथाम॒यं च॑ ।
अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवा॒ यज॑मानाश्च सीदत ।। ५४ ।।
उ० उद्बुध्यस्व प्रतिबुद्धो भव । हे अग्ने, प्रतिजागृहि च त्वम् । ततः इष्टापूर्ते च संसृजेथाम् त्वत्प्रसादाद्यजमानेन सह । अयं च यजमानः इष्टापूर्ताभ्यां संसृष्टो