पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इति 'एङः पदान्तादति' (६।१।१०९) इति सूत्रप्राप्तसन्ध्यभावः । यश्च तमसो रात्रिलक्षणान्निर्जगन्वान्निर्गतः सन् ज्योतिषाऽहर्लक्षणेन सह आ अगात् इहागतः सोऽग्निर्जात उत्पन्नमात्र एव विश्वा विश्वानि सर्वाणि सद्मानि स्थानानि सर्वान् लोकान् आ अप्राः स्वतेजसा सर्वत्र पूरितवान् 'प्रा पूरणे' लङ् पुरुषव्यत्ययः । 'इमे वै लोका विश्वा सद्मानि' (६।७।३ । १७) इति श्रुतिः । कीदृशः । रुशता 'रुश हिंसायाम्' रुशतीति रुशन् तेन रुशता तमो हिंसता भानुना रश्मिना स्वङ्गः शोभनान्यङ्गानि यस्य शोभनशरीरः ॥ १३ ॥

चतुर्दशी।
ह॒ᳪसः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद् व्योम॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् ।। १४ ।।
उ० अवहरति हᳪसः शुचिषदिति । जगती यजुरन्ता बृहदिति यजुः । जगत्या 'जगती हेमाल्लोकान्' इति श्रुतिः । तथा बृहदिति निदधातीति राजसूये अतिच्छन्दसमित्युक्तम् । व्याख्यातो मन्त्रार्थः ॥ १४ ॥
म० 'अवहरति हᳪसः शुचिषदिति' ( का० १६ । ५। १८)। उख्याग्निमवतारयति । जगती अग्निप्रोक्षणे इयमुक्ता यजुरन्ता । राजसूयप्रकरणे इयमतिजगत्युक्ता इह तु जगती अन्ते बृहदिति यजुः । तद्विनियोगमाह 'आसन्द्यां करोति बृहदिति' ( का० १६ । ५। १९)। बृहदिति यजुषा उख्याग्निमासन्द्यां स्थापयतीति सूत्रार्थः । हंस इति मन्त्रस्तु व्याख्यातः (अ० १०। क० २४) ॥ १४ ॥

पञ्चदशी।
सीद॒ त्वं मा॒तुर॒स्या उ॒पस्थे॒ विश्वा॑न्यग्ने व॒युना॑नि वि॒द्वान् ।
मै॑नां॒ तप॑सा॒ मार्चिषा॒ऽभि शो॑चीर॒न्तर॑स्याᳪ शु॒क्रज्यो॑ति॒र्वि भा॑हि ।। १५ ।।
उ० उपतिष्ठते सीद त्वमिति तिसृभिराग्नेयीभिः । एका त्रिष्टुप् द्वे अनुष्टुभौ । सीद त्वम् अवस्थानं कुरु त्वम् । अस्या उखाया मातुः उपस्थे उत्सङ्गे । विश्वानि सर्वाणि हे अग्ने, वयुनानि प्रज्ञानानि विद्वान् प्रजानन् पदार्थसातत्यवेदीसन् । किंच उखायामवस्थानं कुर्वन् । मैनां तपसा मार्चिषाभिशोचीः मा अभिशोचीः मा अभितापयेः एनामुखां तपसा तापेन मा चार्चिषा ज्वालया। किंच । अन्तः अस्यां मध्ये अस्यामुखायामवस्थितं शुक्रज्योतिः शुक्लकर्मसाधनं ज्योतिः विभाहि विविधं दीप्यस्व ॥ १५॥
म० 'उपतिष्ठते सीद त्वमिति' (का० १६ । ५। २०)। आसन्दीनिधानानन्तरमुख्याग्निमुपतिष्ठते ऋचां त्रयेणेति सूत्रार्थः । अग्निदेवत्या त्रिष्टुप् । हे अग्ने, त्वं मातुः मातृसमाया अस्या उखाया उपस्थे उत्सङ्गे सीद उपविश । कीदृशस्त्वम् । विश्वानि वयुनानि सर्वाज्ञानोपायान् विद्वाञ्जानन् । सर्वपदार्थतत्त्ववेदी सन्नित्यर्थः । किंच एनामुखां तपसा संतापेन माभिशोचीः मा संतापय । अर्चिषा ज्वालया च माभिशोचीर्मा दीपय । तपः कार्यमर्चिः कारणं । कार्येण भूयांस्तापो भवति कारणेन त्वीषत् तदुभयं मा कुर्वित्यर्थः । अस्यामुखायामन्तर्मध्ये शुक्रज्योतिः निर्मलप्रकाशः सन् विभाहि विशेषण दीप्यस्व ॥ १५॥

षोडशी।
अ॒न्तर॑ग्ने रु॒चा त्वमु॒खायाः॒ सद॑ने॒ स्वे । तस्या॒स्त्वᳪ हर॑सा॒ तप॒ञ्जात॑वेदः शि॒वो भ॑व ।। १६ ।।
उ० अन्तरग्ने । व्यवहितपदसंबन्धप्रायोऽयं मन्त्रः । | हे अग्ने, यस्या उखायास्त्वमन्तर्मध्यतः रुचा दीप्त्या सहितः सदने स्वे स्वकीये स्थाने वर्तसे । तस्या एव उखायाः त्वं हरसा ज्योतिषा तपन् । 'तप संतापे' । अग्ने, जातवेदः जातं जातं वेत्तीति जातवेदास्तत्संबोधने हे जातवेदः जातप्रज्ञान, शिवो भव शान्तो भव ॥ १६ ॥
म० अग्निदेवत्ये द्वे अनुष्टुभौ । हे अग्ने, त्वमुखाया अन्तः मध्ये स्वे सदने स्वकीये स्थाने रुचा दीप्त्या युक्तः सन् | सीदेति शेषः । किंच जातं जातं विन्दतीति जातवेदाः तस्य संबोधनम् । हे जातवेदः सर्वज्ञ, जातं वेदो ज्ञानं यस्येति वा जातविज्ञानः तस्या उखायाः शिवः कल्याणकारी शान्तो भव । किं कुर्वन् । हरसा ज्योतिषा तपन्प्रतपन्सन् ॥ १६ ॥

सप्तदशी।
शि॒वो भू॒त्वा मह्य॑मग्ने॒ अथो॑ सीद शि॒वस्त्वम् ।
शि॒वा: कृ॒त्वा दिश॒: सर्वा॒: स्वं योनि॑मि॒हास॑दः ।। १७ ।।
उ० शिवो भूत्वा शान्तो भूत्वा मह्यं हे अग्ने, अथो अपि च । सीद उपविश उखायाम् । शिवस्त्वं शिवाः कृत्वा दिशः सर्वाः स्वं योनिं स्थानम् इहासदः इह आ असदः आसीद ॥ १७॥
म० हे अग्ने, मह्यं मदर्थं शिवः शान्तो भूत्वा अथो अनन्तरं शिवः सीद सर्वात्मना शान्तः सन्नुपविश । सर्वा दिशः शिवाः शान्ताः कृत्वा इहास्यामुखायां स्वं योनिं स्वकीयं स्थानमासदः आसीद आगत्योपविश । 'छन्दसि लुड्लङ्लिटः' (पा० ३ । ४ । ६) इति लोडर्थे लुङ् ॥ १७ ॥

अष्टादशी।
दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर॒स्मद् द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः ।
तृ॒तीय॑म॒प्सु नृ॒मणा॒ अज॑स्र॒मिन्धा॑न एनं जरते स्वा॒धीः ।। १८ ।।
उ०. वात्सप्रेणोपतिष्ठते । दिवस्परि । द्वादशाग्नेय्यः त्रिष्टुभः । दिवस्परि दिवः सकाशात् प्रथमं यज्ञे जातः अग्निः ।