पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

'इतश्च लोपः-' (पा० ३ । ४ । ९७) इति इकारलोपे 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्यडागमे 'अचि श्नुधातु-' (पा० ६ । ४ । ७७ ) इत्युवङादेशे च कृते भुव इति रूपम् । कुत्र नेता भवसीत्यत आह । यत्र यस्मिन्स्थाने शिवाभिर्मङ्गलरूपाभिर्नियुद्भिरश्वाभिः त्वं सचसे संबन्धं प्राप्नोषि । नियुतो वायोरित्युक्तेर्नियुतो नाम वायोरश्वाः ताभिर्वायुर्लक्ष्यते वायुना चान्तरिक्षं लक्ष्यते । यत्र च दिवि मूर्धानमादित्यं दधिषे धारयसि । लिङ् लडर्थे । किंभूतं मूर्धानम् । स्वर्षां स्वः स्वर्गं सनोति ददातीति स्वर्षाः । 'षणु दाने' विट्प्रत्ययः । 'विड्वनोरनुनासिकस्यात्' (पा० ६।४ । ४१) इति नकारस्याकारः । यद्वा स्वः स्वर्गे स्यति तिष्ठतीति स्वर्षाः तम् षोऽन्तकर्मणि क्विप् । अन्तरिक्षे द्युलोके च यज्ञस्य रजसश्च नेता भवसीत्यर्थः । यत्रेत्यस्य संहितायां 'निपातस्य च' (पा० ६।३ । १३६ ) इति दीर्घः । यस्य तवैतत्कर्म तं त्वां स्रुग्रूपेण सादयामीति शेषः ॥ १५ ॥

षोडशी
ध्रु॒वाऽसि॑ ध॒रुणाऽऽस्तृ॑ता वि॒श्वक॑र्मणा ।
मा त्वा॑ समु॒द्र उद्व॑धी॒न्मा सु॑प॒र्णोऽव्य॑थमाना पृथि॒वीं दृ॑ᳪह ।। १६ ।।
उ० स्वयमातृण्णां पृथिवीसंस्तुतामिष्टकामुपदधाति । ध्रुवासीति तिसृभिर्ऋग्भिरूर्ध्वं बृहत्यनुष्टुप्प्रस्तारपङ्क्तिभिः विश्वस्मै प्राणायेत्यादिना यजुषा च । ध्रुवासि स्थिरासि । स्वतएव धरुणा च अन्येषां च धारयित्री । आस्तृता विश्वकर्मणा उपहिता चासि विश्वकर्मणा प्रजापतिना सर्वस्य कर्त्रा । एवंचेदतो ब्रवीमि । मा त्वा समुद्र उद्वधीत् उद्वध्यात् । 'रुक्मो वै समुद्रः पुरुः सुपर्णः' इति श्रुतिः । त्वंच अव्यथमाना अचलन्तीं पृथिवीं दृंह दृढीकुरु । आत्मसात्कुर्वित्यभिप्रायः ॥ १६ ॥
म० 'स्वयमातृण्णां पुरुषे शर्करां छिद्रां ध्रुवासीति' (का० १७ । ४ । १५) । पुरुषोपरि ध्रुवेत्यादिकण्डिकाचतुष्टयेन स्वयमातृण्णामुपदधाति । कीदृशीम् । शर्करां पाषाणमयीं छिद्रां स्वाभाविकच्छिद्रयुताम् । सच्छिद्राश्ममयीष्टकैव स्वयमातृण्णोच्यत इति सूत्रार्थः । ऊर्ध्वबृहती । द्वादशाक्षरत्रिपादोर्ध्वबृहती । अत्र प्रथमत्रयोदशार्णस्तृतीयो दशार्णः । हे स्वयमातृण्णे, त्वं ध्रुवा स्थिरासि । कीदृशी त्वम् । धरुणा भूमिरूपेण विश्वस्य धारयित्री । विश्वं करोतीति विश्वकर्मा । तेन सर्वस्य कर्त्रा प्रजापतिना आस्तृता उपहिता । समुद्रो रुक्मः त्वा त्वां मा उद्वधीत् मा हन्तु । सुपर्णः पुरुषश्च त्वां मोद्वधीत् । 'रुक्मो वै समुद्रः पुरुषः सुपर्णः' (७ । ४ । २।५) इति श्रुतेः। समुद्रसुपर्णशब्दाभ्यां रुक्मपुरुषावुच्येते । त्वं चाव्यथमाना अचलन्ती सती पृथिवीं दृंह भूमिं दृढीकुरु ॥ १६ ॥

सप्तदशी।
प्र॒जाप॑तिष्ट्वा सादयत्व॒पां पृ॒ष्ठे स॑मु॒द्रस्येम॑न् । व्यच॑स्वतीं॒ प्रथ॑स्वतीं॒ प्रथ॑स्व पृथि॒व्य॒सि ।। १७ ।।
उ० प्रजापतिष्ट्वा प्रजापतिः त्वां सादयतु । स हि त्वामासादयितुं समर्थः । अपां पृष्ठे अपामुपरि । समुद्रस्य समुन्दनस्य उदकसंघातस्य एमन् एमनि । इणः मनिन् सप्तम्येकवचनम् अवस्थाने । कथंभूतामासादयतु । व्यचस्वतीं व्यञ्चनवतीम् प्रथस्वतीं पृथुत्वयुक्ताम् । त्वं चासादिता प्रजापतिना । प्रथस्व पृथ्वीभव । यतश्च पृथिव्यसि अतो ब्रवीमि ॥ १७॥
म० अनुष्टुप् । हे स्वयमातृण्णे, प्रजापतिः त्वा त्वां सादयतु स्थापयतु । क्व । अपां जलानां पृष्ठे उपरि । समुद्रस्य जलसङ्घातस्य एमन् एमनि अवस्थाने सादयतु । इणो धातोर्मनिन्प्रत्यये एमन्निति रूपम् 'सुपां सुलुक्' (पा. ७ । १ । ३९) इति सप्तम्या लुक् । किंभूतां त्वाम् । व्यचस्वतीं व्यचनं व्यचस्तदस्या अस्तीति व्यचस्वती तामभिव्यक्तियुताम् । प्रथस्वतीं प्रथनं प्रथः पृथुत्वं तदस्या अस्तीति प्रथस्वती तां विस्तारयुक्ताम् । त्वमपि प्रजापतिसादिता सती प्रथस्व अस्याश्चितेः प्रथनं कुरु । यतस्त्वं पृथिव्यसि पृथिव्युत्पन्नत्वात् ॥ १७ ॥

अष्टादशी।
भूर॑सि॒ भूमि॑र॒स्यदि॑तिरसि वि॒श्वधा॑या॒ विश्व॑स्य॒ भुव॑नस्य ध॒र्त्री ।
पृ॒थि॒वीं य॑च्छ पृथि॒वीं दृ॑ᳪह पृथि॒वीं मा हि॑ᳪसीः ।। १८ ।।
उ० भूरसि भूमिरसि । अदितिरसि विश्वधायाः विश्वस्यां निहितमिति विश्वधायाः । विश्वस्य च भुवनस्य भूतग्रामस्य च धर्त्री धारयित्री । यतश्च त्वमियमेव अत इदमुक्तं भवति । पृथिवीं यच्छ आत्मानं निगृह्णीष्व । पृथिवीं दृंह आत्मानं दृढीकुरु । पृथिवीं माहिंसीः आत्मानं माहिंसीः ॥ १८॥
म० प्रस्तारपङ्क्तिः आद्यौ चेत्प्रस्तारपङ्क्तिरित्युक्तेर्यत्राद्यौ द्वादशकावन्त्यावष्टकौ सा प्रस्तारपङ्क्तिः । अत्र त्वाद्य एकादशको द्वितीयस्त्रयोदशकस्तृतीयतुर्यौ पञ्चकौ पञ्चमः षडक्षरः एवं पञ्च पादाः । हे स्वयमातृण्णे, त्वं भूः सुखानां भावयित्र्यसि । भूमिः पृथिव्यसि । भूम्यभिमानिनी देवतासीत्यर्थः । अदितिर्देवमातासि । विश्वधायाः विश्वं दधाति पुष्णातीति विश्वधायाः विश्वं निहितमस्यामिति वा । विश्वस्य भुवनस्य सर्वस्य भूतग्रामस्य धर्त्री धारयित्री तादृशी त्वं पृथिवीं यच्छ नियतां कुरु । पृथिवीं दृंह दृढीकुरु । पृथिवीं मा हिंसीः पृथिव्या हिंसां मा कुरु ॥ १८॥