पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मुखे सर्पिषः पानायेति शेषः । घृतस्य पानाय उभे दर्वी दर्व्याकारौ हस्तौ श्रीणीषे आश्रयसि सेवसे 'श्री पाके' क्र्यादिः अत्राश्रयार्थः । उतो अपिच हे शवसः पते, बलस्याधिपते, उक्थेषु शस्त्रवत्सु यज्ञेषु नोऽस्मानुत्पुपूर्याः उत्कर्षेण पूरय धनैरिति शेषः । स्तोतृभ्य इषमन्नमाहर ॥ ४३ ॥

चतुश्चत्वरिंशी।
अग्ने॒ तम॒द्याश्वं॒ न स्तोमै॒: क्रतुं॒ न भ॒द्रᳪ हृ॑दि॒स्पृश॑म् । ऋ॒ध्यामा॑ त॒ ओहै॑: ।। ४४ ।।
उ० अग्ने तमद्य । पदपङ्क्तिः तृचः । हे अग्ने, तं पावकं यज्ञम् अद्य । ऋद्ध्याम समर्धयेमहि । कथमिव । अश्वं न स्तोमैः । यथा अश्वमाश्वमेधिकं स्तुतिभिः समर्धयेयुः एवं समर्धयेमहि । क्रतुं न भद्रम् क्रतुं संकल्पमिव च भद्रं । हृदिस्पृशम् । हृदि आत्मना स्पृश्यते बहुकालाभिध्यातम् यथा समर्धयेयुः एवं समर्धयेमहि । ते तव संबन्धिभिः ओहैः। वहेरेतद्रूपम् । प्रापणैः । त्वं नामबन्धुकर्मरूपसंयुक्ताभिः स्तुतिभिर्दक्षिणाभिश्च यज्ञं समर्धयेमहीति समस्तार्थः ॥४४॥
म० 'उत्तरे पदपङ्क्ती अग्ने तमिति' ( का० १७ । १२ । १५)। उत्तरानूकान्ते तिस्रः पदपङ्क्तीष्टकाः अग्ने तमिति तिसृभिरुपदधातीति सूत्रार्थः । तिस्रः पदपङ्क्तयः । यस्याः पञ्चाक्षराश्चत्वारः पादा एकः षडर्णः सा पदपङ्क्तिः । यद्वा त्रयः पञ्चार्णाश्चतुर्थश्चतुरर्णः पञ्चमः षडर्ण इति । पञ्चकाश्चत्वारः षट्कश्चैकश्चतुर्थश्चतुष्को वा पदपङ्क्तिरित्युक्तेः । तत्राद्यायां चतुर्थश्चतुष्कः । हे अग्ने, ते तव तं क्रतुं तावकं प्रसिद्धं यज्ञमद्यास्मिन् दिने वयमृद्ध्याम समर्धयाम । समृद्धं करवामेत्यर्थः । आशिषि लोट् । संहितायां दीर्घः । कैः । स्तोमैः स्तुतिभिः सामसमूहैः । कीदृशैः स्तोमैः । ओहैः । वहे रूपम् । वहन्ति फलं प्रापयन्तीत्योहाः तैः, वहन्ति प्रतिपादयन्ति त्वत्कर्मरूपनामानीति वा । तत्रैको दृष्टान्तः । अश्वं न स्तोमैः । न इवार्थे । यथा स्तोमैः स्तुतिभिरश्वमाश्वमेधिकं विप्राः समर्धयन्ति । द्वितीयो दृष्टान्तः । क्रतुं न भद्रं हृदिस्पृशम् हृदि स्पृशतीति हृदिस्पृक् । 'हलदन्तात्-' (पा० ६।३।९) इत्यलुक् अतिप्रियं चिरं मनसि स्थितं भद्रं कल्याणं क्रतुं संकल्पं यथा समर्धयन्ति । क्रतुर्यज्ञः संकल्पश्चेति दृष्टान्तदार्ष्टान्तिकयोरस्य संबन्धः । चिराभिलषितं यथा सन्तः संपादयन्तीत्यर्थः ॥ ४४ ॥

पञ्चचत्वारिंशी।
अधा॒ ह्य॒ग्ने॒ क्रतो॑र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः । र॒थीर्ऋ॒तस्य॑ बृह॒तो ब॒भूथ॑ ।। ४५ ।।
उ० अधा ह्यग्ने । अधा समनन्तरमेव । हिः पादपूरणः। हे अग्ने, क्रतोः भद्रस्य संकल्पस्य भन्दनीयस्य । दक्षस्य तस्यैव समृद्धस्य । समृद्धः संकल्पो दक्ष उच्यते । साधोरतिशययुक्तस्य । रथीः इव बभूथ भव । ऋतस्य यज्ञस्य च । बृहतो महतः बभूथ भव । अथवा यज्ञ एवोच्यते । अथ अग्नेः क्रतोः यज्ञस्य भन्दनीयस्य । दक्षस्य उत्साहयुक्तस्य दक्षिणाभिः समृद्धस्य । साधोः रथीरिव ऋतस्य यज्ञस्य बृहतो भव ॥ ४५ ॥
म० अथेत्यर्थेऽधेत्यव्ययम् । 'निपातस्य च' (पा. ६ । ३ । १३६ ) इति संहितायां दीर्घः । हि पादपूरणः । हे अग्ने, अथ समनन्तरमेव क्रतोः अस्मद्यज्ञस्य रथीः सारथिरिव बभूथ भव । 'बभूथाततन्थ-' (पा० ७ । २ । ६४ ) इत्यादिनाडभावः । रथोऽस्यास्तीति रथीः सारथी । रथादीरन्नीरचावित्यस्त्यर्थे ईरच्प्रत्ययः । सारथिर्यथा रथनिर्वाहं करोति तथा यज्ञनिर्वाहको भवेत्यर्थः । कीदृशस्य क्रतोः । भद्रस्य कल्याणरूपस्य । दशस्य समृद्धस्य स्वफलदानसमर्थस्येति वा । साधोः साध्यते निष्पाद्यते इति साधुस्तस्यातिशययुक्तस्येत्यर्थः । ऋतस्य अमोघफलस्य । बृहतः महतः प्रौढस्य ॥ ४५ ॥

षट्चत्वारिंशी।
ए॒भिर्नो॑ अर्कै॒र्भवा॑ नो अ॒र्वाङ् स्व॒र्ण ज्योति॑: । अग्ने॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः ।। ४६ ।।
उ० एभिर्नः एभिः अर्कैः मन्त्रैः नः अस्माकं संबन्धिभिः स्तूयमान इति शेषः । भव नः अस्मान् अर्वाङ् अभिमुखाञ्चनः । कथमिव । स्वर्णज्योतिः यथा स्वराख्यं ज्योतिरुदयादारभ्यार्वागञ्चनम् सर्वप्राणिनोऽनुगृह्णाति । एवं भवार्वागञ्चनोऽनुग्रहपरतया । हे अग्ने, विश्वेभिः अनीकैः सर्वैर्मुखैः । अनीकम् मुखम् । सुमनाः शोभनमनस्कः सन्॥४६॥
म० हे अग्ने, विश्वेभिः विश्वैः सर्वैरनीकैः मुखैः कृत्वा नोऽस्मान् प्रति अर्वाङ् अभिमुखो भव । अवरं समीपदेशमञ्चतीत्यर्वाङ् । अनुगृहाणेत्यर्थः । कीदृशः । एभिरस्मत्पठितैरर्कैरर्चनीयमन्त्रैः कृत्वा सुमनाः शोभनमनस्कः । प्रसन्नः सन्नस्मत्संमुखो भवेत्यर्थः । तत्र दृष्टान्तः । स्वः न ज्योतिः स्वःशब्देन सूर्यः । न इवार्थे । यथा स्वरादित्यरूपं ज्योतिः अर्कैः स्तुतमुदयादारभ्य सर्वप्राणिसंमुखं भवति । 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५) इति भवेत्यस्य दीर्घः ॥ ४६ ॥

सप्तचत्वारिंशी।
अ॒ग्निᳪ होता॑रं मन्ये॒ दास्व॑न्तं॒ वसु॑ᳪ सू॒नुᳪ सह॑सो जा॒तवे॑दसं॒ विप्रं॒ न जा॒तवे॑दसम् ।
य ऊ॒र्ध्वया॑ स्वध्व॒रो दे॒वो दे॒वाच्या॑ कृ॒पा । घृ॒तस्य॒ विभ्रा॑ष्टि॒मनु॑ वष्टि शो॒चिषा॒ऽऽजुह्वा॑नस्य स॒र्पिष॑: ।। ४७ ।।
उ० अग्निं होतारम् । अतिच्छन्दाः अष्टिरत्यष्टिर्वा । तमहमग्निं होतारं मन्ये जानामि । दास्वन्तं दानवन्तम् वसुं वासयितारम् सूनुं सहसः बलस्य पुत्रम् । जातवेदसं जा