पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

याम्' क्विप् । 'ऋत इद्धातोः' (पा० ७ । १ । १००) इति इदादेशः 'उरण् रपरः' (पा. १।१। ५१) इति रेफः । मर्मघातकः उग्र उत्कृष्टो बद्धगोधाङ्गुलित्राण उद्गूर्णशस्त्रः क्षत्रियो यथा शत्रुं बाधते । यद्वा उग्रो रुद्रो मध्यमेन त्रिशूलमध्यभागेन शृणातीति मध्यमशीः यथा युगान्ते जगद्बाधते तद्वद् यूयमपि रोगिणो देहं प्रविष्टा व्याधिं विबाधध्व इत्यर्थः ॥८६॥

सप्ताशीतितमी।
सा॒कं य॑क्ष्म॒ प्र प॑त॒ चाषे॑ण किकिदी॒विना॑ । सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या ।। ८७ ।।
उ० साकं यक्ष्म साकं सहेत्यर्थः । हे यक्ष्म, सह प्रपत प्रणश्य । चाषेण पक्षिणा किकिदीविना । शब्दानुकरणमेतत् । किकि एवं यो दीव्यति तेन सह प्रपत । स हि तव सार्थ उचितः । साकं वातस्य ध्राज्या गत्या प्रपत । साकं नश्य प्रपलाहि । निहाकया निहन्ति कायमिति निहाका निर्ऋतिः कृच्छ्रापत्तिः तया कृच्छ्रापत्त्या सह नश्य हे यक्ष्म, यद्वा शब्दानुकरणमेतत् । हा कष्टं निर्गतोऽहं कया ओषध्या एवंरूपया शब्दानुकरणभक्त्या सह नश्य हे यक्ष्म, अपुनरागमनाय ॥ ८७ ॥
म० हे यक्ष्मरोग, त्वं चाषेण पक्षिणा साकं सह प्रपत प्रकर्षेण गच्छ । किंभूतेन चाषेण । किकिदीविना । किकीति शब्दानुकरणम् । किकीति शब्देन दीव्यति क्रीडतीति किकीदीविस्तेन । चाषस्तवोचितः सार्थः । वातस्य ध्राज्या गत्या साकं प्रपत वातगतिवत्पलायस्वेत्यर्थः । किंच निहाकया साकं नश्य नष्टो भव । निहन्ति कायमिति निहाका निर्ऋतिः कृच्छ्रापत्तिस्तया सह नश्य । यद्वा शब्दानुकरणमिदं । हा कष्टं कया ओषध्या निहतोऽहमिति शब्दं कुर्वन् हे यक्ष्म, त्वं नश्य । अर्थान्तरं वा। कफावरुद्धकण्ठोत्थध्वनेरनुकरणार्थः किकिशब्दः । किकिना कण्ठध्वनिना दीव्यतीति किकीदिविः श्लेष्मरोगः । 'चष वधे' चषति व्याकुलं कृत्वा हन्ति चाषः पित्तरोगः । वातस्य ध्राजिर्वातरोगः । हे यक्ष्म रोगराज, त्वं कफपित्तवातरोगैः सह प्रपत गच्छ । यया पीडया कया रुजा निहतोऽस्मि हा कष्टमिति शब्दं करोति सा निहाका सर्वाङ्गवेदना तया साकं हे यक्ष्म, त्वं नश्य ॥ ८७ ॥

अष्टाशीतितमी।
अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वत । ताः सर्वा॑: संविदा॒ना इ॒दं मे॒ प्राव॑ता॒ वच॑: ।। ८८ ।।
उ० शतम् ६०० ॥ अन्या वः । हे ओषधयः, अन्या ओषधिः वः युष्माकम् अन्यामोषधिम् अवतु पालयतु । अन्या च ओषधिः अन्यस्याः ओषध्याः प्रभावम् उपावत पुरुषवचनव्यत्ययः । उपावतु उपगम्य पालयतु । ता यूयमेव सर्वाः संविदानाः संगच्छमानाः इदं मे मम प्रावत प्रपालयत । वचः वचनमार्षम् ॥ ८८ ॥ .
म० हे ओषधयः, वो युष्माकं मध्ये अन्या काचिदोषधिव्यक्तिरन्यामोषधिव्यक्तिमवतु । तथा रक्षिता अन्यापि अन्यस्या रक्षिकाया उपावत उपावतु उप समीपमागत्य पालयतु । पुरुषवचनव्यत्ययः । अन्यान्यस्याः प्रभावमवतु वा । ताः सर्वास्तथाविधा ओषधयो यूयं संविदानाः परस्परैकमत्यं गताः सत्यो मे ममेदं वचो वाक्यं प्रार्थनारूपं प्रावत प्रकर्षेण रक्षत ॥ ८८ ॥

एकोननवतितमी ।
याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणी॑: । बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वᳪह॑सः ।। ८९ ।।
उ० याः फलिनीः या ओषधयः फलवत्यः याश्च अफला: फलरहिताः। या अपुष्पाः पुष्परहिताः । याश्च पुष्पिणीः पुष्पवत्यः । बृहस्पतिना अभ्यज्ञाताः ताः नः अस्मान् मुञ्चन्तु अंहसः पापात् ॥ ८९॥
म० या ओषधयः फलिनीः फलिन्यः फलयुक्ताः याश्चाफलाः फलरहिताः याश्चापुष्पाः पुष्परहिताः याश्च पुष्पिणीः पुष्पिण्यः पुष्पयुक्ताः ताः सर्वा ओषधयो बृहस्पतिप्रसूता बृहस्पतिप्रेरिताः सत्यो नोऽस्मानंहसः पापाद्रोगरूपान्मुञ्चन्तु पृथक् कुर्वन्तु ॥ ८९ ॥
एवमोषधिवापार्थानि पञ्च तृचानि समाप्तानि

नवतितमी।
मु॒ञ्चन्तु॑ मा शप॒थ्यादथो॑ वरु॒ण्या॒दु॒त । अथो॑ य॒मस्य॒ पड्वी॑शा॒त्सर्व॑स्माद्देवकिल्बि॒षात् ।। ९० ।।
उ० इत उत्तरमनारभ्यवादमन्त्राः तेषां लिङ्गतो विनियोगः । मुञ्चन्तु मा शपथ्यात् शपथनिमित्तात्किल्बिषात् । अथो अपिच वरुण्यात् वरुणनिबन्धनात् । उत अथो अपिच । यमस्य संबन्धिनः पड्वीशात् बन्धनात् । पड्वीशशब्दो बन्धनवचनः । संदानर्मवन्तं पड्वीशमिति दृश्यते । किंच । सर्वस्मात् च देवनिमित्तात्किल्बिषात् मुञ्चन्तु । यत्किंचिद्धिनस्ति पापं कर्तुः संबन्धि तत्किल्बिषमित्युच्यते । ब्रह्महत्यादि ॥ ९० ॥
म० अथानारभ्याधीता मन्त्राः। शपथनिमित्तात्किल्बिषात्पापादोषधयो मा मां मुञ्चन्तु पृथक्कुर्वन्तु । अथो अपिच वरुण्यात् वरुणे भवं वरुण्यं तस्माद्वरुणापराधनिमित्तात्पापान्मां मुञ्चन्तु । उतापि च यमस्य संबन्धिनः पड़्वीशात् । पड्वीशशब्दो बन्धनवाची । यमबन्धननिमित्तात्पापान्मां मुञ्चन्तु । अथो अपिच सर्वस्माद्देवकिल्बिषाद्देवापराधनिमित्तात्पापान्मां मुञ्चन्तु ॥ ९० ॥