पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्व्युत्तरशततमी।
मा मा॑ हिᳪसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिव॑ᳪ स॒त्यध॑र्मा॒ व्यान॑ट् ।
यश्चा॒पश्च॒न्द्राः प्र॑थ॒मो ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।। १०२ ।।
उ० चतस्रो लोगेष्टकाश्चतसृभिर्ऋग्भिरुपदधाति । मामा कायी त्रिष्टुप् । मा माहिंसीत् पूर्वः प्रतिषेधार्थीयः उत्तरोऽस्मदादेशः । माहिंसीन्मा जनिता यः 'जनिता मन्त्रे' इति णिचो लोपः । जनयिता यः पृथिव्याः प्रजापतिः । यो वा दिवं सत्यधर्मा व्यानट् । वाशब्दः समुच्चयार्थीयः । व्यानडिति व्याप्तिकर्मा । श्रुत्या तु सृजतेरर्थे व्याख्यातः । यश्च दिवं सत्यधर्मा सत्यधारणः व्यानट् असृजत् । यश्च आपश्चन्द्राः प्रथमो जजान । 'मनुष्या वा आपश्चन्द्राः' इति श्रुतिः। मनुष्या एव हि यज्ञेनाप्नुवन्ति चन्द्रलोकं पितृमार्गानुसारिणः । यद्वा । यश्चापः चायनीयाः प्रथमः शरीरी जनितवान् । अपां चायनीयानां कारणभूतानां जननेन यो मनुष्यान् जनितवान् इति कारणे कार्योपचारः । कस्मै देवाय हविषा विधेम । य इत्थंभूतः कः प्रजापतिः तस्मै कस्मै काय इति प्राप्ते स्मैआदेशश्छान्दसः । 'सर्वनाम्नः स्मै' इति हि पाणिनिः । नचैतत्सर्वनाम देवतात्वात् प्रजापतये हविषा हविरिति विभक्तिव्यत्ययः । विदधातिर्दानकर्मा । तस्मै प्रजापतये हविर्दद्म इति संबन्धः ॥ १०२ ॥
म० 'लोगेष्टकाः स्फ्येनाहृत्य बहिर्वेदेरनूत्क्रान्तेषूपदधाति तिष्ठन्मा मा हिᳪसीदिति प्रत्यृचं प्रतिदिशं पुरस्तात्प्रथमम्' ( १७ । ३ । ११) । ततोऽध्वर्युः स्फ्येन वेदिबहिःप्रदेशाल्लोगेष्टकाश्चतुरो मृत्खण्डान्पद्याप्रमाणानानीयात्मनो दक्षिणोत्तरपूर्वापरमध्यसूत्रप्रान्तेषु पूर्वादिषु तिष्ठन्मन्त्रचतुष्टयेनोपदध्यादिति सूत्रार्थः । हिरण्यगर्भदृष्टा कदेवत्या त्रिष्टुप् । यः प्रजापतिः पृथिव्याः भूमेर्जनिता जनयिता उत्पादकः । 'जनिता मन्त्रे' (पा० ६ । ४ । ५३ ) इति णिचो लोपः । वा चार्थे । यो वा यश्च दिवं व्यानट् द्युलोकमसृजत् । व्यानट् इति व्याप्तिकर्मा । श्रुतौ तु सृजतेरर्थे व्याख्यातः । 'यो वा दिवᳪ सत्यधर्मासृजते' (७ । ३ । १ । २०) इति श्रुतेः । यश्च चन्द्राः आह्लादिका जगत्कारणभूता आपो जलानि प्रथमः आदिभूतः सन् जजानोत्पादितवान् तद्द्वारा मनुष्यानुत्पादितवानित्यर्थः । यतः श्रुती आपश्चन्द्रा इति मनुष्या व्याख्याताः । मनुष्या एव हि यज्ञेनाप्नुवन्ति चन्द्रलोकं पितृमार्गानुसारिणः । 'मनुष्या वा आपश्चन्द्राः ' (७ । ३ । १।२०) इति श्रुतेः कारणे कार्योपचारात् । कीदृशः । प्रथमः शरीरी सत्यधमा सत्यं धरतीति सत्यस्य धारयिता स प्रजापतिर्मा मा हिंसीन्मा हन्तु । यतः कस्मै काय प्रजापतये हविषा हविः वयं विधेम दद्मः । हविर्दानान्मा हन्तु । कशब्दस्य सर्वनामत्वाभावात् स्मैआदेशः छान्दसः । हविषा इति विभक्तिव्यत्ययः । विधतिर्धातुर्दानार्थः ॥ १०२॥

त्र्युत्तरशततमी।
अ॒भ्याव॑र्तस्व पृथिवि य॒ज्ञेन॒ पय॑सा स॒ह । व॒पां ते॑ अ॒ग्निरि॑षि॒तो अ॑रोहत् ।। १०३ ।।
उ० दक्षिणत उपदधाति । अभ्यावर्तस्व अभिमुखीभव । अग्निं प्रत्यादृता भव हे पृथिवि, यज्ञेन यज्ञसाधनभूतेन हविषा । पयसा सह । कस्मात्कारणादित्यत आह । वपान्ते वपां पृष्ठे ते तव अग्निः इषितः प्रजापतिप्रेषितः अरोहत् आरूढवान् ॥ १०३ ॥
म० अग्निदेवत्या उष्णिक् । हे पृथिवि, यज्ञेनास्मच्चिकीर्षितेन पयसा तत्फलभूतेन दुग्धादिभोगेन च सह अभ्यावर्तस्व आभिमुख्येनागच्छ । कथमागन्तव्यमत आह । इषितः प्रजापतिप्रेषितोऽग्निः ते तव वपां त्वचं पृष्ठं वपासदृशमिमं प्रदेशमरोहत् आरोहतु । अनयर्चा दक्षिणे लोगेष्टकोपधानम् ॥ १०३ ॥

चतुरुत्तरशततमी।
अग्ने॒ यत्ते॑ शु॒क्रं यच्च॒न्द्रं यत्पू॒तं यच्च॑ य॒ज्ञिय॑म् ।
तद्दे॒वेभ्यो॑ भरामसि ।। १०४ ।।
उ० पश्चादुपदधाति । अग्ने यत्ते । आग्नेयी गायत्री । हे अग्ने, यत्ते तव शुक्रं सारं शुक्लं वा । यच्च चन्द्रमाह्लादनीयम् । यच्च पूतं पवित्रम् यच्च यज्ञियं यज्ञार्हम् तद्देवेभ्योर्थाय । देवेभ्यो वा सकाशात् भरामसि संभरामः ॥१०४॥
म० अग्निदेवत्या गायत्री पश्चाल्लोगेष्टकोपधाने विनियुक्ता । । हे अग्ने, यत्ते तवाङ्गं शुक्रं शुक्लं शुद्धं दीप्तिमत् यच्चान्यदङ्गं चन्द्रमाह्लादकरं यदन्यत्पूतं पवित्रं यच्चान्यदङ्गं यज्ञियं यज्ञार्हं तत्सर्वं श्लाघ्यरूपं देवेभ्यो देवानामर्थे भरामसि भरामः संपादयामः ॥ १०४ ॥

पश्चोत्तरशततमी । .
इष॒मूर्ज॑म॒हमि॒त आद॑मृ॒तस्य॒ योनिं॑ महि॒षस्य॒ धारा॑म् ।
आ मा॒ गोषु॑ विश॒त्वा त॒नूषु॒ जहा॑मि से॒दिमनि॑रा॒ममी॑वाम् ।। १०५ ।।
उ० उत्तरत उपदधाति । इषमूर्जम् । त्रिष्टुप् । आशी:प्रायो मन्त्रः । अस्मिन्मन्त्रे विशेषणविशेष्यभावात् यत्तद्भ्यां वाक्यपरिपूर्तिः क्रियते । यत् इषमन्नं यच्च ऊर्जं तदुपसेचनं दधिपयोघृतादिकम् अहम् इतः उदीच्या दिशः । आदम् आददे गृहीतवान् । यच्च ऋतस्य सत्यस्य योनिं स्थानं तिस्रो विद्या अहमाददे । यच्च महिषस्य महतः इच्छावतश्चाग्नेः धाराम् आहुतिमहमाददे । उदीच्या दिशः । एतत्सर्वम् आमा गोषु विशत्वा तनूषु आविशतु मां गोषु तनूषु च