पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इति श्रुत्यन्तरात् । जनयन्त्यग्निमुत्पादयन्ति वृक्षोत्पत्त्यादिद्वारेति जनयः सुपत्नीर्जनयो भवत्यस्तस्मै भस्मरूपायाग्नये नमन्तां प्रह्वीभवन्तु । किंच हे आपः, एनद्भस्म अप्सु स्वात्मनि यूयं बिभृत धारयत । माता पुत्रमिव यथा माता पुत्रं स्वात्मनि धारयति तद्वत्पालयत ॥ ३५ ॥

षट्त्रिंशी।
अ॒प्स्व॒ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे । गर्भे॒ सञ्जा॑यसे॒ पुन॑: ।। ३६ ।।
उ० अप्स्वग्ने । अधस्तनेन मन्त्रेण भस्मातिथित्वेनाप्स्ववस्थाप्य अथेदानीं गायत्र्यनुष्टुब्भ्यामग्नेः सर्वगतत्वं प्रकाशयन् भस्माभ्यवहरणमेवापन्हुते । अप्सु हे अग्ने, सधिष्टव सधिः समानस्थानम् । सौषधीरनुरुध्यसे स त्वं बीजमवस्थाय ओषधीः अनुरुध्यसे । ओषधिपरिणाममनु विपरिणमसे । ततो गर्भे सन् विद्यमानः जायसे पुनरपि ॥ ३६॥ .
म०' ततो द्वाभ्याम्' ( का० १६ । ६ । २७) । ततोऽनन्तरं पठिताभ्यां द्वाभ्यामप्स्वग्ने गर्भोऽसीत्येताभ्यामृग्भ्यां पत्रपुटेन द्वितीयवारमुख्याग्निभस्माप्सु प्रास्यति । विरूपदृष्टाग्नेयी गायत्री । पूर्वमन्त्रेण भस्मातिथित्वेन संस्तुत्य द्वाभ्यामग्नेः सर्वव्यापकत्वं वदन्भस्माभ्यवहरणमपह्नुते । हे अग्ने, अप्सु जलेषु तव सधिः स्थानं स त्वमोषधीः यवाद्या अनुरुध्यसे ओषधिपरिणाममनु विपरिणमसे 'सोऽचि लोपे चेत्पादपूरणम्' ( पा० ६।१।१३४ ) इति स इत्यस्य विसर्गलोपे सन्धिः । यद्वा ओषधीः स्वीकरोषि जठराग्निरूपेण । किंच गर्भे अरण्योर्मध्ये स्थितः सन्पुनःपुनर्जायसे ॥ ३६ ॥

सप्तत्रिंशी।
गर्भो॑ अ॒स्योष॑धीनां॒ गर्भो॒ वन॒स्पती॑नाम् । गर्भो॒ विश्व॑स्य भू॒तस्याग्ने॒ गर्भो॑ अ॒पाम॑सि ।। ३७ ।।
उ० किंच । गर्भः असि भवसि ओषधीनां गर्भश्च वनस्पतीनाम् गर्भश्च विश्वस्य भूतस्य भूतग्रामस्य । हे अग्ने, गर्भः अपाम् असि ॥ ३७ ॥
म० तिस्रोऽनुष्टुभोऽग्निदेवत्याः । हे अग्ने, त्वमोषधीनां गर्भोऽसि भेषजरूपैरोषधिविशेषैरुत्पद्यमानत्वात् । हे अग्ने, त्वं वनस्पतीनां तरूणां गर्भोऽसि अरणिभ्यो जायमानत्वात् । विश्वस्य भूतस्य सर्वस्य प्राणिजातस्य गर्भोऽसि जठराग्निरूपेण विद्यमानत्वात् , अपां गर्भोऽसि वाडववैद्युतादिरूपत्वात् ॥ ३७ ॥

अष्टत्रिंशी।
प्र॒सद्य॒ भस्म॑ना॒ योनि॑म॒पश्च॑ पृथि॒वीम॑ग्ने । स॒ᳪसृज्य॑ मा॒तृभि॒ष्ट्वं ज्योति॑ष्मा॒न् पुन॒राऽस॑दः ।। ३८ ।।
उ० अप आदत्ते प्रसद्य चतसृभिराग्नेयीभिः । द्वे अनुष्टुभौ द्वे गायत्र्यौ । प्रसद्य अवस्थाप्य भस्मना भस्मरूपेण योनिं स्थानं अपश्च पृथिवीं च हे अग्ने, संसृज्य संगत्य च मातृभिः अद्भिः त्वम् ज्योतिष्मान् भूत्वा पुनरस्यामुखायामासदः आसीद ॥ ३८॥
म० 'अनामिकया प्रास्तादादत्ते प्रसद्येति' ( का० १६ । ६ । २९ ) । अप्सु क्षिप्ताद्भस्मनः सकाशादनामिकया भस्म गृह्णाति प्रसद्येति चतुर्ऋग्भिः । हे अग्ने, त्वं भस्मना कृत्वा योनिं कारणभूतां पृथिवीं योनिभूता अपश्च प्रसद्य प्राप्य मातृभिरद्भिः संसृज्यैकीभूय ज्योतिष्मान् तेजस्वी संपन्नः सन् पुनरासदः स्वस्थानमुखमासीद ॥ ३८ ॥

एकोनचत्वारिंशी।
पुन॑रा॒सद्य॒ सद॑नम॒पश्च॑ पृथि॒वीम॑ग्ने । शेषे॑ मा॒तुर्यथो॒पस्थे॒ऽन्तर॑स्याᳪ शि॒वत॑मः ।। ३९ ।।
उ० पुनरासद्य पुनरप्यास्थाय सदनं स्थानम् अपश्च पृथिवीं च हे अग्ने, ततोऽनन्तरं शेषे । 'शीङ् स्वप्ने' इत्यस्यैतद्रूपम् । स्वपिषि । मातुः यथा उपस्थे उत्सङ्गे । अन्तर्मध्ये अस्यामुखायाम् । शिवतमः शान्ततमः ॥ ३९ ॥
म० हे अग्ने, अपश्च पृथिवीं च सदनमासद्य जलभूमिरूपं स्थानं प्राप्य पुनरपि अस्यामुखायामन्तर्मध्ये त्वं शेषे स्वपिषि मातुरुपस्थे उत्सङ्गे यथा शिशुः शेते । किंभूतस्त्वम् । शिवतमः कल्याणतमः ॥ ३९ ॥

चत्वारिंशी।
पुन॑रू॒र्जा नि व॑र्तस्व॒ पुन॑रग्न इ॒षाऽऽयु॑षा । पुन॑र्नः पा॒ह्यᳪह॑सः ।। ४० ।।
उ० पुनरूर्जा । द्वे व्याख्याते ॥ ४० ॥
म०. द्वे व्याख्याते (क० ९) ॥४०॥ (क० १०) ॥४१॥

एकचत्वारिंशी।
स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वप्स्न्या॑ वि॒श्वत॒स्परि॑ ।। ४१ ।।

द्विचत्वारिंशी।
बोधा॑ मे अ॒स्य वच॑सो यविष्ठ॒ मᳪहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः ।
पीय॑ति त्वो॒ अनु॑ त्वो गृणाति व॒न्दारु॑ष्टे त॒न्वं॒ वन्दे अग्ने ।। ४२ ।।
उ० प्रास्योखायामुपतिष्ठते बोधा म इति द्वाभ्यां त्रिष्टुप्गायत्रीभ्याम् । गायत्री यजुरन्ता । विश्वकर्मणे स्वाहेति यजुः । बोधा मे बुध्यस्व मम अस्य वचसः । किमभिप्रायोहं ब्रवीमि । हे यविष्ठ मिश्रयितृतम, अथवा युवतम । मंहिष्ठस्य भूयिष्ठस्य प्रभृतस्य श्रोत्रपथं प्रापितस्य । | हे स्वधावः अन्नवन् । किंच पीयति त्वः पीयतिराकोशकर्मा । आक्रोशति त्वः। एकः पुरुषः त्वां हे अग्ने, अनु त्वो गृणाति। अनुगृणाति स्तौति । त्वः एकपुरुषः । एष लोकस्य स्वधावः