पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पशव्यमग्निं स्वे योनौ स्वकीयगर्भस्थाने अभाः अभार्षीत् धृतवती । भृञो लुङि 'बहुलं छन्दसि' (पा० ७ । ३ । ९७) इतीडागमाभावे सिचो विसर्गे तिपि लुप्ते रूपम् । माता पुत्रमिव यथा माता पुत्रमुत्सङ्गे बिभर्ति । प्रजापतिः कृतकृत्यां तामुखां विमुञ्चतु शिक्यपाशाद्विमुक्तां करोतु । कीदृशः प्रजापतिः । विश्वैर्देवैर्ऋतुभिश्च संविदानः संवित्त इति ऐकमत्यं गतः अहो महत्कर्मोखया कृतमिति संवादं कुर्वन् । विश्वकर्मा विश्वं सृष्टिरूपं कर्म यस्यासौ विश्वकर्मा ॥ ६१ ॥

द्विषष्टी।
असु॑न्वन्त॒मय॑जमानमिच्छ स्ते॒नस्ये॒त्यामन्वि॑हि॒ तस्क॑रस्य ।
अ॒न्यम॒स्मदि॑च्छ॒ सा त॑ इ॒त्या नमो॑ देवि निर्ऋते॒ तुभ्य॑मस्तु ।। ६२ ।।
उ० नैर्ऋतीनामिष्टकानामुपधानं तिसृभिरनुष्टुब्भिः । असुन्वन्तम् सोमाभिषवमकुर्वाणम् यजमानं चान्यैः यज्ञक्रतुभिः इच्छ परिगृह्णीष्व । किंच स्तेनस्येत्यामन्विहि । स्तेनस्य चौरस्य इत्यां गतिम् अनुकुर्वन् इहि प्रपलाय्य याहि । तस्करस्य तदेवायं चौरकर्म करोति नान्यत् स तत्करः सन् तस्कर इत्युच्यते । पुनरप्याह । अन्यमस्मदिच्छ अन्यं पुरुषमस्मत्तः इच्छ गृहीतुम् सा ते तव इत्या गतिः । एवं दण्डगर्भमुक्त्वा अथेदानी साम्नाह । नमो देवि निर्ऋते तुभ्यमस्तु हे देवि निर्ऋते तुभ्यं नमः अस्तु ॥ ६२ ॥
म० 'नैर्ऋतीः कृष्णास्तुषपक्वास्तिस्रोऽलक्षणाः पादमात्रीर्हविष्यासन्नहोमवद्देशे दक्षिणोत्तराः कृत्वा दक्षिणामुखोऽनुपस्पृशन्नसुन्वन्तमिति प्रत्यूचं पराचीः' (का० १७ । १ । २३ )। ततोऽध्वर्युः राजसूये हविष्यासन्नहोमे यादृशो देशस्तादृशे वयं प्रदीर्णे इरिणे वा असुन्वन्तमिति प्रत्यूचं तिस्रो नैर्ऋतिसंज्ञा इष्टका दक्षिणोत्तराः कृत्वा ततस्ता अस्पृशत्रुपदधाति । कीदृशीः । पाकेन कृष्णवर्णाः तुरेव पक्काः लक्षणहीनाः पद्याः पराचीः अनात्ममुखीः । वयं दक्षिणामुखः पूर्वमुत्तरां निधाय ततो दक्षिणे द्वे इति सूत्रार्थः । तिस्रो निक्रतिदेवत्यास्त्रिष्टुभः । हे निर्ऋते, असुन्वन्तं सोमयागमकुर्वाणम् अयजमानमन्यहविर्यज्ञर्यजनमकुर्वाणं च खमिच्छ प्रतिगच्छ तं गृहाणेत्यर्थः । किंच स्तेनो गुप्तचोरः तस्करः प्रकटचोरः तयोरित्यां गतिमन्विहि अनुगच्छ । पृष्ठतो गत्वा तावपि गृहाणेत्यर्थः । सर्वथा सोमं सुन्वन्यो हविर्यज्ञैश्च यजयोऽस्मदन्यमिच्छ न खस्मानिच्छ । सा दुष्टशिक्षा ते तवेत्या गतिश्चर्या हे देवि निते, एवंभूतायै तुभ्यं नमोऽस्तु ॥ ६२ ॥

त्रिषष्टी।
नम॒: सु ते॑ निर्ऋते तिग्मतेजोऽय॒स्मयं॒ वि चृ॑ता ब॒न्धमे॒तम् ।
य॒मेन॒ त्वं य॒म्या सं॑विदा॒नोत्त॒मे ना॒के अधि॑रोहयैनम् ।। ६३ ।।
उ० नमः सु ते नमस्कारः शोभनः ते तव हे निर्ऋते, अस्तु । निर्ऋतिः कृच्छ्रापतिः भूमिर्वा। तिग्ममुत्साहतेजो यस्याः सा तिग्मतेजाः तस्याः संबोधनं हे तिग्मतेजः, अयस्मयं विचृत अयोमयं विच्छिन्धि बन्धमेतम् । येनाहं बद्धः अजस्य जीवभावलक्षणेन जनित्वा म्रियते मृत्वा जायत इति । किंच । यमेनाग्निना त्वं यम्या च पृथिव्या संविदाना एकमतीभूय । उत्तमे नाके उत्कृष्टे स्वर्गे अधिरोहय एनं यजमानम् ॥ ६३ ॥
म० 'निर्ऋतिः कृच्छ्रापतिः। 'स्यादलक्ष्मीस्तु निर्ऋतिः' इत्यभिधानात् भूमिर्वा, निर्ऋतिदिगभिमानिनी देवता वा । | 'अलक्ष्म्यां दिक्पतौ चापि निर्ऋतिर्निरुपद्रवे' इति कोशात् । तिग्मं तीक्ष्णं दुःसहं तेजो यस्याः सा तिग्मतेजाः तस्याः संबोधने हे तिग्मतेजः, हे निर्ऋते, तुभ्यं सु सुतरां नमोऽस्तु । अयस्मयमयोमयम् 'अयस्मयादीनि छन्दसि' (पा० १।४।२०) इति सत्वम् । लोहपाशवद्दृढमेतं बन्धं जीवत्वेन जन्ममृतिरूपमज्ञानं त्वं विचृत विच्छिन्धि नाशय । 'चृती ग्रन्थे' तुदादिः। 'द्व्यचोऽतस्तिङः' ( पा० ६।३।१३५) इति संहितायां दीर्घः । किंच यमेन अग्निना यम्या पृथिव्या च संविदाना ऐकमत्यं गता सती उत्तमे उत्कृष्टे नाके सर्वसुखोपेते दुःखमात्रहीने स्वर्गे एनं यजमानमधिरोहय स्थापय ॥ ६३ ॥

चतुःषष्टी।
यस्या॑स्ते घोर आ॒सञ्जु॒होम्ये॒षां ब॒न्धाना॑मव॒सर्ज॑नाय ।
यां त्वा॒ जनो॒ भूमि॒रिति॑ प्र॒मन्द॑ते॒ निरृ॑तिं त्वा॒ऽहं परि॑वेद वि॒श्वत॑: ।। ६४ ।।
उ० यस्यास्ते यस्याः तव हे घोरे विषमशीले। आसन् आस्ये मुखे जुहोमि हविः एषां बन्धानाम् अवसर्जनाय विमोचनाय । सा त्वमेतान्बन्धानस्मत्तो विसृज । किंच । यां च त्वां जनो लोकः भूमिरिति कृत्वा प्रमन्दते स्तौति तां त्वामहमपि स्तौमि । तथैव प्रतिष्ठा भूतानां जनयित्री मातेव बिभर्तीत्यादिभिर्गुणैः । किंच । निर्ऋतिं त्वाम् अहं परिवेद जानामि विश्वतः सर्वतः । नितरां हि विदित आमन्त्रितो हिनस्तीत्यत एतान् बन्धानवसृज अस्मत्तः ॥ ६४ ॥
म० हे घोरे विषमशीले क्रूररूपे निर्ऋतिदेवि, यस्याः ते तव आसन् आस्ये मुखे अहं जुहोमि आहुतिवदिष्टकामुपदधामि । किमर्थम् । एषां बन्धानां यजमानस्य स्वर्गाप्तिप्रतिबन्धकानां पापानामवसर्जनाय । किंच जनो जन्तुमात्रो यां त्वा त्वां भूमिरिति प्रमन्दते स्तौति शास्त्रानभिज्ञत्वात् । 'मदिङ् स्वपने जाड्ये मदे मोदे स्तुतौ गतौ' इति धातुः । त्वं तु | निर्ऋतिः । अहं तु शास्त्रज्ञतया तादृशीं त्वा त्वां विश्वतः सर्वथापि निर्ऋतिमेव परिवेद सम्यग्जानामि । निर्ऋतिशब्दस्यायमर्थः सर्वदेवसाधारणाद्देवयजनान्निष्कृष्य स्वतन्त्रदेशे विदीर्णादौ