पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० 'समंबिलां कृत्वोख्यं निवपति समितमिति' (का० १७ । १ । १९) । समं बिलं यस्याः सा समंबिला। विभक्त्यलुक् छान्दसः । गार्हपत्यचितिं मृत्पूरणेन परिश्रित्समां कृत्वा तन्मध्ये नीचैरुख्याग्निं स्थापयति चतुर्मन्त्रैः । चतस्रो द्व्यग्निदेवत्याः । समितम् उष्णिगेकाधिका अनियताक्षरपादत्वेऽप्यष्टाविंशत्यक्षरत्वात् । हे चित्योख्याग्नी, युवां समितं संगच्छतम् । 'इण् गतौ' संगतौ भवतम् । संकल्पेथां च एकसंकल्पौ भवतम् । यद्वा संकल्पनं यज्ञनिष्पादनं कुरुतम् । कीदृशौ युवाम् । संप्रियौ संप्रीणीतस्तौ 'इगुपध-' (पा० ३ । १।१३५) इति कः । सम्यक् परस्परं प्रीतियुक्तौ । रोचिष्णू दीप्यमानौ 'अलंकृञ्-' (पा० ३ । २ । १३६ ) इत्यादिना इष्णुच् । सुमनस्यमानौ शोभनं मनः कुरुतस्तौ वा । सुमनस्येते तौ सुमनस्यमानौ । सुब्धातुः क्यङन्ताच्छानच् । परस्परं शोभनचित्तवन्तौ । इषमन्नमूर्जमुपसेचनं घृतादि चाभिसंवसानौ अभ्यवहरन्तौ भुञ्जानौ अभितः सम्यक् संपादयन्तौ वा । वस्तेरर्थान्तरे वृत्तिः ॥ ५७ ॥

अष्टपञ्चाशी।
सं वां॒ मना॑ᳪसि॒ सं व्र॒ता समु॑ चि॒त्तान्याक॑रम् ।
अग्ने॑ पुरीष्याधि॒पा भ॑व॒ त्वं न॒ इष॒मूर्जं॒ यज॑मानाय धेहि ।। ५८ ।।
उ० सं वाम् आ समाकरम् आभिमुख्येन स्थित्वा संस्कृतवान् वां युवयोर्मनांसि । बुद्ध्यहंकारमनांसीति बहुवचनम् । संव्रता । व्रतमिति कर्मनाम । संस्कृतवांश्च युवयोः कर्माणि समुचितानि । चितशब्देन संस्कारा मनोगता उच्यन्ते । संस्कृतवांश्चास्मि मनोगतान्संस्कारान् । उकारः समुच्चयार्थीयः । एवं मनःकर्मसंस्कारैरेकीभूतं त्वामेकं देवताभिमानिनं प्रार्थये । हे अग्ने, पुरीष्य पशव्य, अधिपतिर्भव । त्वं नः अस्मभ्यम् इषं चोर्जं च यजमानाय धेहि देहि । इषमन्नमूर्जं च तदुपसेचनं दध्यादि ॥ ५८ ॥
म० उपरिष्टाद्बृहती अष्टसप्तनवत्रयोदशाक्षरपादत्वादेकाधिका । हे पूर्वोक्तावग्नी, वां युवयोर्मनांसि बहुवचनत्वान्मनोबुद्ध्यहंकारानहं समाकरं सर्वतः सङ्गतान्करोमि । करोतेर्लङ्युत्तमबहुवचने शपि अकरमिति रूपम् । तथा व्रता व्रतानि कर्माणि समाकरम् । व्रतमिति कर्मनाम ( निघ० २ । १ । ७) तथा चित्तानि च मनोगतसंस्कारान्समाकरम् । उकारः समुच्चयार्थः । एवं मनःकर्मसंस्कारैरेकीकृतैरेकीभूतमग्निं प्रार्थये हे पुरीष्य, पशव्य हे अग्ने, त्वं नोऽस्माकम् अधिपातीति अधिपाः पालको भव । इषमन्नमूर्ज तदुपसेचनं दध्यादि च यजमानाय धेहि देहि ॥ ५८ ॥

एकोनषष्टी।
अग्ने॒ त्वं पु॑री॒ष्यो॒ रयि॒मान् पु॑ष्टि॒माँ२ अ॑सि । शि॒वाः कृ॒त्वा दिश॒: सर्वा॒: स्वं योनि॑मि॒हाऽस॑दः ।। ५९ ।।
उ० अग्ने त्वम् । हे अग्ने, त्वं पुरीष्यः रयिमांश्च धनवान् पुष्टिमांश्च असि यतः अतः शिवाः कृत्वा दिशः सर्वाः स्वं योनिमिहासदः इति व्याख्यातम् ॥ ५९ ॥
म० उख्याग्निदेवत्योष्णिक आर्ष्येकाधिका अनियताक्षरपादत्वात् । हे अग्ने, त्वं पुरीष्यः पशव्योऽसि । रयिमान् धनवान् | पुष्टिमान् पोषयुक्तश्चासि । अतः सर्वा दिशः शिवाः शान्ताः कृत्वा इहास्मिंश्चयने स्वं योनिं स्वकीयं स्थानमासदः प्राप्नुहि ॥ ५९ ॥

षष्टी।
भव॑तं न॒: सम॑नसौ॒ सचे॑तसावरे॒पसौ॑ ।
मा य॒ज्ञᳪ हि॑ᳪसिष्टं॒ मा य॒ज्ञप॑तिं जातवेदसौ शि॒वौ भ॑वतम॒द्य न॑: ।। ६० ।।
उ० भवतं न इति व्याख्यातम् ॥ ६० ॥
म० आर्षी पङ्क्तिः अनियताक्षरपादत्वात् द्व्यग्निदेवत्या | ( अध्या० ५ क० ३) पुनर्व्याख्यायते । हे जातवेदसौ अग्नी, यज्ञमस्मदीयं कर्म युवां मा हिंसिष्टं मा विनाशयतम् । यज्ञ
पतिं यजमानं च मा हिंसिष्टम् । अद्यास्मिन् कर्मदिने नोऽस्मभ्यं शिवौ शान्तौ युवां भवतम् । किंच युवां नोऽस्मदर्थं समनसौ सचेतसौ अरेपसौ च भवतम् । मनसा सहितौ समानचित्तौ । अन्यविषयं मनो हित्वास्मदनुग्रहाभिमुखत्वं समनस्त्वम् । अस्मदनुग्रहेऽन्योन्यविप्रतिपत्तिराहित्यं सचेतस्त्वम् । अरेपसौ निष्पापो अस्माकं प्रामादिकापराधसत्त्वे कोपाभावो निष्पापत्वम् ईदृशावस्मभ्यं भवतमित्यर्थः ॥ ६० ॥

एकषष्टी।
मा॒तेव॑ पु॒त्रं पृ॑थि॒वी पु॑री॒ष्य॒म॒ग्निᳪ स्वे योना॑वभारु॒खा ।
तां विश्वै॑र्दे॒वैर्ऋ॒तुभि॑: संविदा॒नः प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ वि मु॑ञ्चतु ।। ६१ ।।
उ० उखां शिक्याद्विमुञ्चति मातेव पुत्रम् । अनुष्टुप् । उखास्तुतिः । येयमुखा माता इव पुत्रं पृथिवीरूपमवस्थाय पुरीष्यं पशव्यं अग्निम् स्वे स्वकीये उत्सङ्गे कृत्वा अभाः । प्रथमपुरुषस्यैतद्रूपम् । उखाशब्दसामानाधिकरण्यात् अभारुषा अभार्षीत् धारितवती । तामिदानीं कृतसत्यां सतीं विश्वर्देवैः ऋतुभिः संविदानः । अहो महत्कर्म कृतमित्येवं संवादं कुर्वन् प्रजापतिर्विश्वकर्मा च विमुञ्चतु शिक्यात् ॥६१॥
म०. 'सिकताभिः समंबिलां कृत्वा मातेव पुत्रमिति शिक्याद्विमुच्याभ्रिवन्निधायासिञ्चति पयोमध्ये तूष्णीम्' (का० १७.१.३१)। शून्यामुखां सिकताभिः संपूर्य मातेवेति मन्त्रेण शिक्यात्पृथक्कत्वाभ्रिवदिति स्थापिताग्नेरुत्तरेऽरत्निमात्रे गार्हपत्यचितेरुपर्येवोखां निधाय तन्मध्ये तूष्णीं दुग्धं सिञ्चेदिति सूत्रार्थः । उखादेवत्या त्रिष्टुप् । तृतीयो नवकः । । चतुर्थो द्वादशकः । पृथिवी भूरूपा मृण्मयी या उखा पुरीष्यं