पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्परि । 'प्सा भक्षणे' सर्वजनोपभोग्यया । विश्वतस्परि सर्वतोऽधिगतैरर्थैः पूर्यमाणया रय्या ॥ १० ॥
म० हे अग्ने, रय्या धनेन सह निवर्तस्व । किंच धारया जलधारया वृष्टिरूपया विश्वतः परि सर्वेषां तृणधान्यलतापादपानामुपरि पिन्वस्व सिञ्च । पिन्वतिः सेचनार्थः । कीदृश्या धारया । विश्वप्स्न्या 'प्सा भक्षणे' विश्वैः प्सायते भक्ष्यते पीयत इति विश्वप्स्नी तया । यद्वा विश्वप्स्न्या सर्वजनोपभोग्यया धारया धनधारया सर्वतः परि सर्वतोऽधिगतैरर्थैः पूर्यमाणया पिन्वस्व सिञ्च । अनवच्छिन्नधनदानेन पुनःपुनराप्यायस्वेत्यर्थः ॥ १०॥

एकादशी।
आ त्वा॑ऽहार्षम॒न्तर॑भूर्ध्रु॒वस्ति॒ष्ठावि॑चाचलिः । विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑भ्रशत् ।। ११ ।।
उ० उपरितनानि धारयन्नभिमन्त्रयते । आ त्वाहार्षम् । अनुष्टुब् आहार्षं त्वां यतः द्युलोकात् । 'हृञ् हरणे' । हृतवान् । त्वं च अन्तरभूः अन्तः नाभ्या उपरि शरीरमध्ये अभूः । अतो ब्रवीमि । ध्रुवः स्थिरः तिष्ठ । अविचाचलिः अविचलनशीलः । किंच विशः त्वां सर्वाः वाञ्छन्तु अन्नं तवोपतिष्ठतु सर्वम् । 'अन्नं वै विड्' इति श्रुतिः। मा त्वत् त्वत्तो राष्ट्रं जनपदसमूहः अधिभ्रशत् अधिभ्रश्यतु ॥ ११ ॥
म० 'उपरिनाभि धारयन्ना त्वाहार्षमित्यभिमन्त्रयते' (का० १६ । ५। १६)। नाभेरुपर्युख्याग्निं धारयंस्तमभिमन्त्रयत इति सूत्रार्थः । आग्नेय्यनुष्टुब् ध्रुवदृष्टा । हे अग्ने, अहं त्वामाहार्षमाहृतवानस्मि । आङ्पूर्वस्य हरतेर्लङि उत्तमैकवचनम् । त्वं च अन्तरभूतः उखामध्येऽवस्थितोऽसि । अविचाचलिरत्यन्तं चलनरहितो ध्रुवः स्थिरः सन् तिष्ठ । विचलतीति विचाचलिः यङन्तादिन् । किंच सर्वा विशः प्रजाः त्वा त्वां वाञ्छन्तु । यद्वा सर्वा विशः सर्वाण्यन्नानि त्वां वाञ्छन्तु अन्नानि तवोपतिष्ठन्तु । 'अन्नं वै विशः' (१६ । ७ । ३ । ७) इति श्रुतेः। इदं राष्ट्रं त्वत् त्वत्तः सकाशान्मा अधि भ्रशत् अयं जनपदस्व्ूत्तो माप्रभ्रश्यतु शून्यो मा भूत् । अस्मिन् राज्ये स्थित्वा सर्वाः प्रजाः पाहीत्यर्थः । यद्वा श्रीर्वै राष्ट्रम् ‘मा त्वद्राष्ट्रमधिभ्रशत्' (६।७।३।७) इति श्रुतेः। श्रीः त्वत्तो मा भ्रश्यतु 'भ्रंशु अधःपतने' पुषादित्वाच्च्लेरङ् 'न माङ्योगे' (पा० ६ । ४ । ७४) इति अडभावः ॥ ११॥

द्वादशी।
उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मᳪ श्र॑थाय ।
अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ।। १२ ।।
उ० पाशान्विमुञ्चति । उदुत्तमम् वारुणी त्रिष्टुप् । उदित्ययमुपसर्गः श्रथायेत्यनेन संबध्यते । हे वरुण, उत्तमं पाशम् उच्छ्रथय । 'श्रथ शैथिल्ये' । श्लथीकृत्योर्ध्वं नय । अस्मत् अस्मत्तः अवाधमम् अधमं च पाशम् अवाचीनं श्लथय । विमध्यमं स्थानस्थितमेव विश्लथय मध्यमम् । अथैवं कृते सति वयं हे आदित्य अदितेः पुत्र, व्रते तव कर्मणि वर्तमानाः अनागसः अनपराधाः अदितये अदीनतायै स्याम भवेम ॥ १२ ॥
म० 'पाश उन्मुच्योदुत्तममिति' (का० १६ । ५। १७)। रुक्मपाशशिक्यपाशौ गलादूर्ध्वमार्गेण निष्कासयतीति सूत्रार्थः। वरुणदेवत्या त्रिष्टुप् शुनःशेपदृष्टा । उदित्युपसर्गोऽव वि एतावपि श्रथयेत्यनेन संबध्यते । हे वरुण, उत्तममुत्तमाङ्गे शिरसि स्थापितं त्वदीयं पाशमस्मत् अस्मत्तः सकाशात् उत् श्रथय उत्कृष्य विनाशय । अधममधमाङ्गे पादप्रदेशे स्थापितं त्वत्पाशमवश्रथय अवकृष्यास्मत्तो विनाशय । मध्यमं मध्यमप्रदेशे स्थितं पाशं विश्रथय विच्छेदय । 'श्रथ बध्ने' मित्वाण्णिचि ह्रस्वः लोटि मध्यमैकवचने रूपम् । श्रथायेति संहितायां दीर्घश्छान्दसः । यद्वा श्रथ क्र्यादिः लोटि मध्यमैकवचने 'छन्दसि शायजपि' (पा० ३ । १।८४) इति श्नाप्रत्ययस्य शायजादेशे श्रथायेति रूपम् । अथ पाशत्रयविनाशानन्तरं हे आदित्य अदितिपुत्र, वरुण अनागसः अनपराधा निष्पापास्तव व्रते कर्मणि वर्तमानाः सन्तो वयमदितये अदीनतायै स्याम अखण्डितत्वाय योग्या भवेम । अथा इत्यत्र 'निपातस्य च' (पा० ६ । ३ । १३६) इति दीर्घः ॥ १२ ॥

त्रयोदशी।
अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्थान्निर्जग॒न्वान् तम॑सो॒ ज्योति॒षाऽऽगा॑त् ।
अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो विश्वा॒ सद्मा॑न्यप्राः ।। १३ ।।
उ० प्रदक्षिणान् गृह्णाति । अग्रे बृहन् । त्रिष्टुप् । आदित्यात्मनोऽग्नेः स्तुतिः । यः अग्रे उषसां बृहन महान् प्रभावतः ऊर्ध्वः अस्थात् स्थितः । यश्च निर्जगन्वान् तमसः निर्गतो रानिलक्षणात्तमसः अहर्लक्षणेन ज्योतिषा सह आगात् आगतः सोऽग्निः । भानुना रुशता रोचिष्णुना । स्वङ्गः शोभनाङ्गः । आ जातो विश्वा सद्मान्यप्राः । 'प्रा पूरणे' । आ अप्राः आपूरिवान् जातः संजातरश्मिः विश्वा सद्मानि । 'इमे वै लोका विश्वासद्मानि' इति श्रुतिः । सर्वाणि सदनानि प्रत्यक्षवृत्तिता ॥ १३॥
म० 'पिण्डवत्प्राग्दक्षिणा प्रगृह्णात्यग्रे बृहन्निति' (का०१६ । ५।१७) । पूर्वमन्त्रेण पाशावुन्मुच्योर्ध्वबाहुराग्नेयीं दिशं प्रत्यख्याग्निमूर्ध्वं धारयतीति सूत्रार्थः । अग्निदेवत्या त्रिष्टुप् त्रितदृष्टा । आदित्यात्मनाग्नेः स्तुतिः क्रियते । बृहन् प्रभावान्महानयमग्निरुषसामग्रे प्रातःकालानां मुखे ऊर्ध्वो अस्थात् ऊर्ध्वः स्थितः । यद्वाग्निहोत्रादौ बोध्यमान उत्तिष्ठति । ऊर्ध्वो अस्थादित्यत्र 'प्रकृत्यान्तःपादमव्यपरे' (पा. ६।१।११५)