पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पौत्रप्रपुत्रसंधैः वेदार्थान् । प्रजाप्यस्य स्वर्गयायिनी भवतीत्यभिप्रायः ॥ २७ ॥
म० शोभनं श्रवः कीर्तिः सुश्रवः सुश्रवसः संबन्धीनि कीर्तिहेतुभूतानि कर्माणि सौश्रवसानि तेषु यज्ञकर्मसु हे अग्ने, त्वं तं यजमानमाभज सेवस्व । निरन्तरं कर्मानुष्ठायिनं कुर्वित्यर्थः । उक्थे उक्थे निष्केवल्यप्रगाथादिरूपे च शस्यमाने तत्तच्छस्त्रे सति तमाभज सर्वतः सेवस्व । कर्मणि शस्त्रे च प्रेरयेत्यर्थः । एवं त्वया सेवितोऽयं यजमानः सूर्ये सूर्यस्य प्रियो भवाति भवतु । लिङर्थे लेट् 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) । अग्ना अग्नेश्च प्रियोऽस्तु । ङसो डादेशः । तथा जातेनोत्पन्नेन पुत्रेण उद्भिनत् उद्भेदमुदयं वृद्धिमाप्नोतु । इलोपेऽडागमे चोद्भिनददिति रूपम् । तथा जनित्वैः जनिष्यमाणैश्च पौत्रादिभिरुद्भिनदत् । जनिष्यन्ते ते जनित्वाः तैः । भविष्यदर्थे औणादिक इत्वप्रत्ययः ॥ २७ ॥

अष्टाविंशी।
त्वाम॑ग्ने॒ यज॑माना॒ अनु॒ द्यून् विश्वा॒ वसु॑ दधिरे॒ वार्या॑णि ।
त्वया॑ स॒ह द्रवि॑णमि॒च्छमा॑ना व्र॒जं गोम॑न्तमु॒शिजो॒ वि व॑व्रुः ।। २८ ।।
उ० त्वामग्ने । हे अग्ने, त्वां यजमानाः । अनुद्यून् अन्वहं अहन्यहनि विश्वानि वसूनि धनानि । दधिरे धारयन्ति भूमिगोहिरण्यादीनि । वार्याणि वरणीयानि । किंच । त्वया च सह द्रविणं यज्ञफलमिच्छमानाः कामयमानाः । व्रजम् व्रजन्त्यनेन सुकृतिन इति व्रजो देवयानमार्गः । गोमन्तम् गावो रश्मय आदित्यसंबन्धिनः तैः संयुक्तम् । उशिजो मेधाविनः ज्ञानकर्मसमुच्चयकारिणः । विवव्रुः विभिदुः । आदित्यमण्डलस्य मध्येन मार्गं कृतवन्त इत्यर्थः । तदुक्तम् 'ते य एवं विदुः' इत्युपक्रम्य 'देवलोकादादित्यमण्डलम्' इत्यादि ॥ २८ ॥
म० हे अग्ने, यजमानास्त्वामनु वर्तमानाः त्वां सेवमानाः सन्तः द्यून् । द्युशब्दो दिनवाची । 'कालाध्वनो:-' (पा० २ । ३ । ५) इति द्वितीया । दिनेषु सर्वदा वार्याणि वरणीयानि प्रार्थ्यानि विश्वा विश्वानि सर्वाणि वसु वसूनि धनानि गोभूहिरण्यादीनि दधिरे धारयन्ति । यथेष्टं धनं प्राप्नुवन्तीत्यर्थः । वसु अत्र सुब्लोपः । किंच त्वया सह स्थिताः त्वां भजन्तस्ते यजमाना द्रविणं यज्ञफलमिच्छमाना इच्छन्तः उशिजः मेधाविनो ज्ञानकर्मसमुच्चयकारिणः सन्तो गोमन्तं गावो रश्मयोऽत्र सन्तीति गोमान् तं रविमण्डलमध्यगं व्रजं व्रजन्त्यनेन सुकृतिन इति व्रजस्तं देवयानमार्गं विवव्रुः बिभिदुः । रविमण्डले मार्गं कृतवन्त इत्यर्थः । तदुक्तम् 'ते य एवमेतद्विदुः' इत्युपक्रम्य 'देवलोकादादित्यम्' इति ॥ २८ ॥

एकोनत्रिंशी।
अस्ता॑व्य॒ग्निर्न॒राᳪ सु॒शेवो॑ वैश्वान॒र ऋषि॑भि॒: सोम॑गोपाः ।
अ॒द्वे॒षे द्यावा॑पृथि॒वी हु॑वेम॒ देवा॑ ध॒त्त र॒यिम॒स्मे सु॒वीर॑म् ।। २९ ।।
उ० अस्ताव्यग्निः स्तुतोऽग्निर्वैश्वानरः नरां सुशेवः मनुष्याणां शोभनं सुखयिता । ऋषिभिः ऋत्विग्यजमानैः । सोमस्य गोपायिता अद्वेषे। पादौ लिङ्गोक्तदेवताकौ । यतोऽग्निः स्तुतः अतः अद्वेषे द्वेषरहिते द्यावापृथिव्यौ हुवेम आह्वयामः तदाश्रयकर्मप्राप्त्यर्थम् । हे देवाः, यूयमपि धत्त दत्त । रयिं धनम् । अस्मे अस्मभ्यम् । सुवीरं शोभनपुत्रम् ॥ २९ ॥
म० ऋषिभिः यजमानर्त्विग्भिः अग्निरस्तावि स्तुतः । कर्मणि चिण् । कीदृशोऽग्निः । नरां नराणां सुशेवः शोभनं सुखयिता । नुडागमाभावे गुणे च नरामिति रूपम् । शोभनं शेवः सुखं यस्मात् । वैश्वानरः विश्वेभ्यः सर्वेभ्यो नरेभ्यो हितः जठराग्निरूपेण सोमं गोपायतीति सोमगोपाः सोमस्य रक्षिता । अद्वेषे । पादौ लिङ्गोक्तदेवौ । यतोऽग्निः स्तुतः अतोऽद्वेषे द्वेषरहिते द्यावापृथिवी रोदसी वयं हुवेम आह्वयामः तदाश्रितकर्माप्त्यै । हे देवा अग्न्यादयः, अस्मे अस्मासु सुवीरं शोभनपुत्रयुतं रयिं धनं यूयं धत्त स्थापयत ॥ २९ ॥

त्रिंशी।
स॒मिधा॒ऽग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम् । आऽस्मि॑न् हव्या जु॑होतन ।। ३० ।।
(अस्मिन्—आस्मिन् पाठभेदः)
उ० वनीवाहनम् । आग्नेय्यः पञ्च कण्डिकाः । समिधाग्निं व्याख्यातम् ॥ ३० ॥
म०. 'अथ वनीवाहनं प्रागनः कृत्वोख्यस्योत्तरतः समिदाधानᳪ समिधाग्निमिति' ( का० १६ । ६ । १५)। उख्याग्नेरुत्तरदिशि प्रागीषं शकटं संस्थाप्य यजमान उख्येऽग्नौ वनीवाहने समिधमाधत्त इति सूत्रार्थः । विरूपाक्षदृष्टाग्नेयी गायत्री व्याख्याताप्युच्यते ( अध्या० ३ क० १)। हे ऋत्विग्यजमानाः, समिधा कृत्वाग्निं दुवस्यत परिचरत अतिथिमेनमग्निं बोधयत । अस्मिन्नग्नौ हव्या हवींषि आजुहोतन साकल्येन जुहुत ॥ ३०॥

एकत्रिंशी।
उदु॑ त्वा॒ विश्वे॑ दे॒वा अग्ने॒ भर॑न्तु॒ चित्ति॑भिः । स नो॑ भव शि॒वस्त्वᳪ सु॒प्रती॑को वि॒भाव॑सुः ।। ३१ ।।
उ० उद्यच्छति । उदु त्वा अनुष्टुप् । हे अग्ने, उद्भरन्तु त्वां विश्वेदेवाः । चित्तिभिः यैरग्निरुद्ध्रियते । स त्वं विश्वैर्देवैरुध्रियमाणः नः अस्माकं शिवो भव । शिवः शान्तः । सुप्रतीकः शोभनमुखः विभावसुः विभूतधनश्च ॥३१॥
म० 'सासन्दीकमुद्यम्योदुत्वेति दक्षिणतोऽनसि करोति' (का० १६ । ६ । १६) । समिदाधानानन्तरमुदुत्वेति मन्त्रेणासन्दीसहितमुख्याग्निमूर्ध्वं कृत्वा दक्षिणे स्थितो यजमानः शकटे तं स्थापयतीति सूत्रार्थः । तापसदृष्टाग्नेय्यनुष्टुप् । हे अग्ने,