पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

निष्पत्त्यै । सुवीर्याय शोभनसामर्थ्याय वीर्यं शक्तिः । किंच उकारोऽप्यर्थे । देवता अपि मां सचन्तां सेवन्तां सङ्गच्छन्ताम् ।। उ एवार्थे वा । देवता मामेव सचन्ताम् ॥ १॥

द्वितीया।
अ॒पां पृ॒ष्ठम॑सि॒ योनि॑र॒ग्नेः स॑मु॒द्रम॒भित॒: पिन्व॑मानम् ।
वर्ध॑मानो म॒हाँ२ आ च॒ पुष्क॑रे दि॒वो मात्र॑या वरि॒म्णा प्र॑थस्व ।। २ ।।
उ० पुष्करपर्णमुपदधाति । अपां पृष्ठमसि । व्याख्यातम् ॥ २॥
म० 'पुष्करपर्णमुपदधाति स्तम्बे पूर्ववत्' (का० १७ । ४।१)। ततोऽध्वर्युः कुशस्तम्बोपरि कमलिनीपत्रमुपदधाति पूर्ववदित्युखासंभरणवत् तेनापां पृष्ठमिति मन्त्रेण पुष्कर इत्यन्तेनोपधानं दिवो मात्रयेति तस्य मार्जनमिति सूत्रार्थः व्याख्यातः (११ । २९) ॥२॥

तृतीया।
ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्न्या॒ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि व॑: ।। ३ ।।
उ० रुक्ममुपदधाति । ब्रह्मजज्ञानम् त्रिष्टुप् आदित्यदेवत्या । ब्रह्मलक्षण आदित्यः जज्ञानं यजमानः प्रथमं पुरस्तात् प्राच्यां दिशि जायते । ततोऽनन्तरं वि सीमतः सुरुचो वेन आवः व्यावः व्यावृणोत् विवृतानकरोत् स्वप्रकाशेन । सीमतः मध्यतो मर्यादातः । सुरुचः सुरोचनानिमान् लोकान् । वेनः कान्तो मेधावी वा आदित्यः ।। सएव च । बुध्न्याः बुध्नमन्तरिक्षं तत्र भवा दिशो बुध्न्याः। उपमाः उपमीयन्ते आसु स्थितानि भूतानीत्युपमा दिशः। अस्य विष्ठाः । अस्य जगतः विविधं स्थानमिति विष्ठा दिशः । सतश्च योनिः विद्यमानस्य च मूर्तस्य स्थानम् असतश्च अमूर्तस्य वाय्वादेः योनिम् । विवः विवृणोति । आदित्य एव लोकान्दिशो भूतानि चाभिव्यनक्ति नान्य इति स्तूयते स्वकीयेन कर्मणा ॥३॥
म० तस्मिन्रुक्ममधःपिण्डं ब्रह्म जज्ञानमिति' (का. १७ । ३ । २९)। तस्मिन्पुष्करपर्णे पूर्वं कण्ठधृतं रुक्ममधःपिण्डमुपदधाति । आदित्यदेवत्या त्रिष्टुप् । वीत्युपसर्ग आव इति क्रियापदेन संबध्यते 'व्यवहिताश्च' (पा० १।४। ८२) इति पाणिनिस्मरणात् । ब्रह्म बृहत् रुक्मरूपोऽयमादित्यः सीमतः सीमानं मर्यादां भूगोलमध्यभागमारभ्य सुरुचः सुष्ठु रोचन्ते शोभन्ते तान् सुरोचनानिमान् लोकान् वि आवः विवृतानकरोत्स्वप्रकाशेन । कीदृशं ब्रह्म । प्रथममादौ पुरस्तात्पूर्वस्यां दिशि जज्ञानं जायमानं दृश्यमानम् । जनेः शानचि शपः श्लौ सति जज्ञानमिति रूपम् । किंच वेनः कामनीयो मेधावी वा स आदित्यः बुध्न्या बुध्नमन्तरिक्षं तत्र भवा बुध्न्या दिशः विवः विवृणोति । सतो विद्यमानस्य मूर्तस्य घटपटादेर्योनिं स्थानमसतोऽमूर्तस्य वाय्वादेश्च योनिं प्रभवं विवः । प्रकाशयति । वृणोतेः शपि लुप्ते लङि गुणे च व इति रूपम् । अडभाव आर्षः । 'बहुलं छन्दस्यमाङयोगेऽपि' (पा० ६ । ४ । ७५) इति वचनात् । कीदृशीर्बुध्न्याः । उपमाः उप समीपे मान्ति भूतानि यासु ता उपमाः । सावकाशा इत्यर्थः । अत एवास्य जगतो विष्ठाः विविधस्थानभूताः विविधं तिष्ठन्ति यासु ताः । 'अम्बाम्बगोभूमि-' (पा० ८।३ । ९७) इत्यादिना षत्वम् । आदित्य एव लोकान् दिशो भूतानि चाभिव्यनक्तीत्यर्थः ॥३॥

चतुर्थी।
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।। ४ ।।
उ० पुरुषमुपदधाति द्वाभ्यां त्रिष्टुब्भ्याम् । स प्रजापतिः सः अग्निः अधियज्ञं स यजमानः। हिरण्यगर्भः यो हिरण्यगर्भाख्यः पुरुषः । समवर्तताग्रे समभवदग्रे प्रथमम् शरीरी यश्च भूतस्योत्पन्नस्य प्राणिजातस्य जातः जातमात्रः सन् पतिरीश्वर एक एवासीत् अभूत् । स दाधार । तदः स्थाने यदो वृत्तिरर्थसंभवात् । यश्च दाधार धारयति ।
पृथिवीमन्तरिक्षमप्युच्यते । पृथिवी भूः येयं भूरित्यादेरन्तरिक्षनामसु पठितत्वात् । द्यां द्युलोकं च । उत अपि इमां पृथिवीम् । तस्मै कस्मै । काय इति प्राप्ते स्मैआदेशश्छान्दसः । प्रजापतये देवाय । हविषा विधेम हविर्दद्म इति विभक्तिव्यत्ययः ॥ ४॥
म० 'उत्तानं प्राञ्चᳪ हिरण्यपुरुषं तस्मिन् हिरण्यगर्भ' इति (का० १७ । ४ । ३) । तस्मिन्रुक्मे प्राञ्चमुत्तानं हिरण्यं पुरुषाकारमृग्द्वयेनोपदधाति । हिरण्यगर्भदृष्टा प्रजापतिदेवत्या त्रिष्टुप् । हिरण्ये हिरण्यपुरुषरूपे ब्रह्माण्डे गर्भरूपेणावस्थितः प्रजापतिर्हिरण्यगर्भः भूतस्य प्राणिजातस्याग्रे समवर्तत प्राणिजातोत्पत्तेः पुरा स्वयं शरीरधारी बभूव । स च जातः उत्पनमात्र एक एवोत्पत्स्यमानस्य सर्वस्य जगतः पतिरीश्वर आसीत् । स एव पृथिवीमन्तरिक्षं द्यां द्युलोकमुतापि चेमां भूमिं लोकत्रयं दाधार धारयति । 'तुजादीनां दीर्घोऽभ्यासस्य' ( पा० ६ । १३ । ७) इत्यभ्यासदीर्घः । पृथिवी भूः स्वयंभूरित्यन्तरिक्षनामसु पठितत्वात्पृथिवीशब्देनान्तरिक्षलोकोऽत्रोच्यते । कस्मै काय प्रजापतये देवाय वयं हविषा विधेम हविर्दद्मः । विभक्तिव्यत्ययः॥४॥