पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

'प्राणो वै दिवः प्राणादु वा एष प्रथममजायत' इति श्रुतिः। तं जातमभिप्राणिति 'प्राणो वा अग्निर्जातमेवैनमेतत्सन्तं जनयति' इत्येतदभिप्रायम्। अस्मद्द्वितीयं परि जातवेदाः अस्मत् अस्मत्तः पुरुषविधात् द्वितीयं जातवेदः 'जातः यदेनमदो द्वितीयं पुरुषविधोऽजनयत्' इति श्रुतिः । स्वमुखाच्च योनेर्हस्ताभ्यां वाग्निमसृजतेत्ययं पुरुषविधिः । तृतीयमप्सु । तृतीयं तम् अप्सु व्यवस्थितं जनयति । 'यदेनमदस्तृतीयमद्भ्योऽधिजनयत्' इति श्रुतिः । अथ यो गर्भोऽन्तरासीत्सोग्निरसृज्यतेत्येतच्छ्रुत्यभिप्रायम् । नृमणा अजस्रम् । नृषु मनो यस्येति नृमणाः प्रजापतिः अजस्रमनुपक्षीणम् । 'प्रजापतिर्वै नृमणा अग्निरजस्रः' इति श्रुतिः । तृतीयमप्स्वन्तर्व्यवस्थितं जनयति नृमणा अजस्रमग्निमिति वाक्यार्थः । य एवं बहुजन्माग्निः तं इन्धानः आदीपयन् यजमानः एनमग्निं जरते जनयतीति धातोरर्थान्तरे वृत्तिः । स्वाधीः शोभना आहिता धीर्बुद्धिर्यस्य स स्वाधीः ॥ १८ ॥
म०. 'वात्सप्रेण च दिवस्परीत्येकादशभिरनुवाकेनैके' (का० १६ । ५ । ३१-३२)। दिवस्परीत्येकादशर्चेन वात्सप्रेणोख्यमग्निमुपतिष्ठते । एके आचार्या अनुवाकेन द्वादशर्चेन वदन्तीति सूत्रार्थः । अग्निदेवत्या द्वादश त्रिष्टुभो भलन्दनपुत्रवत्सप्रीदृष्टाः । अग्निः प्रथमं दिवः परि दिवः सकाशात् जज्ञे जातः 'प्राणो वै दिवः प्राणादु वा एष प्रथममजायत' (६ । ७ । ४ । ३) इति श्रुतिः । जातवेदाः अग्निः द्वितीयं द्वितीयवारमस्मत्परि अस्मत्तः सकाशात् ब्रह्मणो जज्ञे जातः । 'यदेनमदो द्वितीयं पुरुषविधोऽजनयत्' (६ । ७ । ४ । ३) इति श्रुतेः 'स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत' इति च श्रुतेः स पुरुषविध इत्यर्थः । नृषु मनो यस्य स नृमणाः 'पूर्वपदाच्च' (पा० ८।१।३) इति णत्वम् । नृमणाः प्रजापतिः अजस्रमनुपक्षीणमग्निमप्सु जलेष्वन्तर्व्यवस्थितं तृतीयं तृतीयवारमजनयन् यदेनमदस्तृतीयमद्भ्योऽजनयत् । अथ यो गर्भोऽन्तरासीत्सोऽग्निरसृज्यत । 'प्रजापतिर्वै नृमणा अजस्रोऽग्निः' (६ । ७ । ४ । ३) इत्यादिश्रुतयः । एवं बहुजन्माग्निः स्वाधीः शोभना आहिता धीर्बुद्धिर्यस्य स यजमान एनं बहुजन्मानमग्निमिन्धानो दीपयन् जरते जनयति । धातोरर्थान्तरे वृत्तिः । यद्वायमर्थः । अग्निः प्रथमं दिवःपरि द्युलोकस्योपरि जज्ञे सूर्यरूपेणोत्पन्नः । अस्मत्परि अस्मदीयमनुष्यलोकस्योपरि जातवेदाः द्वितीयं जज्ञे प्रसिद्धवह्निरूपेण द्वितीयं जन्म प्राप्तवान् । अप्सु समुद्रे तृतीयं जज्ञे वडवानलरूपेण तृतीयवारमुत्पन्नः । अजस्रं त्रिष्वपि जन्मसु नृमणा नृषु मनो यस्य यजमानेष्वनुग्रहबुद्धियुक्तः एनमीदृशमग्निमिन्धानः पुरोडाशादिना दीपयन्स्वाधीः स्वायत्तचित्तो यजमानो जरते जीर्यते जरापर्यन्तं परिचरतीत्यर्थः॥१८॥

एकोनविंशी।
वि॒द्मा ते॑ अग्ने त्रे॒धा त्र॒याणि॑ वि॒द्मा ते॒ धाम॒ विभृ॑ता पुरु॒त्रा ।
वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्वि॒द्मा तमुत्सं॒ यत॑ आज॒गन्थ॑ ।। १९ ।।
उ० विद्मा ते। विद्म जानीमः विद्मा 'द्व्यचोऽतस्तिङः' इति - दीर्घत्वम् । ते तव हे अग्ने, त्रेधा त्रयाणि त्रिधा प्रविभक्तानि त्रीणि रूपाणि अग्निवायुसूर्याख्यानि । विद्मा ते धाम । 'धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानीति च' । जन्मान्यत्राभिप्रेतानि । धामानि जन्मानि आहवनीयगार्हपत्यदक्षिणाग्न्यतिप्रणीतधिष्ण्यप्रभृतीनि । विभृता विहृता पुरुत्रा बहुरूपाणि । विजानीमश्च तव नाम परममुत्कृष्टम् । गुहायामिव यद्व्यवस्थितम् । यविष्ठ्य इति वा । अस्य तन्नाम विद्मा तमुत्सं विजानीमश्च तमुत्सन्दनमब्रूपं प्रथममवस्थानं यतस्त्वम् आजगन्थ आगतवानसि हे अग्ने ॥ १९॥
म०. हे अग्ने, यानि पूर्वस्मिन्मन्त्रे दिवस्परीत्यादिना त्रेधा स्वरूपाण्युक्तानि आदित्याग्निवडवानलरूपाणि तानि त्रयाणि त्रिसंख्याकानि ते तव संबन्धीनि रूपाणि वयं विद्म जानीमः । 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५) इति संहितायां दीर्घः । 'विदो लटो वा' (पा. ३ । ४ । ८३) इति मसो मादेशः । यद्वा त्रेधा विभक्तानि त्रयाणि त्रीणि ते तव रूपाणि अग्निवायुसूर्याख्यानि वयं विद्म । किंच ते तव संबन्धीनि पुरुत्रा बहुषु प्रदेशेषु गार्हपत्याहवनीयान्वाहार्यपचनाग्निध्रीयरूपेषु विभृता विहृतानि धाम धामानि स्थानानि अपि वयं विद्म । विभृतेति विभक्तेराकारः । धामेत्यत्र विभक्तिलोपः। किंच ते तव परममुत्कृष्टं गुहा । सप्तमीलोपः । गुहायां यद्व्यवस्थितं गोप्यं यविष्ठ इत्यादिमन्त्रप्रसिद्धं नाम यदस्ति तदपि विद्म । किंच यत उत्सात् अब्रूपात् स्थानात्त्वमाजगन्थ वैद्युतरूपेणागतोऽसि तमुत्समुत्स्यन्दनं जलरूपं स्थानं वयं विद्म । गमेर्लिट् ॥ १९ ॥

विंशी।
स॒मु॒द्रे त्वा॑ नृ॒मणा॑ अ॒प्स्वन्तर्नृ॒चक्षा॑ ईधे दि॒वो अ॑ग्न॒ ऊध॑न् ।
तृ॒तीये॑ त्वा॒ रज॑सि तस्थि॒वाᳪस॑म॒पामु॒पस्थे॑ महि॒षा अ॑वर्धन् ।। २० ।।
उ० समुद्रे त्वा । हे अग्ने, समुद्रे त्वा त्वां पूर्वं वर्तमानं नृमणाः प्रजापतिः ईधे दीपयांचकार । सोऽपोऽसृजत' इत्यु
पक्रम्य 'तस्मादग्निर्ह वै तमग्निरित्याचक्षते' इत्येतदभिप्रायम्। अप्स्वन्तर्नृचक्षा ईधे अप्स्वन्तर्वर्तमानं नृचक्षा प्रजापतिरेव ईधे आदीपितवान् । 'तमद्भ्य उपोदासृप्तं पुष्करपर्णे विवेद' इत्यादिश्रुतिरुद्घाटिता । दिवो अग्न ऊधन् द्युलोकस्य ऊधसि महोदके प्रदेशे आदित्यात्मना नृचक्षा एव ईधे । तृतीये त्वा रजसि च त्वां द्युलोके आदित्यात्मना स्थितवन्तम् अपां उपस्थे उत्सङ्गे नाव्यानामपां मध्ये व्यवस्थि