पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कश्चिदाक्रोशति कश्चित्स्तौतीति । एवं च सति वन्दारुः वन्दनशीलः सन् ते तव तन्वं शरीरं वन्दे ॥ ४२ ॥
म० 'प्रास्योखायामुपतिष्ठते बोधा म इति' ( का० १६ । ६ । ३०)। तडागादागत्यानामिकया गृहीतं भस्म तूष्णीमुखायां प्रास्य बोधा म इति द्व्यृचेनोख्याग्निमुपतिष्ठते । दीर्घतमोदृष्टाग्नेयी त्रिष्टुप् । स्वधान्नमस्यास्तीति स्वधावान् तत्संबोधने स्वधावः । 'मतुवसो रुः संबुद्धौ छन्दसि' (पा० ८ । ३।१) इति रुत्वम् । हे अन्नवन् , हे यविष्ठ युवतम अग्ने, मे मम वचसो बोध बुध्यस्व अभिप्रायमिति शेषः । यद्वा कर्मणि षष्ठी । मद्वचनं जानीहीत्यर्थः । किंभूतस्य । भूयिष्ठस्य वचसः मंहिष्ठस्य भूयिष्ठस्य अतिशयेन बहु मंहिष्ठं तस्य । तथा प्रभृतस्य प्रहृतस्य श्रोत्रपथं प्रापितस्य आदरोक्तस्येत्यर्थः । किंच त्वशब्द एकशब्दार्थः सर्वादिः । पीयतिराक्रोशतिकर्मा । हे अग्ने, त्वः एकः पुरुषः पीयति आक्रोशति निन्दति त्वः एकः त्वामनुगृणाति त्वां स्तौति । कश्चित्स्तौति कश्चिन्निन्दतीति लोकस्वभावः । एवं सति हे अग्ने, अहं तु ते तव तन्वं तनूं शरीरं वन्दे स्तौमि नमामि च । 'वदि अभिवादनस्तुत्योः । कीदृशोऽहम् । वन्दारुः वन्दनशीलः 'शॄवन्द्योरारुः' (पा० ३ । २ । १७३) इति आरुप्रत्ययः शीलार्थः ॥ ४२ ॥

त्रिचत्वारिंशी।
स बो॑धि सू॒रिर्म॒घवा॒ वसु॑पते॒ वसु॑दावन् । यु॒यो॒ध्यस्मद् द्वेषा॑ᳪसि वि॒श्वक॑र्मणे॒ स्वाहा॑ ।। ४३ ।।
उ० स बोधि । यस्त्वं सूरिः पण्डितः मघवा धनवांश्च सः बोधि बुध्यस्व । हे वसुपते धनस्य पातः, बुध्वा च युयोधि पृथक् कुरु । अस्मत्तः द्वेषांसि दौर्भाग्यानि सुप्रीतः सन् । समिधा उपहत्याज्यं जुहोति । विश्वकर्मणे स्वाहा ॥४३॥
म० सोमाहुतिदृष्टाग्नेयी यजुरन्ता गायत्री । विश्वकर्मणे स्वाहेति यजुः । हे वसुपते धनपते, हे वसुदावन् , वसु ददातीति वसुदावा । 'आतो मनिन्-' (पा० ३।२। ७४) इति क्वनिप् तत्संबुद्धौ हे वसुदावन् धनस्य दातः, स त्वं बोधि अस्मदभिप्रायं बुध्यस्व । बुध्यतेः शपि लुप्ते 'हुझल्भ्यो हेर्धिः' (पा० ६।४ । १०१) इति धिः गुणान्त्यलोपो छान्दसौ । कीदृशस्त्वम् । सूरिः विद्वान् मघवा धनवान् मघं धनमस्यास्तीति । संतुष्टः सन् द्वेषांसि दौर्भाग्यानि अस्मद्युयोधि अस्मत्तः पृथक्कुरु । 'प्रायश्चित्तिᳪ समिधोऽपहत्याज्यं विश्वकर्मण इति जुहोति' ( का० १६ । ७ । १)। स्रुवस्थानीयया समिधा घृतमादायोख्येऽग्नौ जुहोति तत्कर्मणः प्रायश्चित्तिरिति संज्ञेति सूत्रार्थः । यजुः । जगत्सष्टिस्थित्यादिकर्मकर्त्रे तुभ्यं स्वाहा सुहुतमस्तु ॥ ४३ ॥

चतुश्चत्वारिंशी।
पुन॑स्त्वाऽऽदि॒त्या रु॒द्रा वस॑व॒: समि॑न्धतां॒ पुन॑र्ब्र॒ह्माणो॑ वसुनीथ य॒ज्ञैः ।
घृ॒तेन॒ त्वं त॒न्वं॒ वर्धयस्व स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामा॑: ।। ४४ ।।
उ० आदधाति समिधम् । पुनस्त्वा । आग्नेयी त्रिष्टुप् । निर्वाणं त्वां पुनः समिन्धतां संदीपयन्तु । आदित्या रुद्राः वसवः पुनश्च ब्रह्माणः ब्राह्मणाः ऋत्विग्यजमानाः । वसुनीथ नीथा स्तुतिरुच्यते । वसुलाभनिमित्ता यस्य स्तुतिः स वसुनीथः । यज्ञैः यागैः घृतेन च त्वं तन्वं शरीरं वर्धयस्व । सत्याश्च सन्तु यजमानस्य कामाः । ये भस्माभ्यवहरणव्यवच्छिन्नाः ॥ ४४ ॥
म० 'उत्थायादधाति समिधं पुनस्त्वेति' ( का० १६ । ७ । २) । घृतहोमानन्तरमुत्थाय तामेव समिधमुख्येऽग्नावादधाति । आग्नेयी त्रिष्टुप् । आद्यपादश्चतुर्दशार्णस्तृतीयो दशकस्तेन द्व्यधिका । हे अग्ने, आदित्याः रुद्राः वसवश्च त्वा त्वां पुनः समिन्धतामुपशान्तं दीपयन्तु । हे वसुनीथ, वसु धनं तनिमित्ता नीथा स्तुतिर्यस्य । यद्वा वसूनि नयतीति वसुनीथः तत्संबुद्धौ हे धननेतः, ब्रह्माणः ब्राह्मणा ऋत्विग्यजमाना यज्ञैः कृत्वा त्वां पुनः समिन्धतां त्वं च तन्वं स्वशरीरं घृतेनास्मद्दत्तेन वर्धयस्व । त्वयि वृद्धे सति यजमानस्य कामाः सत्याः सन्तु ॥ ४४ ॥

पञ्चचत्वारिंशी।
अपे॑त॒ वी॒त॒ वि च॑ सर्प॒तातो॒ येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः ।
अदा॑द्य॒मो॒ऽव॒सानं॑ पृथि॒व्या अक्र॑न्नि॒मं पि॒तरो॑ लो॒कम॑स्मै ।। ४५ ।।
उ० पलाशशाखया गार्हपत्यं व्यूहति । अपेत त्रिष्टुप् । अर्धर्चेनोदरसर्पिण उच्यन्ते । पादेन यमः पादेन पितरः । अप इत अपगच्छत । वि इत विगच्छत । वि च सर्पतातः । च अतः स्थानात् । येऽत्रस्थ ये यूयमत्रस्थ भवथ । पुराणाश्चिरन्तनाः। ये च नूतनाः इदानीन्तनाः कस्माद्वयमपसर्पाम इतिचेन्मतिः अदात् दत्तवान् यमः अवसानं स्थानम् । अवस्यन्त्यस्मिन्निति अवसानम् । पृथिव्याः अस्मै यजमानाय । अक्रन्दन् अकृतवन्तश्च पितरः इमं लोकं स्थानम् अस्मै यजमानाय । अतोऽपगच्छतेति ॥ ४५ ॥
म० 'अथ गार्हपत्यचयनमुच्यते । पलाशशाखया गार्हपत्यं व्युदूहत्यपेत वीतेति पुच्छः प्रतिदिशं पुरस्तात् प्रथमम् | ( का० १७ । १।३) । अत्र भाविन्यावृत्त्या शालाद्वार्यो गाईपत्यशब्देनोच्यते तदर्था चितिश्चितेः स्थानमपि गार्हपत्य एव । पलाशशाखया गार्हपत्यचितेः स्थानं व्युदूहति । ऊहिरत्र प्रेरणे । तत्र पतितं तृणादिकं स्थानाद्बहिः क्षिपतीत्यर्थः । अपेत वीति ऋचः पुच्छः पदैः प्रतिदिशमादौ प्राच्यामपेत वीति येऽत्र स्थेति दक्षिणे अदादिति पश्चादक्रन्नित्युत्तरे इति सूत्रार्थः । लिङ्गोक्तबहुदेवत्या त्रिष्टुप् । अर्धर्चेन तत्स्थानसर्पिण