पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तप्रत्ययलोपश्छान्दसः । “अथापि तद्धितेन कृत्स्नवन्निगमो भवन्ति' (नि० २।५) इति यास्कोक्तेः । हविर्भूता ओषधयः प्रार्थ्यन्ते । किलेति विद्याप्रकर्षे । इत् एवार्थे । हे हविर्भूता ओषधयः, यूयमग्नौ हुताः सत्यो गोभाजः असथ भवथ । गामादित्यं भजन्तीति गोभाजः । 'अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते' इति श्रुतेः । यद्वा अश्वत्थे वो निषदनमश्वत्थे फलिते सर्वौषधीनां फलवत्त्वात् पर्णे वो वसतिः कृता पलाशे च फलिते व्रीह्यादीनां फलितत्वात् । अतएव यूयमुप्ताः सत्यो गोभाजो भूमिभाज एव किलासथ भवथ । 'गौर्नादित्ये बलीवर्दे मखभेदर्षिभेदयोः । स्त्रियां स्याद्दिशि भारत्यां भूमौ च सुरभावपि' इति कोशात् । किमर्थमिदमित्यत आह । यत् यस्मात्कारणात् पुरुषं यजमानं यूयं सनवथ सेवध्वमन्नदानेन पोषयथ तस्मादश्वत्थादिस्थानमित्यर्थः । अश्वत्थे पलाशे च वः स्थानम् । देवाधिष्ठानादश्वत्थो लोके नतिप्रदक्षिणादिना पूज्यते पलाशश्चेध्मादिरूपेण । एवमश्वत्थादिरूपेण यूयं भूभाजः स्थ । शेषं पूर्ववत् । अस्तेः शपि असथेति रूपं लटि । सनवतिः परिचर्यार्थः ॥ ७९ ॥

अशीतितमी।
यत्रौ॑षधीः स॒मग्म॑त॒ राजा॑न॒: समि॑ताविव । विप्र॒: स उ॑च्यते भि॒षग्र॑क्षो॒हामी॑व॒चात॑नः ।। ८० ।।
उ० यत्रौषधीः । यत्र यस्मिन्पुरुषे भैषज्यकर्तरि हे ओषधयः, यूयं समग्मत समागच्छत व्याधिं जेतुम् । कथमिव । राजानः समिताविव यथा राजानः समितौ संग्रामे शत्रुं जेतुं समागच्छन्ति । किं तत्रेत्यत आह । विप्रः ब्राह्मणः स उच्यते भिषक् वैद्यः । रक्षोहा च अमीवचातनश्च । अमीवा व्याधिः। चातयतिर्नाशने। व्याधिनाशनः ८०.
म०. हे ओषधीः ओषधयः, यत्र विप्रे भैषज्यकर्तरि ब्राह्मणे यूयं समग्मत संगच्छत रोगं जेतुम् । के इव राजान इव । यथा राजानः समितौ युद्धे शत्रून् जेतुं समागच्छन्ति । गमेर्लुङि मध्यमबहुवचने 'पुषादि-' (पा० ३ । १।५५) इत्यङि 'गमहन-' (पा० ६ । ४ । ९८) इत्युपधालोपे छान्दसेऽग्मतेति रूपम् । स भवदाश्रितो विप्रः भिषग्वैद्य उच्यते कथ्यते । कीदृशो विप्रः । रक्षोहा रक्षांसि हन्तीति रक्षोघ्नं पुरोडाशं कृत्वा रक्षसां हन्ता रक्षःकृतोपद्रवनाशकः । तथा अमीवचातनः अमीवान् रोगान् चातयति नाशयतीति अमीवचातनः ओषधदानै रोगनाशकः । चातयतिर्नाशनार्थः धातूनामनेकार्थत्वात् ॥ ८० ॥

एकाशीतितमी।
अ॒श्वा॒व॒तीᳪ सो॑माव॒तीमू॒र्जय॑न्ती॒मुदो॑जसम् । आऽवि॑त्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ।। ८१ ।।

उ० अश्वावतीम् । सर्वा ओषधीरिति बहुवचनोपदेशादिहापि बहुवचनं भवति । या ओषधयश्च अश्ववत्यः अश्वसंपादिन्यः सोमवत्यः सोमयागसंपादिन्यः उर्जयन्त्यः 'उर्ज बलप्राणनयोः' बलसंपादिन्यः । उदोजसः उद्गतमोजो यासां उदोजसः । ताः सर्वा ओषधीः अहम् आ अवित्ति जानामि । विदित्वा च अस्मै अरिष्टतातये । रिषतिर्विनाशार्थः । न रिष्टमरिष्टमविनाशः तस्य तननमरिष्टतातिः अस्मै अरिष्टविनाशतननाय भैषज्यं करोमीति शेषः॥८१॥
म० अस्मै अस्य यजमानस्य अरिष्टतातये । रिषतिर्विनाशार्थः । रेषणं रिष्टम् भावे क्तः । न रिष्टमरिष्टमनाशो मङ्गलमित्यर्थः । तस्य कारणमरिष्टतातिः । 'शिवशमरिष्टस्य करे' (पा. ४ । ४ । १४३ । ) इति तातिप्रत्ययः । यद्वा तननं तातिर्विस्तारः तस्मै यजमानस्य शुभकरणाय सर्वा ओषधीरहमा अवित्सि समन्ताद्वेद्मि जानामि । वेत्तेर्लुङि आत्मनेपदे उत्तमैकवचने इडभावे अवित्सीति रूपम् । अस्मै यजमानार्थं वेद्मीति वा । तद्विशेषणम् । अरिष्टं शुभं करोति तनोति वारिष्टतातिस्तस्मै । सर्वाः का इत्यत आह । अश्वावतीमश्वा अस्यां सन्तीत्यश्ववती ताम् अश्वसंपादिनीं कांचित् ओषधिसमृद्धौ सत्यां धनद्वारेणाश्वलाभात् । अन्यां सोमवतीं सोमयागोऽस्यामस्तीति सोमवती तां सोमसंपादिनीं 'मन्त्रे सोमाश्व-' (पा. ६ । ३ । १३१) इत्यादिनाश्वसोमयोर्दीर्घः । ऊर्जयन्तीम् 'ऊर्ज बलप्राणनयोः' बलसंपादिनीं जीवयन्तीं वा ऊर्जयन्तीति । उदोजसमुद्गतमोजो यस्याः सा उदोजास्तां तेजःसंपादिनीम् । एवं नानाकार्यकारिणीः सर्वा ओषधीः जानामीत्यर्थः । यद्वा अश्वावतीमित्यादीनि बहुवचनान्तानि कार्याणि ओषधीरित्यस्य विशेषणत्वात् ॥ ८१॥

द्व्यशीतितमी ।
उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते ।
धन॑ᳪ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष ।। ८२ ।।
उ० उच्छुष्माः। उच्छब्द ईरत इत्यनेन संबध्यते । उदीरते उद्गच्छन्ति प्रकाशीभवन्ति । शुष्माः वीर्याणि ओषधीनां संबन्धीनि । कथमिव । गावः गोष्ठादिव निष्क्रान्ताः । कि कुर्वतीनाम् । धनं सनिष्यन्तीनां संभजमानानां यजमानार्थं आत्मानं च संभजमानानाम् तव यज्ञ पूरुष ॥ ८२ ॥
म० हे पुरुष यज्ञपुरुष, तवात्मानं त्वदीयं शरीरं प्रति धनं सनिष्यन्तीनाम् 'षणु दाने' हवीरूपं धनं दातुमिच्छन्तीनामोषधीनां शुष्मा बलानि सामर्थ्यानि उदीरते उद्गच्छन्ति प्रकाशीभवन्ति । गावो गोष्ठादिव यथा गोष्ठात् स्वस्थानाद् गावोऽरण्यदेशं प्रति उद्गच्छन्ति तद्वत् । 'ईर कम्पे अदादिः ॥८२॥

त्र्यशीतितमी।
इ॒ष्कृ॑ति॒र्नाम॑ वो मा॒ताऽथो॑ यू॒यᳪ स्थ॒ निष्कृ॑तीः । सी॒राः प॑त॒त्रिणी॑: स्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ ।। ८३ ।।