पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० उदग्ने उत्तिष्ठ हे अग्ने, किंच प्रत्यातनुष्व प्रत्यातनुहि विस्तारय ज्वालाप्राग्भारान् । किंच न्यमित्रान् ओषतात् न्योषतात् निर्दह अमित्रान् शत्रून् हे तिग्महेते । हेतिरायुधम् तिग्म तेजतेरुत्साहकर्मणः । उत्साहवदायुधं यस्य स तथोक्तः । किंच । यश्च नः अस्मभ्यम् अरातिमदानं चक्रे न ददाति अश्रद्धालुः । हे समिधान नीचा नीचैःकृत्व तं धक्षि दह । अतसं न । अतसो वृक्षः । नकार उपमार्थीयः । वृक्षमिव शुष्कम् ॥ १२ ॥
म० हे अग्ने, त्वमुत्तिष्ठ ततः प्रत्यातनुष्व ज्वाला विस्तारय । तिग्मा हेतयो यस्य स तिग्महेतिः । तिग्मं तेजतेरुत्साहकर्मणः । तत्संबोधनं हे तिग्महेते उत्साहवदायुध, अमित्राञ्छत्रून् त्वं न्योषतान्नितरां दह । 'उष दाहे' 'तुह्योस्तातङ्-' (पा० ७।१। ३५ ) इति तातङादेशः । हे समिधान, समिन्द्धे दीप्यतेऽसौ समिधानः तत्संबुद्धौ हे समिधान दीप्यमान, नोऽस्माकं योऽरातिं चक्रे करोति दानं प्रतिषेधति तं नीचा नीचैः कृत्वा धक्षि दह । 'दह भस्मीकरणे' 'बहुलं छन्दसि' (पा० २। ४ । ७३ ) इति शपि लुप्ते लटि मध्यमैकवचने धक्षीति रूपम् । तत्र दृष्टान्तः । शुष्कमतसं न । न इवार्थः । अतसो वृक्षः शुष्कं वृक्षमिवादातारं निर्दहेत्यर्थः ॥ १२ ॥

त्रयोदशी।
ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या॑न्यग्ने ।
अव॑ स्थि॒रा त॑नुहि यातु॒जूनां॑ जा॒मिमजा॑मिं॒ प्र मृ॑णीहि॒ शत्रू॑न् ।
अ॒ग्नेष्ट्वा॒ तेज॑सा सादयामि ।। १३ ।।
उ० ऊर्ध्वो भव ऊर्ध्वस्तिष्ठ । स्थित्वा च प्रतिविध्य प्रतिताडय । अध्यस्मत् अस्मत्त उपरि व्यवस्थितान् । किंच आविष्कृणुष्व प्रकाशीकुरुष्व दैव्यानि कर्माणि हे अग्ने । किंच अवस्थिरा तनुहि अवतनुहि अवतारय स्थिराणि धनूंषि । यातुजूनां यातुधानानां जवनप्रधानानाम् । किंच यज्ञस्य जामिमजामिम् । जामिशब्दः पुनरुक्तवचनः । पुनरुक्तमपुनरुक्तं कृत्वा प्रमृणीहि । मृणतिर्मरणार्थः । प्रमारय शत्रून् । प्रथमां स्रुचमुपदधाति । आग्नेयेन यजुषा ऋचा वा अग्नेष्ट्वा । अग्नेः संबन्धिना तेजसा त्वां सादयामि हे स्रुक् ॥ १३ ॥
म० हे अग्ने, ऊर्ध्वो भव उद्युक्तो भव । अस्मदधि अस्माकमुपरि वर्तमानाञ्शत्रून्प्रतिविध्य प्रतिताडय । दैव्यानि देवसंबन्धीनि कर्माणि आविष्कृणुष्व प्रकटय । किंच यातुजूनां यातुधानानां स्थिरा स्थिराणि धनूंषि अवतनुहि अवतारय । किंच जाम्यजामिशब्दौ पुनरुक्तापुनरुक्तवचनौ । जामिमजामि पुनरुक्तमपुनरुक्तं कृत्वा पुनःपुनस्ताडितमताडितं
वा शत्रून् प्रमृणीहि । मृणातिर्मारणार्थः । रिपून् मारय । । 'घृतपूर्णामग्नेष्ट्वेति' ( का० १७ । ४ । १२)। कार्ष्मर्यमयीं(?) पादमात्रदीर्घां षडङ्गुलविपुलां घृतपूर्णां प्रागग्रां स्रुचमग्नेष्ट्वेति ' यजुषाग्निर्मूर्धेति ऋचा चोपदधाति । आग्नेयं यजुः । हे स्रुक्, अग्नेः संबन्धिना तेजसा त्वा त्वां सादयामि ॥ १३ ॥

चतुर्दशी।
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पति॑: पृथि॒व्या अ॒यम् । अ॒पाᳪ रेता॑ᳪसि जिन्वति ।
इन्द्र॑स्य॒ त्वौज॑सा सादयामि ।। १४ ।।
उ० अग्निर्मूर्धा व्याख्यातम् । द्वितीयामुपदधाति ऐन्द्रेण यजुषा । आग्नेय्या च त्रिष्टुभा । इन्द्रस्य त्वाम् ओजसा | बलेन सादयामि ॥ १४ ॥
म० अग्निर्मूर्धेति व्याख्याता ( ३ । १२)। ( का० १७ । ४ । १३ ) एवमौदुम्बरीमुत्तरतो दधिपूर्णामिन्द्रस्य त्वेति । एवंविधमेवोदुम्बरीं दधिपूर्णां स्रुचमुत्तरे उपदधाति । इन्द्रस्य त्वेति यजुषा भुव इति ऋचा च । इन्द्रदेवत्यं यजुः । हे स्रुक्, इन्द्रस्यौजसा तेजसा त्वां सादयामि स्थापयामि ॥ १४ ॥

पञ्चदशी।
भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भि॒: सच॑से शि॒वाभि॑: ।
दि॒वि मू॒र्धानं॑ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म् ।। १५ ।।
उ० भुवो यज्ञस्य । चतुर्थः पादः प्रथमं व्याख्यायते । अर्थसंबन्धात् । यदा जिह्वां ज्वालालक्षणां हे अग्ने, चकृषे करोषि । हव्यवाहं हविषो वोढ्रीम् अथानन्तरमेव भुवः भवसि । यज्ञस्य द्रव्यदेवतात्यागात्मनो नेता देवयानपितृयाणमार्गानुसारिणः । रजसश्चोदकस्य च यज्ञपरिणामभूतस्य नेता भवति जगदुत्पत्त्यर्थम् । कुत्र नेता भवसीत्यत आह । यत्र यस्मिन् स्थाने नियुद्भिः नियुद्गुणविशिष्टाभिरश्वाभिः शिवाभिः सहितं वायुं सचसे सेवसे । नियुतो वायोरित्यादिष्टोपयोजनानीति नियुद्भिर्वायुर्लक्ष्यते वायुनान्तरिक्षम् । यत्रच दिवि द्युलोके मूर्धानमादित्यं दधिषे धारयसि । स्वर्षां स्वः द्युलोकं सनोतीति स्वर्षा तां स्वर्षाम् तत्र भवसि । यज्ञस्य रजसश्च नेतेति । यस्य तवैतत्कर्म तं त्वां सादयाम इति शेषः ॥ १५॥
म० त्रिशिरोदृष्टाग्निदेवत्या त्रिष्टुप् । हे अग्ने, त्वं यदा हव्यवाहं हव्यं वहतीति हव्यवाट् तां हविषो वोढ्रीं जिह्वां — ज्वालां चकृषे करोषि । लडर्थे लिट् । तदा यज्ञस्य द्रव्यदेवतात्यागात्मनो नेता भुवः भवसि । रजसः यज्ञपरिणामरूपोदकस्य ' च नेता भवसि जगद्रक्षार्थम् । भवतेर्लेटि मध्यमैकवचने सिपि