पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सामान्याद्यजमानो वत्स उक्तः । स हि पयोव्रतो भवति । मनः अन्तःकरणम् परमाच्चित्सधस्थात् । चिच्छब्दोऽप्यर्थे । परमादपि सहस्थानात् आदृत्येति शेषः । सहस्थानं देवैः समानं स्थानं द्युलोकोऽग्नेः केन वत्सो मन आयमदित्यत आह । त्वांकामया । त्वां स्तोतुं कामयमानया गिरा वाचा ॥ ११५॥
म०. 'श्वेतेऽश्वे पुरस्तात्तिष्ठति श्वेताभावेऽश्वेतेऽश्वाभावेऽनडुह्यग्निभ्यः प्रह्रियमाणेभ्योऽनुवाचयति' ( का० १७ । ३ । २०-२१) । श्वेतवर्णेऽश्वेऽन्यवर्णे तदभावे वृषे वा तिष्ठति सति अग्निभ्यः प्रह्रियमाणेभ्योऽनुब्रूहीति प्रेषितो होता आ ते वत्स इति तृचमनुवक्तीति सूत्रार्थः । अग्निदेवत्यास्तिस्रो गायत्र्यः आद्यावत्सारदृष्टा द्वितीया विरूपदृष्टा तृतीया प्रजापतिदृष्टैव । हे अग्ने, ते तव वत्सः पयोव्रतत्वाद्वत्ससमस्त्वत्प्रियो यजमानः परमाच्चित् । चिदप्यर्थे । उत्कृष्टादपि सधस्थात्सहस्थानात् द्युलोकात् मन आहृत्येति शेषः । आयमत् आयच्छति गृह्णाति मनोनिग्रहं करोतीत्यर्थः । 'इतश्च लोपः' (पा० ३ । ४ । ९७) इति इकारलोपे यमदिति रूपम् । 'इषुगमियमां छः' (पा. ७। ३। ४७) इति छत्वाभावश्छान्दसः । कया गिरा वेदवाचा मन आहृत्येत्यर्थः । कीदृश्या गिरा । त्वां कामया त्वां कामयते स्तोतुमिच्छतीति त्वांकामा तया अलुक् । देवैः सह तिष्ठति यस्मिन्नग्निः तत्सधस्थं द्युलोकः 'सधमाद-' (पा० ६।३। ९६) इति सहस्य सधादेशः ॥ ११५ ॥

षोडशोत्तरशततमी।
तुभ्यं॒ ता अ॑ङ्गिरस्तम॒ विश्वा॑: सुक्षि॒तय॒: पृथ॑क् । अग्ने॒ कामा॑य येमिरे ।। ११६ ।।
उ० तुभ्यं ताः । तुभ्यं हवींषि दत्वा यजमानैः ततोऽनन्तरम् ताः स्तुतयः हे अङ्गिरस्तम । अन्नं गिरतीत्यङ्गिरस्तमस्तस्य संबोधनं हे अङ्गिरस्तम । विश्वाः सर्वाः सुक्षितयः शोभननिवसनाः । स्थानकरणानुप्रदानवत्यो देवताः याथात्म्यसंतानचिन्तनगर्भाः पृथक् नानाभूताः हे अग्ने, कामय कामपरिपूरणार्थम् त्वय्येव येमिरे । कर्मणि लकारः । नियम्यन्ते स्तुतयः ॥ ११६ ॥
म० हे अङ्गिरस्तम, अन्यते जीव्यते येनेत्यन् अन्नम् 'अन् प्राणने' क्विप् । अन् अन्नं गिरति अत्तीत्यङ्गिराः अतिशयेनाङ्गिरा अङ्गिरस्तमः हे अग्ने, पृथक् नानाभूताः विश्वाः सर्वाः ताः प्रसिद्धाः स्तुतयः कामायाभिलाषपूरणाय तुभ्यं त्वयि येमिरे नियम्यन्ते । यजमानैरिति शेषः । कर्मणि लिट् । कीदृश्यः । सुक्षितयः शोभनाः क्षितयो निवासा याभ्यस्ताः । स्वर्गादिशुभस्थानप्रदा इत्यर्थः । यजमाना इह कामपूर्त्यै द्युलोकाप्त्यै च मन्त्रैस्त्वामेव स्तुवन्तीति भावः ॥ ११६ ॥

सप्तदशोत्तरशततमी।
अ॒ग्निः प्रि॒येषु॒ धाम॑सु॒ कामो॑ भू॒तस्य॒ भव्य॑स्य । स॒म्राडेको॒ वि रा॑जति ।। ११७ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां द्वादशोऽध्यायः ॥ १२ ॥
उ० अग्निः प्रियेषु । योऽग्निः प्रियेष्वभिरुचितेषु धामसु स्थानेष्ववस्थितानाम् कामः कामपूरकः सः भूतस्योत्पन्नस्य प्राणिजातस्य भव्यस्य भविष्यतश्च । सम्राट् सङ्गतराज्यभावः सन् एक एवासहायः विराजति इष्टे अधिपतिः विविधं दीप्यते ॥ ११७ ॥
इति उवटकृतौ मन्त्रभाष्ये द्वादशोऽध्यायः ॥ १२ ॥
म० अग्निः प्रियेषु अभिरुचितेषु धामसु स्थानेषु धिष्ण्येषु एकोऽसहायभूतः सन् विराजति विशेषेण दीप्यते । कीदृशोऽग्निः । भूतस्योत्पन्नस्य भव्यस्य भविष्यतश्च जनस्य कामः कामपूरकः । सम्राट् सम्यक् राजमानः शोभमानः । भूतस्य भव्यस्य सम्राडीश्वर इति वा । काम्यते सर्वैर्यष्टुमिष्यत इति काम इति वा ॥ ११७ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे। रुक्मादिवाचनान्तोऽयं द्वादशोऽध्याय ईरितः ॥ १२ ॥

त्रयोदशोऽध्यायः।
तत्र प्रथमा
मयि॑ गृह्णा॒म्यग्रे॑ अ॒ग्निᳪ रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य । मामु॑ दे॒वता॑: सचन्ताम् ।। १ ।।
उ० मयि गृह्णामीति यजमानो जपति । मयि गृह्णामि आग्नेयी ककुप् । मयि आत्मनि गृह्णामि अग्रे प्रथमम् । | अग्निं दर्शनेन । ततोऽग्निं चिनोमीति शेषः । किमर्थम् । रायस्पोषाय धनपोषाय । सुप्रजास्त्वाय सुवीर्याय । वीर्यं शक्तिः । किंच मामु देवताः सचन्ताम् । मामेव देवताः सेवन्ताम् अग्निमिव ॥ १॥
म०. द्वादशेऽध्याये उखाधारणगार्हपत्यचयनक्षेत्रकर्षणौषधवपनादिमन्त्रा उक्ताः । त्रयोदशे पुष्करपर्णाद्युपधानमन्त्रा उच्यन्ते । 'उत्तरवेदिमपरेण तिष्ठन्यजमानो मयि गृह्णामीति जपति' ( का० १७ । ३ । २७) उत्तरवेदेः पश्चात्तिष्ठन्यजमानो जुहोति । अग्निदेवत्या ककुप् । यस्या मध्यपादो द्वादशक आद्यतृतीयावष्टकौ सा ककुप् । अत्र मध्यश्चतुर्दशकस्तेन द्व्यधिका। अहं यजमानोऽग्रे प्रथमं मयि आत्मनि अग्निं गृह्णामि धारयामि ततोऽग्निं चिनोमीति शेषः । किमर्थम् । रायो धनस्य पोषाय पुष्ट्यर्थम् । सुप्रजास्त्वाय शोभना प्रजा यस्य स सुप्रजाः सुप्रजसो भावः सुप्रजस्त्वं तस्मै । दीर्घश्छान्दसः । शोभनपुत्रादि