पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परोक्षाभिधायीनि त्रीणि पदानि । सीते अभ्याववृत्स्वेति प्रत्यक्षाभिधायिनी द्वे पदे एकस्मिन्मन्त्रवाक्ये । तत्र 'विरोधिसमवाये तु भूयसां स्याद्धर्मित्वम्' इति न्यायात् । 'प्रथमं वा नियम्येत कारणाव्यतिक्रमः स्यात्' इति च न्यायात्। तस्मादुपक्रमप्रभृति व्याख्यायते । घृतेनोदकेन मधुना मधूदकेन समज्यतां संसिच्यताम् । विश्वैः सर्वैर्देवैः अनुमता अभ्यनुज्ञाता मरुद्भिश्च । मरुतो ह वै वर्षास्वीशते । एवमक्षारोदकेन सिक्ता अभ्यनुज्ञाता च मरुदादिभिः । ऊर्जस्वती अन्नवती । पयसा पयोदधिघृतादिभिः पिन्वमाना पूरयन्ती सर्वा दिशः। अस्मान्सीते । सीता इति विभक्तिव्यत्ययः परोक्षत्वात् । अस्मान्प्रति सीता अभ्याववृत्स्व स्वयमभ्यावर्ततामिति पुरुषव्यत्ययः ॥ ७० ॥
म० सीता लाङ्गलपद्धतिर्मधुना मधुरेण घृतेनोदकेन समज्यतां संसिच्यतां सिक्ता भवतु । कीदृशी सीता । विश्वैर्देवैर्मरुद्भिश्चानुमता अनुज्ञाता अङ्गीकृता वा । एवं परोक्षमुक्त्वा प्रत्यक्षमाह हे सीते, ऊर्जस्वती अन्नवती सा त्वं पयसा पयोदधिघृतादिभिः पिन्वमाना दिशः पूरयन्ती सती पयसा दुग्धादिभिः सह अभ्याववृत्स्व अस्मदभिमुखमावृत्ता भव । अस्माकमनुकूला भवेत्यर्थः । वृतेः 'बहुलं छन्दसि' (पा० २ । ४ । ७६ ) इति शपः श्नौ सति लोटि ववृत्स्वेति रूपम् ॥ ७० ॥

एकसप्ततितमी।
लाङ्ग॑लं॒ पवी॑रवत्सु॒शेव॑ᳪ सोम॒पित्स॑रु । तदुद्व॑पति॒ गामविं॑ प्रफ॒र्व्यं॒ च॒ पीव॑रीं प्र॒स्थाव॑द्रथ॒वाह॑णम् ।। ७१ ।।
उ० लाङ्गलं पवीरवत् । पविर्धारोच्यते सोऽस्यास्तीति पवीरं फालः रो मत्वर्थे । तदस्य लाङ्गलस्यास्तीति पवीरवल्लाङ्गलं फालसंयुक्तमित्यर्थः । श्रुतिस्तु लक्षणया व्याचष्टे लाङ्गलं रयिमदिति । सुशेवं शेवमिति सुखनाम । शोभनं सुखकरम् । सोमपित्सरु सोमं पिबतीति सोमपाः यजमानः तस्मिन् सोमपि यजमाने त्सरणशीलः त्सरुरुच्यते। भूमेः खननशीलम् । यद्वा त्सरुर्वृतं सोमपि यजमाने पापं त्सरयति नाशयतीति सोमपित्सरु । यद्वा । सोमः पीयते येन चमसेन स सोमपिः तस्य सोमपेः त्सरु वृतं लाङ्गलम् । नहि लाङ्गलस्य कर्मान्तरेण सोमचमसाः स्युः । यदित्थंभूतं लाङ्गलं तदुद्वपति उद्गमयति । गाम् अविं प्रफर्व्यं च पीवरीम् । फर्वतिर्गतिकर्मा । प्रकर्षेण फर्व्या गम्या प्रफर्वी प्रथमयुवतिः पीवरी उच्छूनस्तनकपोलानामुद्वपति प्रस्थानाद्रथवाहणम् । प्रस्थानसंयुक्तमुत्कृष्टजवोपेतं च रथवाहनमश्वम् उद्वपतीत्यनुषज्यते ॥ ७१ ॥
म० तत् पूर्वोक्तं लाङ्गलं हलं गां धेनुमविं छागविशेषं रथवाहनं रथवाहकमश्वादिकं च उद्वपति उद्गमयति प्रापयति । रथं वाहयति प्रापयतीति रथवाहनम् । कृषिसमृद्धावेव गवादिकं यजमानस्य सुलभमिति भावः । अतएव लाङ्गलं गवादिप्रापकम् । कीदृशं लाङ्गलम् । पवीरवत् । पविर्धारास्यास्तीति पवीरं फालः । रो मत्वर्थः। पवीरमस्यास्तीति पवीरवत् फालसंयुक्तम् । तथा सुशेवम् । शेवमिति सुखनाम शोभनसुखकरं शोभनं शेवं यस्मात् । तथा सोमपित्सरु सोमं पिबतीति सोमपाः यजमानः तस्मिन् सोमपि यजमाननिमित्तं त्सरति भूमिं खनतीति सोमपित्सरु । यद्वा सोमपि यजमाने त्सरति नाशयति पापमिति सोमपित्सरु । 'त्सर छद्मगतौ' इति धातोरुप्रत्ययः शीलार्थः । ‘हलदन्तात्सप्तम्या' (पा० ६ । ३ । ९) इति विभक्तेरलुक् 'आतो धातोः' (पा० ६ । ४ । १४०) इति आलोपे हलन्तत्वात् । यद्वा सोमः पीयतेऽनेनेति सोमपिश्चमसः तस्य त्सरु निष्पादकम् । नहि लाङ्गलकर्मविना सोमचमसाः स्युः । ईदृशं लाङ्गलं गवादि गमयतीत्यर्थः । कीदृशीं | गामविं च । प्रफर्व्यं फर्वतिर्गतिकर्मा । प्रकर्षेण फर्वति गच्छति प्रफर्वी तां प्रफर्व्य 'वा छन्दसि' (पा० ६ । १ । १०६) | इत्यमि पूर्वरूपभावे यणादेशः । युवतित्वादतिवेगवतीमित्यर्थः । तथा पीवरीं स्थूलां पुष्टाङ्गीम् । कीदृशं रथवाहनम् । प्रस्थावत् | प्रस्था प्रस्थानं गतिरस्यास्तीति प्रस्थावत्प्रयाणसमर्थमुत्कृष्टजवोपेतमित्यर्थः ॥ ७१ ॥

द्विसप्ततितमी।
कामं॑ कामदुघे धुक्ष्व मि॒त्राय॒ वरु॑णाय च । इन्द्रा॑या॒श्विभ्यां॑ पू॒ष्णे प्र॒जाभ्य॒ ओष॑धीभ्यः ।। ७२ ।।
उ० कामं कामदुघे । सीतोच्यते । हे कामदुघे कामानां प्रपूरणि, कामं धुक्ष्व पूरय । केषामित्यत आह । मित्राय वरुणाय च । इन्द्राय अश्विभ्याम् । पूष्णे प्रजाभ्यः ओषधीभ्यः । चकारः समुच्चयार्थः सर्वत्रानुषज्यते ॥ ७२ ॥
म० कामान्मनोरथान्दुग्धे पूरयति कामदुघा । 'दुहः कब् घश्च' (पा० ३ । २ । ७० ) इति कप्प्रत्ययो घान्तादेशश्च तस्याः संबुद्धौ हे कामदुघे लाङ्गलपद्धते, मित्रादिपूषान्तदेवानामर्थे प्रजार्थमोषधिनिष्पत्त्यर्थं च काममपेक्षितं भोगं धुक्ष्व संपादय ॥ ७२ ॥

त्रिसप्ततितमी।
विमु॑च्यध्वमघ्न्या देवयाना॒ अग॑न्म॒ तम॑सस्पा॒रम॒स्य ज्योति॑रापाम ।। ७३ ।।

उ० अनडुहो विमुञ्चति । विमुच्यध्वम् । गायत्री । एवं जगतः स्थितिनिमित्तभूतां कृषिमभिनिर्वर्त्य कृतकृत्याः सन्तो विमुच्यध्वं युगात् । हे अघ्न्याः अहन्तव्याः । देवयानाः देवकर्मकारिणः । यद्वा देवयानमार्गनिमित्तभूता अगन्म गतवन्तः अशनायोद्भवा तमसः पारमस्य । तदुक्तम् 'योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति' इति। तदेव स्पष्टयति । ज्योतिः आपाम प्राप्तवन्तः । परमात्मलक्षणं यज्ञलक्षणं वा देवलक्षणं वा ॥ ७३ ॥