पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विभक्तेराकारः । युगशब्दः कालवाची । युगैः कालैः पौर्णमास्यमावास्यादिभिर्निमित्तैः गिरा वेदवाचा कृत्वा सुम्नाय यज्ञाय त्वा त्वामग्निं पुरोऽग्रतः पूर्वभागे आहवनीयरूपेण दधिरे स्थापितवन्तः । किंभूतं त्वामृतवानमृतमस्यास्तीति ऋतवा तं सत्यवन्तम् । छान्दसो दीर्घः । 'छन्दसीवनिपौ वाच्यौ वंश्च मतुप् च' (पा० ५। २ । १०९) इत्यस्त्यर्थे वन्प्रत्ययः । महिषं महान्तं विश्वदर्शतं सर्वस्य दर्शनीयं श्रुत्कर्णं शृणुत इति श्रुतौ क्विप् । श्रुतौ कर्णौ यस्य तम् । यद्विज्ञाप्यते तत्सत्यमेव कर्णाभ्यां श्रुत्वा संपादयतीत्यर्थः । सप्रथस्तमं प्रथनं प्रथः कीर्तिः । 'प्रथ प्रख्याने' अस्मादसुन्प्रत्ययः । प्रथसा सह वर्तमानः सप्रथाः अतिशयेन सप्रथाः सप्रथस्तमस्तमतिकीर्तिमन्तम् । दैव्यं देव एव दैव्यस्तं स्वार्थे यत् । यद्वा देवेभ्यो हितम् ॥ १११॥

द्वादशोत्तरशततमी।
आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑: सोम॒ वृष्ण्य॑म् । भवा॒ वाज॑स्य सङ्ग॒थे ।। ११२ ।।
उ० सिकता अभिमृशति । आप्यायस्व । तिस्रः सौम्याः गायत्रीत्रिष्टुप्उष्णिहः वा गायत्र्यः द्वाभ्यां विनियोगः । आप्यायस्व आत्मानमभिवर्धय । कथं कृत्वा । समेतु ते । सामगच्छतु तव विश्वतः सर्वतः हे सोम, वृष्ण्यं सर्वभूतबीजम् । ततस्त्वं सर्वभूतोत्पत्तिना वृष्ण्येन भव । वाजस्यान्नस्य सङ्गथे सङ्गमने । अन्नभावं प्राप्नुहि अन्नं वा प्राप्नुहि ॥ ११२॥
म० 'आप्यायस्वेति सिकतालम्भनमृग्भ्याम्' (का० १७ । ३ । १६)। आत्मनि विस्तारिताः सिकताः स्पृशति ऋग्द्वयेन । गोतमदृष्टाः सोमदेवत्यास्तिस्रो गायत्रीत्रिष्टबुष्णिक्छन्दस्काः 'आप्यायस्व मदिन्तम' (११४) इति तृतीयस्या विनियोगः सूत्रे नास्ति । हे सोम, विश्वतः सर्वस्मात् वृष्ण्यं वीर्यं सर्वभूतोत्पत्तिकृद्बीजं ते तव समेतु समागच्छतु । तेन च वीर्येण त्वमाप्यायस्व सर्वतो वर्धस्व । किंच वाजस्यान्नस्य संगथे सङ्गमननिमित्तं भव । अन्नमस्मासु सङ्गमयेत्यर्थः ॥ ११२ ॥

त्रयोदशोत्तरशततमी।
सं ते॒ पया॑ᳪसि॒ समु॑ यन्तु॒ वाजा॒: सं वृष्ण्या॑न्यभिमाति॒षाह॑: ।
आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवा॑ᳪस्युत्त॒मानि॑ धिष्व ।। ११३ ।।
उ० सं ते पयांसि । संयन्तु ते तव पयांसि रसाः सारभूताः । संयन्तु च वाजाः अन्नानि । संयन्तु च वृष्ण्यानि रेतांसि । अभिमातिषाहः पाप्मनोऽभिभवतु सोमस्य ततः तैः पयोन्नवृष्ण्यैः आप्यायमानः अमृताय भव । प्रजात्यै अमरणधर्मिण्यै भव । 'प्रजात्यां तदमृतं दधाति तस्मात्प्रजातिरमृता' इति श्रुतिः । हे सोम, ततो दिवि द्युलोके श्रवांसि चन्द्ररूपाणि उत्तमानि आहुतिपरिणामजनितानि । धिष्व धारयस्व ॥ ११३॥
म० हे सोम, पयांसि पातव्या रसाः ते तव संयन्तु सङ्गच्छन्ताम् । उत अपिच वाजा अन्नानि संयन्तु वृष्ण्यानि रेतांसि ते संयन्तु । कीदृशस्य ते । अभिमातिषाहः अभिमातिं पाप्मानं सहतेऽभिभवतीत्यभिमातिसाट् तस्याभिमातिसाहः । षत्वं छान्दसम् । हे सोम, पयोऽन्नवृष्ण्यैराप्यायमानः वर्धमानः सन् अमृताय अमरणधर्मिण्यै प्रजात्यै पुत्रादिवृद्ध्यै यजमानस्य भवेति शेषः । अमृतशब्देन श्रुत्या प्रजातिर्व्याख्याता । तथाच श्रुतिः 'प्रजात्यां तदमृतं दधाति तस्मात्प्रजातिरमृतेति' (७ । ३ । १। ४६)। किंच दिवि द्युलोके उत्तमानि उत्कृष्टानि श्रवांसि अन्नानि आहुतिपरिणामजनितानि धिष्व धारय संपादय । लोकद्वयभोगं संपादयेत्यर्थः । 'धि धारणे' तुदादिः विकरणव्यत्यय आत्मनेपदं च छान्दसम् 'बहुलं छन्दसि' (पा० २ । ४ । ७३) इत्युक्ते 'सुधितवसुधित' (पा० ७ । ४ । ४५) इति सूत्रेण दधातेर्निपातो वा धत्स्वेत्यर्थे ॥ ११३ ॥

चतुर्दशोत्तरशततमी।
आप्या॑यस्व मदिन्तम॒ सोम॒ विश्वे॑भिर॒ᳪशुभि॑: । भवा॑ नः स॒प्रथ॑स्तम॒: सखा॑ वृ॒धे ।। ११४ ।।
उ० आप्यायस्व । हे सोम, त्वमात्मानमाप्यायस्व । मदिन्तम मदयितृतम । यद्वा मदोऽस्यास्तीति मदी अतिशयेन मदी मदिन्तमः । 'नाद्धस्य' इति नुट् । विश्वेभिः | सर्वैरंशुभिः । ततः समर्थः सन् भव नः अस्माकम् सप्रथस्तमः सखा । सर्वतः प्रथयितृतमः सखा । वृधे वर्धनाय ॥ ११४॥
म० हे मदिन्तम, मदयति तर्पयतीति मदी। गहादिवाण्णिनिप्रत्ययः (पा० ३ । १ । १३४ ) । यद्वा मदस्तृप्तिरस्यास्तीति मदी 'अत इनिठनौ' (पा० ५।२। ११५) इतीन् अतिशयेन मदी मदिन्तमः (पा० ८।२।१७) इति नान्तात्परस्य तमपो नुडागमः । ईदृश हे सोम, विश्वेभिर्विश्वैः सर्वैरंशुभिः सूक्ष्मांशैः आप्यायस्व प्रवृद्धो भव । वृद्धः सन्नोऽस्माकं वृधे वर्धनाय सखा सहायो भव । 'द्व्यचोऽतस्तिङः' (पा० ६। | ३ । १३५) इति संहितायां दीर्घः । कीदृशस्त्वम् । सप्रथस्तमः अत्यन्तं सप्रथाः सकीर्तिः सप्रथस्तमः ॥ ११४ ॥

पञ्चदशोत्तरशततमी।
आ ते॑ व॒त्सो मनो॑ यमत्पर॒माच्चि॑त्स॒धस्था॑त् । अग्ने॒ त्वाङ्का॑मया गि॒रा ।। ११५ ।।
उ० हौत्रम् । आ ते वत्सः । आग्नेय्यस्तिस्रो गायत्र्यः । हे अग्ने, आयमत् गृहीतवान् ते तव वत्सः पयोजीवन