पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पुत्रपौत्रादिकासु । सिकताः प्रध्वंसयति । जहामि परित्यजामि उदीच्यां दिशि स्थापयामि । सेदिम् अवसादम् अनिरामनन्ताम् अमीवां व्याधिम् ॥ १०५॥
म० आशीर्देवी त्रिष्टुप् पादत्रयस्योत्तरतो लोगेष्टकोपधाने विनियोगः । इषमन्नमूर्जं तदुपसेचनं दधिपयोघृतादिकमृतस्य सत्यस्य योनिं स्थानं विद्यात्रयं महिषस्य महत इच्छावतोऽग्नेर्धारां धारणामाहुतिं वा इतोऽस्मात्प्रदेशादुदीच्या दिशः सकाशादहमादमद्मि भक्षयामि स्वीकरोमीत्यर्थः । 'अद भक्षणे' लङ् । किंच एतत्सर्वमिडादिकं मामाविशतु आगत्य प्रविशतु । तनूषु मदीयपुत्रादिशरीरेषु गोषु मदीयधेन्वादिपशुषु चाविशतु । 'उत्तरस्याः सिकताः प्रमार्ष्टि जहामि सेदिमिति-' (का० १७ । ३ । १३)। उत्तरलोगेष्टकातः सिकताः पातयति । नास्ति इरान्नं यस्यां तामनिरामन्नरहिताममीवां व्याधियुतां सेदिमवसादमहं जहामि त्यजामि । अन्नाभावरोगदुःखानि मे मा सन्त्वित्यर्थः ॥ १०५॥

षडुत्तरशततमी।
अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्ते अ॒र्चयो॑ विभावसो ।
बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्यं दधा॑सि दा॒शुषे॑ कवे ।। १०६ ।।
उ० आग्नेयेन षडृचेन सिकता निवपति । अग्ने तव । प्रथमे विहारपङ्क्ती । तिस्रः सतोबृहत्यः षष्ठी उपरिष्टाज्ज्योतिः। हे अग्ने, तव संबन्धी धूमः । श्रवोवयः अमुष्मिन् लोके श्रावयतीति श्रवः वयोऽन्नम् तस्याहुतिपरिणामद्वारेण निमित्तभूतत्वात् धूमो वय इत्युच्यते । धूमो वा अस्य श्रवो वयः सह्येनममुष्मिन् लोके श्रावयतीति श्रुतिः । एवंप्रभावस्तव धूमः । अथ महि महत् भ्राजन्ते अर्चयः अर्चींषीति लिङ्गव्यत्ययः। हे विभावसो विभूतधन । किंच । हे बृहद्भानो महादीप्त, शवसा बलेन सहितं वाजमन्नम् उक्थ्यम् उक्थ्यार्हं यज्ञार्हम् । दधासि ददासि दाशुषे हवींषि दत्तवते यजमानाय । हे कवे क्रान्तदर्शन ॥ १०६ ॥
म० 'अग्ने तवेति सिकता न्युप्य छादयत्यात्मानम्' (का० १७ । ३ । १५) षडृचेनोत्तरवेदौ सिकताः प्रक्षिप्य ताभिः पुच्छपक्षं विनात्मानं छादयेत् । पावकाग्निदृष्टं षडृचमग्निदेवत्यम् । आद्ये द्वे विष्टारपङ्क्ती । यस्या द्वितीयतृतीयपादौ द्वादशार्णौ आद्यतुर्यावष्टकौ सा विष्टारपङ्क्तिः । हे अग्ने, हे विभावसो, विभा दीप्तिरेव वसु धनं यस्य तत्संबोधनं हे कान्तिधन, तव वयो धूमः अर्चयो दीप्तयश्च भ्राजन्ते दीप्यन्ते । धीयते भक्ष्यते प्राणिभिरिति वयोऽन्नम् । 'वी कान्त्यसनखादनव्याप्तिषु' धूमस्याहुतिपरिणामद्वारेणान्नहेतुत्वादयोऽत्र धूम उच्यते । कीदृशं वयः । श्रवः श्रावयति द्युलोके कृतं कर्मेति श्रवः धूमदर्शनाद्देवानां कर्मज्ञानम् । तथा महि महत् नभोगामित्वात् 'धूमो वा अस्य श्रवो वयः स ह्येनममुष्मिंल्लोके श्रावयति' (७।३।१।२९) इति श्रुतेः । किंच बृहन्तो महान्तो भानवो रश्मयो यस्य तत्संबुद्धौ हे बृहद्भानो, हे कवे क्रान्तदर्शिन् विद्वन् यजमानाभिप्रायज्ञ, दाशुषे हविर्दत्तवते यजमानाय शवसा बलेन सह वाजमन्नं त्वं दधासि ददासि । कीदृशं वाजम् । उक्थ्यम् उक्थः शस्त्राद्युपेतो यज्ञस्तद्योग्यं यज्ञपर्याप्तमन्नं ददासीत्यर्थः ॥ १०६ ॥

सप्तोत्तरशततमी।
पा॒व॒कव॑र्चाः शु॒क्रव॑र्चा॒ अनू॑नवर्चा॒ उदि॑यर्षि भा॒नुना॑ ।
पु॒त्रो मा॒तरा॑ वि॒चर॒न्नुपा॑वसि पृ॒णक्षि॒ रोद॑सी उ॒भे ।। १०७ ।।
उ०. पावकवर्चाः । हे अग्ने, यस्त्वं पावकवर्चाः । पावकशक्तिः शुक्रवर्चाः शुक्रशक्तिश्च अनूनं वर्चाश्च अपरिहीणशक्तिः सन् अन्यूनशक्तिर्वा सन् । उदियर्षि उद्गच्छसि। भानुना दीप्त्या । यश्च त्वं पुत्रइव मातरा मातापितरौ । उत्तमे वयसि विचरन् उपचरन् । उपावसि उपसङ्गम्य पालयसि । सदेवमनुष्यं जगत् । यश्च त्वं पृणक्षि पूरयसि रोदसी द्यावापृथिव्यौ । उभे अपि 'इमे वै द्यावापृथिवी रोदसी ते एष उभे पृणक्ति धूमेनामूं वृष्ट्येमाम्' इति श्रुतिः तं त्वां स्तुम इति वाक्यशेषः ॥ १०७ ॥
म० हे अग्ने, त्वं भानुना दीप्त्या उदियर्षि उद्गच्छसि । उत्कर्षं प्राप्नोषीत्यर्थः । कीदृशस्त्वम् । पावकवर्चाः पावकं शोधकं वर्चो दीप्तिशक्तिर्यस्य सः । शुक्रवर्चाः शुक्रं शुक्लं निर्मलं वर्चो यस्य । अनूनवर्चाः अनूनमहीनं वर्चा यस्य पूर्णशक्तिः । किंच हे अग्ने, त्वं विचरन्सर्वतः प्रचरन्सन् उपावसि उप सङ्गम्य पालयसि सदेवमनुष्यं जगद्रक्षसि । तत्र दृष्टान्तः । पुत्रो मातरा यथा पुत्रश्चरमे वयसि मातरा मातापितरौ उपावति तद्वत् 'पितरामातरा च छन्दसि' (पा० ६ । ३ । ३३ ) इति निपातः । किंच उभे रोदसी द्यावापृथिव्यौ पृणक्षि पूरयसि । हविषा द्यां वृष्ट्या भूमिं पूरयसीत्यर्थः । ‘इमे वै द्यावापृथिवी रोदसी ते एष उभे पृणक्ति धूमेनामूं वृष्ट्येमामिति' ( ७ । ३ । १। ३०) इति श्रुतेः । तं त्वां स्तुम इति वाक्यशेषः ॥१०७॥

अष्टोत्तरशततमी ।
ऊर्जो॑ नपाज्जातवेदः सुश॒स्तिभि॒र्मन्द॑स्व धी॒तिभि॑र्हि॒तः ।
त्वे इष॒: सन्द॑धु॒र्भूरि॑वर्पसश्चि॒त्रोत॑यो वा॒मजा॑ताः ।। १०८ ।।
उ० ऊर्जा नपात् । ऊर्कशब्देनाप उच्यन्ते । नपाच्छब्देन च पौत्रः । हे अपांपौत्र, अद्भ्य ओषधिवनस्पतयो जायन्ते ओषधिवनस्पतिभ्योऽग्निर्जायते । एवमपांनपादग्निः । जातवेदः जातप्रज्ञानः । सुशस्तिभिः साधुशंसनैः स्तुत इति | शेषः । मन्दस्व दीप्यस्व । धीतिभिः कर्मभिर्निमित्तभूतैः हितः निहितः स्थापितः । तस्मात्त्वां वयमेवं ब्रूम इत्यवो