पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विपूर्वादिण् गताविति धातोर्लङि प्रथमाद्विवचनम् । वसवोऽष्टौ रुद्रा एकादश आदित्या द्वादशानुव्यायन् अन्वगच्छन् अनुगताः त एव स्वामिनोऽभूवन् । 'दश हस्त्या अङ्गुलयो दश पाद्याश्चत्वार्यङ्गानि द्वे प्रतिष्ठे आत्मा सप्तविᳪशः' ( ८ । ४ । ३ । १६) इति श्रुतेः ॥ ३० ॥

एकत्रिंशी।
नव॑विᳪशत्याऽस्तुवत॒ वन॒स्पत॑योऽसृज्यन्त॒ सोमोऽधि॑पतिरासी॒देक॑त्रिᳪशताऽस्तुवत प्र॒जा अ॑सृज्यन्त॒ यवा॒श्चाय॑वा॒श्चाधि॑पतय आसँ॒त्रय॑स्त्रिᳪशताऽस्तुवत भू॒तान्य॑शाम्यन् प्र॒जाप॑तिः परमे॒ष्ठ्यधि॑पतिरासील्लो॒कं ता इन्द्र॑म् ।। ३१ ।।
इति श्रीवाजसनेयसंहितायां चतुर्दशोऽध्यायः ।
उ० सृष्टीरुपदधाति सप्तदशेष्टकाः सप्तदशभिर्मन्त्रैः । एकया स्तुवतेत्यादिभिः तत्र निदानभूता श्रुतिः । 'एतद्वै प्रजापतिः' इत्युपक्रम्य 'ते वै केन स्तोष्यामह' इति । मया चैव युष्माभिश्चेति तथेतरे प्राणैश्चैव प्रजापतिना । एकयास्तुवतेति । एकया वाचा अस्तुवत स्तुतवान् । कः सामर्थ्यात्प्रजापतिः । इदानीं फलमाह । प्रजा अधीयन्त । याः गर्भीभूताः प्रजाः प्रजापतेरासन् ताः प्रजापत्यर्थम् अस्थाप्यन्त स्थिताः । प्रजापतिरधिपतिरासीत् अस्यां स्तुतौ। एवं षोडशानामिष्टकानां मन्त्रा एकव्याख्यानाः ॥ २८ ॥ ॥ २९ ॥ ३० ॥ ३१ ॥
इति उवटकृतौ मन्त्रभाष्ये चतुर्दशोऽध्यायः ॥ १४ ॥
म०. नवविंशत्या करपादाङ्गुलयो नव छिद्ररूपाः प्राणास्तैरस्तुवत ततो वनस्पतयोऽश्वत्थवटाद्याः सृष्टाः तेषां स्वामी सोमोऽभूत् । 'दश हस्त्या अङ्गुलयो दश पाद्या नव प्राणाः' (८।४।३।१७) इति श्रुतेः । एकत्रिंशता करपादाङ्गुलयः दशेन्द्रियाणि आत्मेति तैरस्तौत् । ततः प्रजाः सृष्टाः यवाः पूर्वपक्षा अयवाः अपरपक्षास्तांसां प्रजानां स्वामिनोऽभूवन् 'दश हस्त्या अङ्गुलयो दश पाद्या दश प्राणा आत्मैकत्रिᳪशः' (८।४ । ३ । १८) इति श्रुतेः । पूर्वपक्षापरपक्षा एवात्राधिपतय आसन् (१८) इति च । त्रयस्त्रिंशता अङ्गुलयः इन्द्रियाणि पादौ आत्मेति तैरस्तुवत स्तौतिस्म प्रजापतिर्देवैः सह । ततो भूतानि अशाम्यन् सर्वे प्राणिनः शान्ताः सुखिनोऽभूवन् । परमे सत्यलोके तिष्ठतीति परमेष्ठी प्रजापतिः प्रजापालकः सर्वेषां भूतानामधिपतिः स्वाम्यासीत् । 'दश हस्त्या अङ्गुलयो दश पाद्या दश प्राणा द्वे प्रतिष्ठे आत्मा त्रयस्त्रिᳪशः ' (८ । ४ । ३ । १९) इति श्रुतेः । अत्र या येष्टका येन मन्त्रेणोपधेया सा सा तत्तन्मन्त्रोक्तदेवतारूपेण ध्यातव्येत्यर्थः । 'उत्तराᳪसादधि लोकंपृणाः पूर्ववत्' (का० १७ । १०।१९) उत्तरांसादारभ्य प्रथमचितिवल्लोकंपृणा उपदधातीति सूत्रार्थः । ततः पुरीषनिर्वापः सप्तर्चोपस्थानं च बोध्यम् । तन्मन्त्रप्रतीकानि लोकंपृण ता अस्य इन्दं विश्वा इति तास्तिस्रोऽपि व्याख्याताः ( १२ । १४-१६) ॥ ३१ ॥
इति चतुर्थी चितिः पूर्णा ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
वेदचन्द्रमितोऽध्यायो वर्ण्यद्वित्रिचतुश्चितिः ॥ १४ ॥

पञ्चदशोऽध्यायः।
तत्र प्रथमा।
अग्ने॑ जा॒तान् प्र णु॑दा नः स॒पत्ना॒न् प्रत्यजा॑तान् नुद जातवेदः।
अधि॑ नो ब्रूहि सु॒मना॒ अहे॑डँ॒स्तव॑ स्याम॒ शर्मँ॑स्त्रि॒वरू॑थ उ॒द्भौ ।। १ ।।
उ० अग्नेर्जातान् पञ्चमीं चितिं परमेष्ठ्यपश्यत् । तत्रादौ पञ्चासपत्ना उपधीयन्ते । तत्रादौ द्वे त्रिष्टुभावाग्नेय्यौ पुरस्तादुपदधाति । हे अग्ने, जातानुत्पन्नान् प्रणुद प्रेरय नाशय अपुनरागमनाय । नः आस्माकं सपत्नान् समानपतित्वात् समानपतित्वदर्शिनः शत्रून् । प्रत्यजातान् नुद । प्रतिज्ञाय प्रतिज्ञाय अजातान् अनुत्पन्नान् जनिष्यमाणान् नुद प्रेरय हे जातवेदः । किंच अधि नो ब्रूहि सुमना अहेडन् । एवं निर्धारितेषु सपशुगृहीतेषु च तद्वत्तेषु अधिब्रूहि अधिवद उपदिश यज्ञसंबन्धिनीमितिकर्तव्यतां नः अस्माकम् सुमनाः स्नेहानुबन्धमनाः अहेडन् अक्रुध्यन् । तव च स्याम भवेम । शर्मन् शरणे आश्रये त्रिवरूथे। वरूथं गृहम् त्रिगृहे त्रिपुरे । उद्भौ द्विपदचतुष्पदधनधान्योद्भूतशक्तौ । यद्वा त्रिवरूथे यज्ञगृहे स्याम । त्रीणि हि यज्ञगृहाणि सदोहविर्धानाग्नीध्रेणि । उद्भौ उद्भेत्तरि । अन्येषां यज्ञक्रतूनाम् ॥ १ ॥
म० चतुर्दशेऽध्याये द्वितीयतृतीयचतुर्थचितिमन्त्रानुक्त्वा पञ्चदशे पञ्चमचितिमन्त्रा वाच्याः । 'पञ्चम्यामन्तेष्वाश्विनीवदसपत्ना अग्ने जातानिति प्रतिमन्त्रम्' ( का० १७।११।१-३) । पञ्चम्यां चितावाश्विनीवत् असपत्नासंज्ञा इष्टकाः अन्तेषूपदधाति अग्रे जातान् सहसा जातान् षोडशी चतुश्चत्वारिᳪशः अग्नेः पुरीषम् इति पञ्चमन्त्रैः प्रत्येकमिति सूत्रार्थः । पञ्चमचितिमन्त्राणां परमेष्ठी ऋषिः । तत्र द्वे अग्निदेवत्ये त्रिष्टुभौ । हे अग्ने, जातान् पूर्वमुत्पन्नान्नोऽस्माकं सपत्नान् शत्रून् त्वं प्रणुद प्रकर्षेण नाशय । किंच हे जातवेदः जातप्रज्ञान, अजाताननुत्पन्नांश्च शत्रून् प्रतिनुद निवर्तय । उत्पत्तिप्रतिबन्धं कुर्वित्यर्थः । उपसर्गव्यवधानमार्षम् । किंच नो- ऽस्माकमधिब्रूहि अधिवद उपदिश यज्ञसंबन्धिनीमितिकर्तव्यतामिति शेषः । किं कुर्वन् । अहेडन् अक्रुध्यन् । सुमनाः शोभनमनस्कः सन्नुपदिशेत्यर्थः । किंच अग्ने, तव त्वत्संबन्धिनि त्रिवरूथे वरूथं गृहं त्रयाणां वरूथानां समाहारे यज्ञगृहेऽत्र