पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० उशिक्पावकः । 'वश कान्तौ' अस्य कृतसंप्रसारणस्यैतद्रूपम् । उशिक् कान्तः मेधावी वा । पावकः पावयिता । अरतिः अलंमतिः पर्याप्तमतिः। सुमेधाः कल्याणप्रज्ञः साधुयज्ञो वा । मर्तेषु मरणधर्मेषु मनुष्येषु । अग्निः कथंभूतः। अमृतः अमरणधर्मा । निधायि निहितः देवैः त्वं नो अस्य लोकस्याध्यक्ष एधीति । स इयर्ति उदियर्ति उद्गमयति धूमम् अरुषम् अरोचनम् । भरिभ्रत् धारयन्निदं जगत् । 'इतो वा अयमूर्ध्वᳪरेतः सिञ्चति धूमᳪसामुत्र वृष्टिर्भवति' इत्येतच्छ्रुत्यभिप्रायोऽयं मन्त्रः । शुक्रेण शोचिषा । द्यां द्युलोकम् इनक्षन् व्याप्नुवन् । नक्षत्रग्रहचन्द्रतारकसंबधिना तेजसा धूममियर्तीति संबध्यते । 'इतः प्रदानाद्धि देवा उपजीवन्ति' इत्येतच्छुत्यभिप्रायोऽयं मन्त्रः ॥ २४ ॥
म०. योऽग्निर्मर्त्येषु मरणधर्मेषु मनुष्येषु निधायि निहितः देवैरिति शेषः । 'बहुलं छन्दस्यमाङ्योगेऽपि' (पा० ६ । ४ । ७५) इत्यडभावः । स अरुषमरोषं चक्षुराद्युपद्रवरहितमरोचनं वा धूममुदियर्ति उद्गमयति । 'व्यवहिताश्च' (पा० १।४। ८२) उपसर्गक्रिययोर्व्यवधानम् 'इतो वा अयमूर्ध्वᳪ रेतः सिञ्चति धूमᳪ सामुत्र वृष्टिर्भवति' इति श्रुतेः । कीदृशोऽग्निः । उशिक् उश्यते काम्यते लोकैरित्युशिक् कान्तः । वशेरौणादिक इक् प्रत्ययः । पावकः पावयिता पुनातीति । अरतिः अलंमतिः पर्याप्तमतिः । यद्वा दुष्टेष्वरतिः प्रीतिरहितः । सुमेधाः शोभना सेवकाभिप्रायधारणसमर्था मेधा बुद्धिर्यस्य, शोभनो मेधो यज्ञो यस्येति वा । अमृतोऽमरणधर्मा । भरिभ्रत् बिभ्रत् जगद्धारयन् 'दाधर्ति-' (पा. ७ । ४ । ६५) इत्यादिना निपातः । शुक्रेण शोचिषा निर्मलेन तेजसा प्रभारूपेण द्यामाकाशमिनक्षन्व्याप्नुवन् । नक्षत्रग्रहतारासंबन्धितेजसा द्युलोकं व्याप्नुवन्नित्यर्थः । 'इतः प्रदानाद्धि देवा उपजीवन्ति' इति श्रुतेः ॥ २४ ॥

पञ्चविंशी। -
दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दु॒र्मर्ष॒मायु॑: श्रि॒ये रु॑चा॒नः ।
अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं द्यौरज॑नय॑त्सु॒रेता॑: ।। २५ ।।
उ० दृशानो रुक्म इति व्याख्यातम् ॥ २५ ॥
म० दृशानो व्याख्याता ( क०. १)॥ २५ ॥

षड्विंशी।
यस्ते॑ अ॒द्य कृ॒णव॑द्भद्रशोचेऽपू॒पं दे॑व घृ॒तव॑न्तमग्ने ।
प्र तं न॑य प्रत॒रं वस्यो॒ अच्छा॒भि सु॒म्नं दे॒वभ॑क्तं यविष्ठ ।। २६ ।।
उ० यस्ते अद्य । यस्तव अद्य प्रतिपदि । कृणवत् करोति । हे भद्रशोचे भन्दनीयदीप्ते, अपूपं पुरोडाशम् । हे देव, घृतवन्तम् । हे अग्ने 'स आज्यस्योपस्तीर्य द्विर्हविषोऽवदायाथोपरिष्टादाज्यस्यावघारयति' इत्येतच्छ्रुत्यभिप्रायम् । प्र तं नय। नयसीति प्राप्ते छान्दसो लोट् । प्रणयसि तं यजमानम् । | प्रतरम् अतितराम् वस्यो अच्छ । 'अच्छाभेराप्तुमिति शाकपूणिः' । वसीयः स्थानमच्छा वस्तृतमस्थानमभि । 'वस निवासे' तृन् 'तुश्छन्दसि' इति ईयसुन् 'तुरिष्ठेमेयस्सु' इति तृचो लोपे वसीय इति सिध्यति । 'स लोकमागच्छत्यशोकमहिमं तस्मिन्वसति शाश्वतीः समाः' इति श्रुत्युक्तं तं प्राप्नुयात् अयं वसीयान् लोकः । अभिनयसि च सुम्नं देवभक्तं देवसेवितम् । हे यविष्ठ युवतम, अथवा मिश्रयितृतम ॥ २६ ॥
म० भद्रा कल्याणकारिणी शोचिर्दीप्तिर्यस्य तत्संबोधने हे भद्रशोचे, हे देव अग्ने, अद्य प्रतिपदि यः पुमान् ते तव अपूपं पुरोडाशं घृतवन्तं घृतयुक्तमुपस्तरणाभिधारणोपेतं कृणवत् कृणोति करोति । 'कृञ् करणे' स्वादिः 'इतश्च लोपः परस्मैपदेषु' ( पा० ३ । ४ । ९७ ) इति तिप इकारलोपे 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्यडागमे ओर्गुणे कृणवदिति रूपम् । ‘स आज्यस्योपस्तीर्य द्विर्हविषोऽवदायाथोपरिष्टादाज्यस्याभिघारयति' (१ । ७ । २ । १०)। इत्येतच्छ्रुत्यभिप्रायम् । हे यविष्ट युवतम, यद्वा मिश्रयितृतम, तं यजमानं प्रतरमतिशयेन प्रकृष्टं प्रतरम् 'अमु च छन्दसि' (पा० ५। ४ । १२) इत्यव्ययात्परात् घादमुप्रत्ययः । प्रकृष्टतरं वस्यः स्थानमुत्तमलोकं प्रनय प्रापय । अच्छाभिमुख्येन सुम्नं सुखं चाभिनय सर्वतः प्रापय । कीदृशं सुम्नम् । देवभक्तं देवैः भक्तं सेवितं देवयोग्यं सुखं प्रापयेत्यर्थः । वसति यत्र तद्वस्तृ तृन्प्रत्ययः । अतिशयेन वस्तृ वसीयः 'तुश्छन्दसि' (पा. ५। ३ । ५९) इतीयसुन् 'तुरिष्ठेमेयःसु' (पा० ६।४ । १५४ ) इति तृचो लोपः । छान्दसे ईलोपे वस्य इति सिध्यति । ‘स लोकमागच्छत्यशोकमहिमं तस्मिन् वसति शाश्वतीः समाः' (बृह० मा० ४ । १५) इति श्रुतेः । 'प्रकृत्यान्तःपादमव्यपरे' (पा० ६।१। ११५) इति वस्यो अच्छेत्यत्र सन्ध्यभावः ॥ २६ ॥

सप्तविंशी।
आ तं भ॑ज सौश्रव॒सेष्व॑ग्न उ॒क्थ उ॑क्थ॒ आ भ॑ज श॒स्यमा॑ने ।
प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वा॒त्युज्जा॒तेन॑ भि॒नद॒दुज्जनि॑त्वैः ।। २७ ।।
उ०. आ तं भज । यदःस्थाने तदो वृत्तिः लटः स्थाने लोटः अर्थसंबन्धात् । हे अग्ने, आभजसि तं यजमानम् । सौश्रवसेषु साधुश्रवणीयेषु यज्ञक्रतुषु । उक्थ उक्थ आभज ततस्तेष्वेव यज्ञक्रतुषु उक्थे उक्थे शस्यमाने आभजसि आसेवसे । यजमानः प्रियः सूर्यस्य भवति प्रियश्चाग्नेर्भवति । किंच उज्जातेन भिनदत् । उद्भिनत्ति धर्मार्थकामान् जातेनौरसपुत्रसंघातेन । उद्भिनत्ति च जनित्वैः जनिष्यमाणैः