पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उच्यन्ते पादेन यमः पादेन पितरः । यमस्य सर्वभूम्यधिपतित्वात्तद्भृत्याः सर्वत्र चरन्ति तान्प्रत्युच्यते । हे यमभृत्याः, ये पुराणाः चिरन्तना ये च नूतनाः इदानीन्तनाः यूयमत्र स्थाने स्थ भवथ ते सर्वे यूयमतः स्थानादपेत अपगच्छत वीत विगच्छत अतिदूरं गच्छत विसर्पत च । अतः स्थानादपेत्य सङ्घातं विहाय विविधं गच्छत । कस्माद्वयमपसर्पामेत्यत आह । अवस्यति स्थापयत्यस्मिन्निति अवसानं पृथिव्या अवसानं स्थानमिदं यमो देवोऽस्मै यजमानायादाद्दत्तवान् । पितरश्चेमं लोकं स्थानमस्मै यजमानायाक्रन्कृतवन्तः । करोतेः शपि लुप्ते लङि रूपम् । यमेन पितृभिश्च एतच्चयनस्थानस्य यजमानाय दत्तत्वाद्यूयमपसर्पतेत्यर्थः ॥ ४५ ॥

षट्चत्वारिंशी।
सं॒ज्ञान॑मसि काम॒धर॑णं॒ मयि॑ ते काम॒धर॑णं भूयात् ।
अ॒ग्नेर्भस्मा॑स्य॒ग्नेः पुरी॑षमसि॒ । चित॑: स्थ परि॒चित॑ ऊर्ध्व॒चित॑: श्रयध्वम् ।। ४६ ।।
उ० उखां निवपति उल्बसंस्तवः पशुसंस्तवश्च तेषामतस्तथैव व्याख्यायते । संज्ञानमसि । त्रीणि यजूंषि । समिति एकीभावमाचष्टे । यत एकं ज्ञानमसि उल्बसंस्तवात् । 'तस्मादु समानोल्बाः समेव जानीते' इति श्रुतिः । कामधरणं च कामान्धारयति संपादयति कामधरणम् 'पशवो वा उखाः पशवः कामधरणं' इति श्रुतिः । अतो मयि ते तव कामधरणं भूयात् । 'मयि ते पशवो भूयासुः' इति श्रुतिः । उल्बाभिप्रायमेकवचनम् । सिकता निवपति । अग्नेर्भस्मासि । 'भस भर्त्सनदीप्त्योः' । भसितं भस्म भस्मसादृश्यात्सिकता भस्मेत्युक्ताः 'न वा अग्निः स्वं भस्मातिदहति' इति श्रुतिः । अग्नेश्च पुरीषं पूरणम् असि । भस्माभिप्रायमेकवचनम्। 'अग्नेरेतद्वैश्वानरस्य रेतो यत्सिकताः' इति श्रुतिः । परिसृत उपदधाति चितःस्थ । 'चिञ् चयने' अस्य क्विपि बहुवचनम्। या यूयं चितो भवथ । परि सर्वतश्च चितस्थ ता उच्यन्ते । ऊर्ध्वचितो भूत्वा एनमग्निमाश्रयध्वम् ॥ ४६ ॥
म० 'उदीचीᳪ शाखामुदस्योखां निवपति संज्ञानमिति' (का० १७ । १ । ४)। यया व्युदूहनं कृतं तां शाखामुदक् क्षिप्ता गार्हपत्यचितिस्थाने क्षारमृदो निदधाति । ऊषदेवत्यं यजुः । हे ऊषस्वरूप, त्वं संज्ञानमसि पशूनां सम्यक् ज्ञानसाधनमसि । पशवो हि ऊषदेशं घ्रात्वा लिहन्ति । तथा कामधरणं कामान्मनोरथान्धरति संपादयतीति कामधरणं यज्ञद्वारा कामसंपादकत्वात् । अतस्ते तव कामधरणं कामसंपादनसामर्थ्यं मयि भूयात् अस्तु । यद्वा श्रुत्यनुसारेण व्याख्यानम् । ते तव कामधरणं पशवः मयि भूयात् भूयासुः । यतस्त्वं कामधरणं पशुरूपं संज्ञानं सम्यक् ज्ञापकमसि उल्बसंभवात् । 'पशवो वा ऊषाः पशवः कामधरणं मयि ते पशवो भूयासुः' (७।१।१।८) इति श्रुतेः उल्बाभिप्रायमेकवचन- मुल्बस्योषोत्पन्नत्वात् । 'सिकताश्चाग्नेर्भस्मेत्यूषवत्' ( का. १७ । १ । ६) । ऊषवत्सिकता निवपति । सिकतादेवत्यं यजुः । हे सिकतास्वरूप, त्वमग्नेर्भस्म भासकमसि सिकतास्थोऽग्निरत्युग्रो भवति । अग्नेश्च पुरीषं पूरणमसि पूरयतीति पुरीषम् । पिपर्तेरीषक्प्रत्यये औणादिके 'उदोष्ठ्यपूर्वस्य' (पा० ७ । १। १०२) इत्युदादेशः । भस्माभिप्रायमेकवचनम् । न वा अग्निः स्वं भस्मातिदहति । 'अग्नेरेतद्वैश्वानरस्य रेतो यत्सिकताः' (७।१।१।९-१० ) इति च श्रुतिः । 'परिश्रिद्भिः परिश्रयति पूर्ववदेकविᳪशत्या चितः स्थेति' ( का० १७।१।७) | एकविंशतिपरिश्रिद्भिर्गार्हपत्यस्थानं वेष्टयति पूर्ववदिति प्रदक्षिणमूर्ध्वास्ताः खननीया इति । परिश्रिद्देवत्यं यजुः । हे परिश्रितः शर्कराः । यूयं चितः स्थ चीयन्ते भूमौ प्रक्षिप्यन्ते इति चितः भूमौ क्षिप्ता भवथ । परिचितः स्थ परितः सर्वतः स्थापिता भवथ । ऊर्ध्वं चीयन्त इति ऊर्ध्वचितः ऊर्ध्वं स्थापिताः सत्यो यूयं श्रयध्वमिदं गार्हपत्यायतनं सेवध्वम् ॥ ४६ ॥

सप्तचत्वारिंशी।
अ॒यᳪ सो अ॒ग्निर्यस्मि॒न्त्सोम॒मिन्द्र॑: सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः ।
स॒ह॒स्रियं॒ वाज॒मत्यं॒ न सप्ति॑ᳪ सस॒वान्त्सन्त्स्तू॑यसे जातवेदः ।। ४७ ।।
उ० गार्हपत्य इष्टकाभिश्चीयते । अयं सो अग्निः षडर्चमाग्नेयं त्रैष्टुभम् । चतुर्थीषष्ठ्यौ अनुष्टुभौ । इष्टकोपधानं कुर्वन्नभिनयेन दर्शयति । अयं सः गार्हपत्योऽग्निश्चीयते । यस्मिंश्चिते सति अभिषुतं सोमम् इन्दुः दधे धारयति । जठरे उदरे वावशानः कामयमानः । कथंभूतं सोमं दधे । सहस्रियं सहस्रार्हम् । वाजम् अन्नभूतं सर्वस्य जगतः । अत्यं न सप्तिम् । नकारः संप्रत्यर्थे । अनन्तरं भक्षणादेव मुदकरम् । सप्तिं शरणं तृप्तिकरम् । न केवलं यस्मिंश्चिते इन्द्रः सोमं जठरे धारयति । किंतर्हि । त्वमपि ससवान्सन्स्तूयसे जातवेदः । ससवान्सन् हवींषि संभजमानः सन् स्तूयसे ऋत्विग्यजमानैः । हे जातवेदः, अयं तावदस्य मन्त्रस्य प्रगुणोऽर्थश्रुतिस्तु आहुतिपरिणामाभिप्रायेण व्याचष्टे । अयं वो लोको गार्हपत्य आपः सोमः सुतोऽस्मिंल्लोके य इन्द्रो धत्ते जठरे वावशान इति । मध्यं वै जठरमित्यादि अयं स लोको गार्हपत्याग्निर्यस्मिंल्लोके अभियुजः सोमपरिणामभूता अपः इन्द्रस्य जठरे मध्ये दधे स्थापयति । सहस्रियं वाजमत्यन्नसप्तिमिति । आपो वै सहस्रियो वाजः अपां विशेषणानि । ससवान्सन्स्तूयसे जातवेद इति व्याचष्टे । चितः संश्चीयसे जातवेद इति गार्हपत्यरूपेण चितः सन् चीयसे । आहवनीयरूपेणेति वा अर्थान्तरनिवृत्तित्वम् ॥ ४७ ॥
म० 'मध्येऽऽर्धबृहतीश्चतस्रो दक्षिणोत्तराः प्राचीरुपदधाति | दक्षिणत उदङ्ङयᳪ सो अग्निरिति प्रत्यृचम्' ( का० १७।१। ८) । ततोऽध्वर्युर्मण्डलाद्दक्षिणे उदङ्मुख उपविश्य मध्ये