पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथो अपिच सीद निविशस्व ध्रुवा निश्चला त्वम् । इन्द्राग्नी च त्वां बृहस्पतिश्च अस्मिन्योनौ स्थाने असीषदन् आसादयन्तु । नहि मानुषोऽध्वर्युः त्वां सादयितुं समर्थ इत्यभिप्रायः
म० तिसृषु लोकंपृणासु मन्त्रो दशसु च द्वयोर्वा दशस्वेकस्यां च' (का० १७।१।१७) । आदौ तिसृषु लोकंपृणेष्टकासु तूष्णीमुपहितासु लोकंपृणेत्यभिमन्त्रणम् ततो दशसु मन्त्रः यद्वादौ द्वयोर्लोकंपृणयोर्मन्त्रस्ततो दशसु तत एकस्याम् एवमेकविंशतीष्टका गार्हपत्ये स्युरिति सूत्रार्थः । लोकंपृणादेवत्यानुष्टुप् । हे लोकंपृणेष्टके, त्वं लोकं पृण गार्हपत्यचयनदेशे पूर्वेष्टकाभिरनाक्रान्तं स्थानं पूरय । तथा छिद्रं पृण किंचिदपि छिद्रं यथा न दृश्यते तथा संश्लिष्टा भवेत्यर्थः । 'पृण तृप्तौ' तुदादिः । अथो अपिच ध्रुवा दृढा सती त्वं सीद तिष्ठ । किंच इन्द्राग्नी बृहस्पतिश्चैते देवा अस्मिन् योनौ स्थाने त्वा त्वां असीषदन् सादितवन्तः सदेश्चङ् । नहि मानुषोऽध्वर्युस्तां सादयितुं शक्य इति भावः ॥ ५४ ॥

पञ्चपञ्चाशी।
ता अ॑स्य॒ सूद॑दोहस॒: सोम॑ᳪ श्रीणन्ति॒ पृश्न॑यः । जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः ।। ५५ ।।
उ० सूददोहसाधिवदति । ता अस्य अनुष्टुप् । यज्ञाहुतिपरिणामभूता आप उच्यन्ते । व्यवहितपदप्रायो मन्त्रः । ता यज्ञपरिणामभूता दिव इत्यन्तं पदमिह संबध्यते । दिवः द्युलोकात् च्युताः सूददोहसः । 'आपो वै सूदोऽन्नं दोहः' इति श्रुतिः । अन्नसहिता आपः । अस्येत्यस्य पदस्य विश इत्यनेन संबन्धः । 'यज्ञो वै विशः' इति श्रुतिः । अस्य विशः अस्य संबन्धिनं सोमं श्रीणन्ति मिश्रयन्ति । पृश्नयः 'अन्नं वै पृश्निः' इति श्रुतिः । एतदुक्तं भवति । अस्मिन् लोके पतित्वा आप ओषधिवनस्पत्यन्नभूताः सोमस्योपकुर्वन्ति । कस्मिन्काले श्रीणन्ति । जन्मन्देवानाम् । 'संवत्सरो वै देवानां जन्म' इति श्रुतिः । संवत्सरभृतिनः संवत्सरे सोमयागः तदभिप्रायमेतत् । त्रिष्वारोचने । 'सवनानि वै त्रीणि रोचनानि' इति श्रुतिः । त्रिष्वारोचनेष्विति वचनव्यत्ययः। त्रिषु सवनेषु । एवं श्रुतितोऽयं मन्त्रो व्याख्यातः ५५
म० 'नित्ये सादनसूददोहसा उपधानादुत्तरे तया देवतया ता अस्येति' (का. १६ । ७ । १४) तया देवतयेति सादनम् । ता अस्येति सूददोहसाधिवदनम् । एते नित्ये सर्वत्रेति सूत्रार्थः । इन्द्रपुत्रप्रियमेधदृष्टाब्देवत्यानुष्टुप् । दिवो द्युलोकसंबन्धिनो दिवश्च्युता वा सूददोहसः सूदाश्च दोहसश्च ते सूददोहसः सूदेन जलेन सहिता दोहसोऽन्नानि अन्नयुक्ता आपः ताः प्रसिद्धा अस्य विशो यज्ञस्य संबन्धिनं सोममाश्रीणन्ति सम्यग्मिश्रयन्ति पक्कं कुर्वन्ति वा 'श्री पाके' क्र्यादिः । 'आपो वै सूदोऽन्नं दोहः' (८ । ७ । ३ । २१) 'यज्ञो वै विशः' (८ । ७ । ३ । २१) इति च श्रुतिः । कीदृशाः ।। सूददोहसः पृश्नयः नानाविधाः । यद्वा 'अन्नं वै पृश्नी' (८। ७ । ३ । २१) इति श्रुतेरन्नरूपाः अत्रागत्य व्रीह्यादिधान्य निष्पादका इत्यर्थः । कदा श्रीणन्ति देवानां जन्मन् जन्मनि संवत्सरे 'संवत्सरो वै देवानां जन्म' (८।७।३ । २१) इति श्रुतेः । संवत्सरे संवत्सरे सोमयागस्तदभिप्रायमेतत् । 'सव नानि वै त्रीणि रोचनानि' (८ । ७ । ३ । २१) इति श्रुतिः । | यज्ञपरिणामभूता अन्नोत्पादिका आपो दिवः सकाशादस्मिँल्लोके पतित्वौषधिवनस्पत्यन्नभूताः सत्यः सोमस्योपस्कुर्वन्तीति भावः ॥ ५५ ॥

षट्पञ्चाशी।
इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चसं॒ गिर॑: । र॒थीत॑मᳪ र॒थीनां॒ वाजा॑ना॒ᳪ सत्प॑तिं॒ पति॑म् ।। ५६ ॥ ।
उ० पुरीषं निवपति । इन्द्रं विश्वाः । ऐन्द्र्यनुष्टुप् । इन्द्रं विश्वाः सर्वाः गिरः स्तुतयः ऋग्यजुःसामलक्षणाः । अवीवृधन् वर्धयन्ति । समुद्रव्यचसम् समुद्रमिव विविधायनं नानागतिम् अक्षोभ्यबलं वा । रथीतमं रथीनाम् । सर्वेषां रथिनां मध्ये रथं युद्धलब्धातिशयम् । वाजानां सत्पतिं पतिं वाजानामन्नानां पतिं सतां च पतिम् । श्रुतिस्मृतिकर्मानुष्ठातारः सन्त उक्ताः ॥ ५६ ॥
म० 'चात्वालदेशात्पुरीषं निवपतीन्द्र विश्वा इति' (का० १७ । १ । १८)। चात्वालस्थानात् मृदमानीय गार्हपत्यचितेरुपरि क्षिपति । इन्द्रदेवत्या मधुच्छन्दसुतजेतृदृष्टानुष्टुप् । | विश्वाः सर्वा गिरः स्तुतयः ऋग्यजुःसामरूपा इन्द्रमवीवृधन् वर्धयन्ति । कीदृशमिन्द्रम् । समुद्रव्यचसं समुद्रवद् व्यचो व्याप्तिर्यस्य तं समुद्रवद्व्यापकं विविधाञ्चनं नानागतिमित्यर्थः । अक्षोभ्यगतिं वा । रथीनां रथयुक्तानां सर्वेषां मध्ये रथीतममत्यन्तं रथयुतं रथयुद्धे लब्धातिशयमित्यर्थः । 'ईद्रथिनः' (पा० ८ । २ । १७) इति घे परे रथिन ईदादेशः । तथा वाजानामन्नानां पतिं स्वामिनं सत्पतिं स्वधर्मवर्तिनां च प्रतिपालकम् ॥ ५६ ॥

सप्तपञ्चाशी।
समि॑तᳪ संक॑ल्पेथा॒ᳪ संप्रि॑यौ रोचि॒ष्णू सु॑मन॒स्यमा॑नौ । इष॒मूर्ज॑म॒भि सं॒वसा॑नौ ।। ५७ ।।
उ० चित्येनोख्यं निवपति समितमिति चतसृभिरुष्णिगुपरिष्टाद्बृहत्युष्णिक्पङ्क्तिभिर्व्य७ ग्निदेवत्याभिः । तृतीया वाग्निदेवत्या । समितम् । द्वितीयपादप्रभृति व्याख्यायते । यौ युवां संप्रियौ संगतिप्रियौ रोचिष्णू रोचनशीलौ च । तौ सुमनस्यमानौ परस्परं शोभनं चिन्तयन्तौ । इषमन्नमूर्जं तदुपसेचनं सर्पिरादि अभिसंवसानौ अभ्यवहरन्तौ । वस्तेरर्थान्तरे वृत्तिः । एतत्कुर्वाणौ समितम् । 'इण् गतौ' । संगतिं कुरुतम् । संकल्पेथां च एकसंकल्पौ च भवतमित्येतदाशास्महे ॥ ५७ ॥