पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मन्त्रयते सीरा युञ्जन्तीति' (का० १७ । २ । ११)। चितेर्दक्षिणश्रोणेः पश्चिमे तिष्ठन्नध्वर्युः प्रतिप्रस्थात्रोत्तरांसपूर्वे षड्भिर्वा दशभिश्चतुर्विंशत्या वा वृषैर्युज्यमानमौदुम्बरं हलं द्वाभ्यामभिमन्त्रयते । सीरदेवत्ये सोमपुत्रबुधदृष्टे द्वे गायत्रीत्रिष्टुभौ । धीराः धीमन्तोऽग्निक्षेत्रविदः कवयः कृषिकर्माभिज्ञाः सीरा सीराणि हलानि युञ्जन्ति वृषैर्योजयन्ति । युगा युगानि पृथक् नाना वितन्वते विस्तारयन्ति । किं कर्तुम् । देवेषु सुम्नया सुम्नमिति सुखनाम । ततो द्वितीयैकवचनस्य 'सुपां सुलुक्' (पा० ७ । १ । ३९) इति यादेशः । सुम्नं सुखं कर्तुमिति शेषः । देवानां सुम्नं कर्तुं युञ्जन्तीत्यर्थः । चतुर्थ्या यादेशो वा। देवानां सुम्नया युञ्जन्ति । सीरकविपदयोबहुत्वं पूजार्थम् । तयोरेकत्वाद्युगानि बहूनि सन्ति ॥ ६७ ॥

अष्टषष्टी।
यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नुध्वं कृ॒ते योनौ॑ वपते॒ह बीज॑म् ।
गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒ अस॑न्नो॒ नेदी॑य॒ इत्सृ॒ण्य॒: प॒क्वमेया॑त् ।। ६८ ।।
उ० युनक्त सीरा सीराणि युनक्त । वियुगा तनुध्वं वितनुध्वम् युगानि सम्यग्योक्तृप्रभृतिभिः । ततः कृते योनौ वाहनादिभिः वपत इह क्षेत्रे बीजं व्रीह्यादि । गिरा च वाचा च या ओषधीरित्यादिकया । चशब्दाच्चमसेन च वपत। तथाच वपत यथा श्रुष्टिः अन्नजातिः व्रीह्यादिका सभराः सह भरसा फलव्रातेन वर्तत इति सभराः । सान्तोयं स्त्रीलिङ्गः शब्दः । आनामितफलेत्यर्थः । असत् भवेत् । नोऽस्माकं यथा नेदीयः अन्तिकतमम् । इच्छब्दोऽनर्थकः । सृण्यः दात्रान् पक्वम् औषधम् आ इयात् आगच्छेत् । एतदुक्तं भवति अतिघनत्वादोषधीनां निकटतमं दात्रं भूमेश्च दात्रपूरं पक्वमोषधमागच्छेत् यथा तथा वपतेति ॥ ६८॥
म० हे कर्षकाः, सीराः सीराणि हलानि युनक्त युङ्क्त योजयत । 'तप्तनप्तनथनाश्च' (पा. ७ । १। ४५) इति थस्य तबादेशे श्नसोरल्लोपाभावे युनक्तेति रूपम् । युगा युगानि वितनुध्वं शम्यायोक्त्रादिभिर्विस्तारयत । ततः कृते कर्षणेन संस्कृते इह अस्मिन्योनौ स्थाने बीजं व्रीह्यादिकं यूयं वपत । कया । गिरा या ओषधीरित्यादिकया (क० ७५) वेदमन्त्रवाचा चकाराच्चमसेन च। किंच ‘वाग्वै गीरन्नᳪ श्रुष्टिः ' (७।२।२ । ५) इति श्रुतेः श्रुष्टिः अन्नजातिर्व्रीह्यादिका सभरा असत् भरणं भरः पुष्टिः । भृञोऽसुन्प्रत्ययः । भरसा फलपुष्ट्या सह वर्तमाना सभराः पुष्टा अस्तु । 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ४ । ९७) इतीकारलोपेऽडागमेऽसदिति रूपम् । पक्वं धान्यं नेदीय इत् अतिशयेनान्तिकं नेदीयः 'अन्तिकबाढयोर्नेदसाधौ' (पा० ५। ३ । ६३ ) इत्यन्तिकस्येयसुनि प्रत्यये नेदादेशः । इत् एवार्थे । नेदीय इत् अन्तिकतममेवात्यल्पकालमेव पक्वं धान्यं सृण्यः । सृणिशब्दोऽत्र दात्रार्थः । सृण्या लवनसाधनेन दात्रेण लूनमिति शेषः । दात्रेण छिन्नं सत् नः अस्मान्प्रति आ इयात् आगच्छतु अल्पकालेन पक्वमस्मद्गृहमागच्छत्वित्यर्थः ॥ ६८ ॥

एकोनसप्ततितमी।
शु॒नᳪ सुफाला॒ वि कृ॑षन्तु॒ भूमि॑ᳪ शु॒नं की॒नाशा॑ अ॒भिय॑न्तु वा॒हैः ।
शुना॑सीरा ह॒विषा॒ तोश॑माना सुपिप्प॒ला ओष॑धीः कर्तना॒स्मै ।। ६९ ।।
उ० चतस्रः सीताः कृषति चतसृभिर्ऋग्भिः । तत्र द्वे त्रिष्टुभौ तृतीया पङ्क्तिः चतुर्थ्यनुष्टुप् । शुनं सुफालाः । शुनमिति सुखनाम । सुखेन शोभनफालाः लाङ्गलाग्रस्थिताः विकृषन्तु विविधं कृषन्तु विलिखन्तु भूमिम् । सुखेन च कीनाशाः हलिनः अभिगच्छन्तु वाहैः अनडुद्भिः सहिताः। अथैवं कृष्टे सति शुनासीरा । शुनो वायुः । शु इत्यव्यक्तानुकरणम् । 'शु एत्यन्तरिक्षे सीर आदित्यः सरणात्। वाय्वादित्यौ हविषा उदकेन । तोशतिर्वधकर्मा । निघ्नन्तौ भूमिम् सुपिप्पलाः । पिप्पलमिह फलमुच्यते । ओषधीः कर्तन कुरुतम् । द्वयोर्बहुवचनं छान्दसम् । अस्मे अस्माकम् ॥६९॥
म०. 'आत्मनि कृषत्यनुपरिश्रिच्छुनᳪ सुफाला इति प्रत्यृचम्' ( का० १७ । २ । १२) । चितिस्थाने परिश्रित्समीपे चतुर्ऋग्भिर्दक्षिणपश्चिमोत्तरपूर्वेषु चतस्रः सीताः कृषति । कुमारहारितदृष्टाः सीतादेवत्याश्चतस्रः । द्वे त्रिष्टुभौ तृतीया पङ्क्तिः चतुर्थ्यनुष्टुप् । सु शोभनाः फालाः सीराग्रस्था लोहविशेषाः शुनं सुखं यथा तथा भूमिं विकृषन्तु विलिखन्तु । शुनमिति सुखनाम । 'फालः सीरोपकरणोत्प्लवयोः फालमंशुके' इति कोशः । कीनाशा हलिनः शुनं सुखेन वाहैः वृषभैः सह अभियन्तु अभिगच्छन्तु । हे शुनासीरा शुनासीरौ हे वाय्वादित्यौ, अस्मे अस्माकमोषधीः व्रीह्यादिकाः सुपिप्पलाः शोभनफलाः युवां कर्तन कुरुत । कुरुतमिति वचनव्यत्ययः । थस्य तनबादेशे शपि लुप्ते गुणे कृते कर्तनेति रूपम् । 'कीनाशः कर्षके क्षुद्रे कृतान्तोपांशुघातिनोः' इति कोशः । शुनश्च | सीरश्च शुनासीरौ 'देवताद्वन्द्वे च' (पा० ६ । ३ । २६) इति पूर्वपददीर्घः । शुनो वायुः सीर आदित्यः । 'शुनो वायुः शु इत्यन्तरिक्षे सीर आदित्यः सरणात्' (निरु० ९।४०) इति यास्कोक्तेः । कीदृशौ शुनासीरौ । हविषा जलेन तोशमाना। तोशतिर्वधकर्मा । भूमिं घ्नन्तौ जलेन भूमिं सिञ्चन्तौ सन्तावोषधीः सफलाः कुरुतमिति भावः । पिप्पलं फलम् ॥ ६९॥

सप्ततितमी।
घृ॒तेन॒ सीता॒ मधु॑ना॒ सम॑ज्यतां॒ विश्वै॑र्दे॒वैरनु॑मता म॒रुद्भि॑: ।
ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒स्मान्त्सी॑ते॒ पय॑सा॒ऽभ्याव॑वृत्स्व ।। ७० ।।
उ० घृतेन सीता । सीता समज्यताम् अनुमता इति