पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतस्रोऽर्धबृहतीसंज्ञा इष्टकाः प्राचीः प्राग्लक्षणा दक्षिणोत्तरपंक्त्योत्तरमारभ्योपदधाति अभ्यात्मं चयनमित्युक्तेः । ऋक्चतुष्केणैकैकाम् । हस्तदीर्घास्तदर्धायामाः पद्या लोकद्वयव्यापिन्य इष्टका अर्धबृहत्य उच्यन्त इति सूत्रार्थः । पञ्च ऋचो विश्वामित्रदृष्टा आग्नेय्यस्त्रिष्टुभश्चतुर्थ्यनुष्टुप् । इष्टकोपघातं कुर्वन्नभिनयेन दर्शयति । अयं गार्हपत्यः सः अग्निरिष्टकाभिश्चीयत इति शेषः । यस्मिन्नग्नौ चिते सति इन्द्रः सुतमभिषुतं सोमं जठरे स्वोदरे दधे धारयति । वर्तमाने लिट् । किंभूत इन्द्रः । वावशानः वष्टीति वावशानः 'बहुलं छन्दसि' (पा० २ । ४ । ७६) इति शपः श्लौ सति द्वित्वेऽभ्यासदीर्घे शानचि रूपम् । कामयमानः । कीदृशं सोमम् । सहस्रियं सहस्रार्हम् । वाजमन्नं बहूनां तृप्तिकरमित्यर्थः । अत्यं न । नकारः संप्रत्यर्थः । भक्षणादेव मदकरम् । सप्तिं शरणं तृप्तिकरम् । अग्नौ चितेन केवलमिन्द्र एव सोमं जठरे धत्ते किंतु हे जातवेदः, जातं वेदो धनं यस्मात् हे अग्ने, त्वमपि ससवान् हवींषि संभजमानः सन् ऋत्विग्यजमानैः स्तूयसे 'षण संभक्तो' क्वसुप्रत्ययः । उत्तरार्धस्यायं वार्थः । हे जातवेदः, सप्तिं शरणं गमनकुशलमत्यं न अश्वमिव सहस्रियं सहस्रसंख्याकेन धनेन संमितं वाजमन्नं ससवान्दत्तवान्सन् यजमानैस्त्वं स्तूयसे 'सहस्रेण संमितौ घः' (पा० ४ । ४ । १३५) इति घप्रत्ययः । 'षणु दाने' क्वसुः ससवान् ॥ ४७ ॥

अष्टचत्वारिंशी।
अग्ने॒ यत्ते॑ दि॒वि वर्च॑: पृथि॒व्यां यदोष॑धीष्व॒प्स्वा य॑जत्र ।
येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो नृ॒चक्षा॑: ।। ४८ ।।
उ० अग्ने यत्ते । हे अग्ने, यत्ते तव दिवि द्युलोकआदिलक्षणं वर्चः । यच्च पृथिव्यामग्निलक्षणं वर्चः । यच्च ओषधीषु अन्तर्व्यवस्थितम् । यच्च अप्स्वन्तर्व्यवस्थितम् आयजत्र आयष्टव्यं मर्यादया यष्टव्यम् । एतान्यधस्तादुक्तानि वर्चांसि तव लघीयांसि । येन तु वर्चसा अन्तरिक्षम् उरु विस्तीर्णम् आततन्थ आतनोषि । त्वेषः स भानुः महत्तद्वर्चः। अर्णवः अर्णस्वान् उदकवान् अथवा 'अरणवान्गमनवान् वायुः सः' इति श्रुतिः । नृचक्षाः नृणां शुभाशुभकर्मद्रष्टा । त्रिस्थानोऽत्राग्निः स्तुतः ॥ ४८॥
म० हे आयजत्र मर्यादया यजनीय हे अग्ने, ते तव यत् दिवि द्युलोके वर्चो दीप्तिरर्करूपं वर्तते यच्च पृथिव्यामग्निरूपं यच्च ओषधीष्वन्तः स्थितं यच्चाप्सु जलेषु अन्तः स्थितं यच्च वर्चसा उरु विस्तीर्णमन्तरिक्षमाततन्थ आतनोषि विस्तारयसि । 'बभूथाततन्थ-' (पा० ७ । २ । ६४) इतीडभावः । स भानुः दीप्तिः त्वेषः त्वेषयति प्रकाशयति सकलं विश्वमिति त्वेषः 'त्विष दीप्तौ' पचादित्वादच् । अर्णवः अर्णांसि उदकानि सन्ति यत्रेत्यर्थः । 'अर्णसो वः सलोपश्च' । यद्वा अरणवान् गमनवान् प्रसरणशीलः । नृचक्षाः नॄन् चष्ट इति नृणां शुभाशुभकर्मद्रष्टा । ईदृशो यस्ते भानुस्तमेवेष्टकारूपमुपदधामीति शेषः । अनेन त्रिस्थानोऽग्निः स्तुतः ॥ ४८ ॥

एकोनपञ्चाशी।
अग्ने॑ दि॒वो अर्ण॒मच्छा॑ जिगा॒स्यच्छा॑ दे॒वाँ२ ऊ॑चिषे॒ धिष्ण्या॒ ये ।
या रो॑च॒ने प॒रस्ता॒त् सूर्य॑स्य॒ याश्चा॒वस्ता॑दुप॒तिष्ठ॑न्त॒ आप॑: ।। ४९ ।।
उ० अग्ने दिवः । हे अग्ने, दिवः द्युलोकस्य संबन्धि अर्णमुदकम् अच्छा जिगासि । 'अच्छाभेराप्तुमिति शाकपूणिः'। अभिजिगासि । 'आपो वा अस्य दिवोर्णवस्ता एष धूमेना च्छैति' इति श्रुतिः । अच्छा देवान् अभिजिगासि च देवान् । कतमान्देवानित्यत आह । ऊचिषे धिष्ण्या ये । 'प्राणा वै देवा धिष्ण्यास्ते हि सर्वा धिष इष्णन्ति' इष्णन्ति उच्यन्त इति लिङ्गवचनयोर्व्यत्ययः । उच्यन्ते ये धिष्ण्या अग्नयः । किंच रोचने लोके स्थितस्य सूर्यस्य परस्तादाप उपतिष्ठन्ते याश्च अधस्तादुपतिष्ठन्ते आपः ताश्च त्वमभिजिगासि । त्वमेवैतै रूपैः परिणमसीत्यभिप्रायः॥४९॥
म०. हे अग्ने, दिवो द्युलोकस्य संबन्धि अर्णमुदकं त्वमच्छाजिगासि आभिमुख्येन गच्छसि 'गा स्तुतिगत्योः' ह्वादिः । अभ्यासेत्वं छान्दसम् । 'अच्छाभेराप्तुमिति शाकपूणिः' (निरु. ५। ३१) 'निपातस्य च' (पा० ६ । ३ । १३६) इत्यच्छेत्यस्य संहितायां दीर्घः । 'आपो वा अस्य दिवोर्णस्ता एष धूमेनाच्छैति' (७।१।१।२४ ) इति श्रुतिः। किंच ये देवा धिष्ण्या ऊचिषे ऊचिरे उच्यन्ते धियो बुद्धीरिन्द्रियाणि इष्णन्ति प्रेरयन्ति धिष्ण्याः प्राणरूपा देवाः तान् देवांश्च त्वमच्छा जिगासि अभिगच्छसि । ऊचिषे ब्रूञः कर्मणि लिट् पुरुषवचनयोर्व्यत्ययः । 'प्राणा वै देवा धिष्ण्यास्ते हि सर्वा धिय इष्णन्ति' (७।१।१।२४) इति श्रुतेः । किंच रोचने दीप्तिरूपे मण्डले वर्तमानस्य सूर्यस्य परस्तादुपरिष्टाद्या आप उप उपतिष्ठन्ते अवस्ताद्रवेरधस्ताच्च या आप उपतिष्ठन्ते ता आपश्च त्वमभिजिगासीत्यन्वयः । त्वमेवैतै रूपैः परिणमसीति भावः ॥ ४९ ॥

पञ्चाशी।
पु॒री॒ष्या॒सो अ॒ग्नय॑: प्राव॒णेभि॑: स॒जोष॑सः । जु॒षन्तां॑ य॒ज्ञम॒द्रुहो॑ऽनमी॒वा इषो॑ म॒हीः ।। ५० ।।
उ० पुरीष्यासः । बहुवचनमिष्टकापेक्षम् । ये पुरीष्याः पशव्याः पशुम्यो हिताः अग्नय इष्टकाः । प्रावणेभिः । 'प्रुङ् गतौ' । प्रावणैः गमनैः लोकव्याप्तिभिः । सजोषसः समानप्रीतयः समानसेविनो वा । समानं हि ते लोकं सेवन्ते । अर्धबृहत्यो हि ताश्चतस्रः । ते जुषन्तां सेवन्तां यज्ञम् । अद्रुहः अहिंसितारः । अनमीवाश्च अशनायाबुभुक्षानिवृत्तिकरा इत्यर्थः । इषः अन्नभक्तीः महीः महतीः प्रभूताः ॥५०॥