पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

च । तृष्वीमनु प्रसितिं द्रूणानः । तृष्व्या प्रसित्येति विभक्तिव्यत्ययः । द्रूणान इति हिंसाकर्मा । यतश्च त्वं तृष्व्या क्षिप्रया प्रसित्या तन्तुना जालेन वा द्रूणानो हिंसन् अस्ता असि क्षेप्ता असि विकटः कृतास्त्रोसि अतो ब्रवीमि । विध्य ताडय । हिंद्धि रक्षसः । तपिष्ठैः तप्ततमैः प्रहारैः । यद्वा । अतीव तप्ततमैः अतिशयेन क्लेशकरैः ॥ ९॥
म०. उपविश्य पञ्चगृहीतं जुहोति पुरुषे कृणुष्व पाज इति प्रत्यृचं प्रतिदिशं परिसर्पम् ( का० १७ । ४ । ७ ) । आज्यं संस्कृत्य पञ्चगृहीतमादायात्मानमारुह्य पुरुषान्तिके उपविश्य प्रतिदिशं परिसृप्य परिसृप्य पुरुषोपरि पञ्चर्ग्भिर्जुहोतीति सूत्रार्थः । वामदेवदृष्टा राक्षोघ्नाः प्रतिसराः अग्निदेवत्याः पञ्च त्रिष्टुभः । हे अग्ने, पाजः बलं कृणुष्व कुरुष्व । पाज इति बलनामसु पठितम् । तत्र दृष्टान्तः । पृथ्वीं विशालां प्रसितिं न प्रसितिमिव । प्रसितिर्जालम् 'प्रसितिः प्रसयनात्तन्तुर्वा जालं वा' (निरु० ६ । १२ ) इति यास्कोक्तेः । 'षिञ् बन्धने' प्रकर्षेण सीयन्ते बध्यन्ते पक्षिणो यया सा प्रसितिः ताम् । नकार इवार्थः । पक्षिग्रहणाय प्रसारितं जालमिव शत्रुग्रहणाय बलं प्रसारयेत्यर्थः । ततो राजेव नृप इवामवान् सहायवानिभेन गजेन याहि शत्रून्प्रति गच्छ । 'अम् गतौ भजने शब्दे' अमन्ति भजन्ति स्वामिन इत्यमाः सेवकास्तेऽस्य सन्तीत्यमवान् । पचाद्यजन्तादमशब्दान्मतुप्प्रत्ययः । हे अग्ने, अस्ता शत्रूणां क्षेप्तासि अतो रक्षसः राक्षसान् विध्य ताडय । 'व्यध ताडने' दिवादित्वाच्छ्यन् गहादित्वात्संप्रसारणम् । कैः । तपिष्ठैः तापकतमैरायुधैः । तपन्ति संतापयन्तीति तप्तॄणि अतितप्तॄणि तपिष्टानि तैः । 'तुरिष्ठेमेयःसु' (पा० ६ । ४ । १५४ ) इतीष्ठनि परे तृचो लोपः। कीदृशस्त्वम् । तृष्वीं प्रसितिम् । विभक्तिव्यत्ययः । तृष्व्या क्षिप्रया प्रसित्या जालेन अनु द्रूणानः शत्रून्मारयन् 'दु हिंसायां' क्र्यादिः शानच् प्रत्ययः । द्रूणीतेऽसौ द्रूणानः ॥९॥

दशमी।
तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑स्पृश धृष॒ता शोशु॑चानः ।
तपू॑ᳪष्यग्ने जु॒ह्वा॒ पत॒ङ्गानस॑न्दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ।। १० ।।
उ० तव भ्रमासः । हे अग्ने, य एते तव भ्रमासः भ्रमणा वातोद्धूता ज्वालासमूहाः आशुयाः आशवः स्थाने याः पतन्ति इतश्चेतश्च गच्छन्ति । तैः अनुस्पृश अभिमृश । धृषता धृष्टेन ज्वालासमूहेन शोशुचानः देदीप्यमानः । कान्य नुस्पृशेदित्यत आह । तपूंषि तापयितॄणि रक्षांसि । जुह्वा स्रुचा हूयमान इति शेषः । पतङ्गान्पतन् गच्छन्तीति रक्षांसि । किंच असंदितः 'दो अवखण्डने' अनवखण्डितश्च सन् विसृज विक्षिप विष्वक् विषु नाना वचनः । अञ्चतिर्गत्यर्थः । नानागमनाः तिर्यगूर्ध्वमधश्चेत्यर्थः । उल्काः रक्षोविघाताय ॥ १० ॥
म० हे अग्ने, तव ये भ्रमासः भ्रमा वातोद्धूता ज्वालासमूहाः पतन्ति इतस्ततो गच्छन्ति । कीदृशा भ्रमासः । आशुया आशवः शीघ्रगमनाः । आशुशब्दात्परस्य जसः 'सुपां सुलुग्-' इत्यादिना यादेशः । तैर्भ्रमैः तपूंषि तपन्ति संतापयन्ति तानि तपूंषि तापयितॄणि रक्षांसि पतङ्गान् पतन्तः सन्तो गच्छन्तीति पतङ्गाः पिशाचास्तांश्चानुस्पृश । ज्वालाभिस्तान्दहेत्यर्थः। कीदृशस्त्वम् । धृषता धृष्णोतीति धृषन् तेन धृषता प्रगल्भेन धृष्टेन ज्वालौघेन शोशुचानः देदीप्यमानः अत्यन्तं शोचते शोशुच्यत इति शोशुचानः 'शुच दीप्तौ' इत्यस्माद्यङन्ताच्छानच्प्रत्ययः । तथा जुह्वा स्रुचा हूयमान इति शेषः । असन्दितः अखण्डितः । ईदृशः सन् विष्वक् सर्वत्र तिर्यगूर्ध्वमधश्च उल्काः ज्वाला विसृज रक्षोघाताय मुञ्चेत्यर्थः ॥ १० ॥

एकादशी।
प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः ।
यो नो॑ दू॒रे अ॒घश॑ᳪसो॒ यो अन्त्यग्ने॒ मा कि॑ष्टे॒ व्यथि॒रा द॑धर्षीत् ।। ११ ।।
उ० प्रतिस्पशः । अत्र तृतीयः पादः प्रथमं व्याख्यायते । यच्छब्दयोगात् । यो नो दूरे अघशंसः योऽस्माकं दूरे वसति अघशंसः पापस्योत्कीर्तको दुर्जनः । यो अन्तिके यश्च अन्तिके वसत्यघशंसः तंप्रति स्पशः विसृज । 'स्पश बन्धने' स्पाशयतीति स्पशः प्रणिधीन् अध्यक्षान् विसृज प्रेरय । तूर्णितमः अतिशयेन त्वरन् । किंच भवा पायुः पालयिता । | विशः जनपदजातेः। अस्या मदीयाया अदब्धः अनुपहिंस्यः। एवंच तवास्मदनुग्रहप्रवृत्तस्य सतः हे अग्ने, माकिः मा कश्चित् ते तव व्यथिः व्यथयिता शत्रुः आदधर्षीत् प्रत्यनीकोऽभूत् ११
म०. नोऽस्माकं दूरे योऽघशंसः अघं पापं शंसतीच्छतीति अघशंसः अस्मद्द्रोही यो दूरे वसति यश्चान्ति समीपे अघशंसः हे अग्ने, तं प्रति स्पशः 'स्पश बन्धने' स्पशयन्ति बध्नन्तीति स्पशो बन्धनकृतः प्रणिधीन्विसृज प्रेरय । अस्या अस्मदीयायाः विशः प्रजायाः पायुः पातीति पायुः पालको भव । कीदृशस्त्वम्। तूर्णितमः तूर्णं वेगोऽस्यास्तीति तूर्णी अत्यन्तं तूर्णी तूर्णितमः | वेगवत्तरः । अदब्धः अनुपहिंसितः । हे अग्ने, एवमनुग्रहं 'प्रवृत्तस्य ते तव मा किः मा कश्चित् व्यथिः व्यथयतीति व्यथिः व्यथकः शत्रुरादधर्षीत् धार्ष्ट्यं मा करोतु । दूरसमीपस्थानस्थ शत्रून्प्रति त्वरतो बन्धकान्प्रेरय केनाप्यहिंसितोऽस्मत्प्रजापालको भव । राक्षसाश्च त्वां प्रति धृष्टा मा सन्त्वित्यर्थः । धृष धातोर्लुङि द्वित्वमडभावश्च मायोगात् ॥ ११ ॥

द्वादशी।
उद॑ग्ने तिष्ठ॒ प्रत्यात॑नुष्व॒ न्यमित्राँ॑२ ओषतात्तिग्महेते ।
यो नो॒ अरा॑तिᳪ समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्क॑म् ।। १२ ।।