पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अग्निदेवत्या त्रिष्टुप् वत्सप्रीदृष्टा । अग्निरक्रन्दत् 'छन्दसि लुङलङ्लिटः' (पा० ३।४ । ६) क्रन्दति विस्फूर्जति । कीदृशः । द्यौरिव स्तनयन् । द्यौशब्देनात्र पर्जन्य उक्तः । द्यौर्मेघ इव स्तनयन् गर्जन् शब्दं कुर्वाणः 'स्तन गदी देवशब्दे' चुरादिरदन्तः । मेघसाधर्म्यमाह । क्षामा रेरिहत् ‘सुपां सुलुक्' (पा. ७।१।३९) इति विभक्तिलोपः । क्षामेति पृथिवीनामसु पठितम् । क्षामां पृथिवीं रेरिहत् 'लिह आस्वादने' यड्लुगन्ताच्छतृप्रत्ययः रेफश्छान्दसः । अत्यन्तं लेढीति लेलिहत् 'नाभ्यस्ताच्छतुः' (पा० ७ । १ । ७८) इति नुमभावः । भूमिमति आस्वादयन्व्याप्नुवन् यथा मेघो जलभावं गच्छन्नत्यर्थं भूमिं लेढि । वीरुधः समञ्जन् स्वकीयज्वालासमूहेन ओषधीर्व्याप्नुवन् । अन्यदप्युच्यते । हि यस्मात् जज्ञानः उत्पद्यमानः सन् सद्यः तदानीमेव इद्धः दीप्तश्च सन् व्यख्यत् विख्याति । अन्तर्भूतणिजन्तो ज्ञेयः । श्रुत्या तथा व्याख्यातत्वात् । विख्यापयति इदं सर्वं विविधं प्रकाशयति । अन्यच्च योऽग्निः रोदसी द्यावापृथिव्योः अन्तर्मध्ये भानुना रश्मिना स्वयमाभाति समन्तात्प्रकाशते । यथा पर्जन्यो भानुना विद्युद्रूपेण द्यावापृथिव्योरन्तर्भाति एवमग्निः पर्जन्यवत् स्तूयते । ईम् निपातः पादपूरणे ॥ ६ ॥

सप्तमी।
अग्ने॑ऽभ्यावर्त्तिन्न॒भि मा॒ निव॑र्त॒स्वायु॑षा॒ वर्च॑सा प्र॒जया॒ धने॑न । स॒न्या मे॒धया॑ र॒य्या पोषे॑ण ॥ ७ ॥
उ० अवहरति अग्ने अभ्यावर्तिन्निति । इतःप्रभृति पञ्चाग्नेय्यः । अग्ने अभ्यावर्तिन् ऊर्ध्वबृहती। हे अग्ने अभ्यावर्तनशील, अभिनिवर्तस्व मांप्रति । आयुषा । वर्चसा । अन्नेन । प्रजया । धनेन । सन्या लाभेन । मेधया । रय्या सुवर्णोत्कर्षेण । पोषेण धनपुष्ट्या ॥ ७॥
म०. 'अवहरत्यग्नेऽभ्यावर्तिन्निति' (१६ । ५ । १५) । ऋक्चतुष्टयेन चतुर्वारमुख्याग्निमात्मसमीपमानयतीति सूत्रार्थः। अग्निदेवत्योर्ध्वबृहती द्वादशार्णत्रिपादा । अभि आभिमुख्येनावर्तितुं शीलमस्यास्तीत्यभ्यावर्ती तत्संबोधनम् अस्मदभिमुखागमनशील । आयुरादिभिः सह मा मामभि मांप्रति निवर्तस्व शीघ्रमागच्छ । आयुषा जीवनेन । वर्चसा ब्रह्मवर्चसेन । प्रजया पुत्रादिकया । धनेन वसुना । सन्या इष्टलाभेन । मेधया धारणावत्या बुद्ध्या । रय्या सुवर्णालंकारैः । पोषेण आयुरादीनां पुष्ट्या ॥ ७ ॥

अष्टमी।
अग्ने॑ अङ्गिरः श॒तं ते॑ सन्त्वा॒वृत॑: स॒हस्रं॑ त उपा॒वृत॑: ।
अधा॒ पोष॑स्य॒ पोषे॑ण॒ पुन॑र्नो न॒ष्टमा कृ॑धि॒ पुन॑र्नो र॒यिमाकृ॑धि ।। ८ ।।
उ० अग्ने अगिरः । महाबृहती । हे अग्ने, अङ्गिरः अङ्गानां रसभूत, शतं तव सन्तु आवृतः आवर्तनानि । शतशब्दोऽसंख्यातविषयः । सहस्रं बहूनि च उपावर्तनानि सन्तु । अथ अध समानार्थौ । अथैवं भूयोभूयः करणेनावर्तमानः। पोषस्य पोषेण अनवच्छिन्नधनागमेन सह पुनः नोऽस्माकं नष्टम् न आकृधि आगमय । रयिं धनं पुनरागमय । करोतिर्गतिकर्मा ॥ ८॥
म० आग्नेयी महाबृहती एकः पादो द्वादशार्णश्चत्वारोऽष्टार्णाः । हे अङ्गिरः अङ्गिनां रसभूत अङ्गसौष्ठवयुक्त हे अग्ने, ते तव शतमावृतः सन्तु शतसंख्याका आवृत्तिशक्तयः सन्तु । तथा ते तव सहस्रमुपावृतः सन्तु सहस्रसंख्याका उपावृत्तिशक्तयः सन्तु स्वस्यैवावर्तनमावृत् । त्वत्समीपवर्तिनां पुरुषाणां द्रव्यविशेषाणां चावर्तनमुपावृत्तिः । अस्मासु स्नेहातिशयेन त्वमपि पुनःपुनरावर्तस्व । त्वदीयाः पुरुषास्त्वदीयानि च द्रव्याणि पुनःपुनरावर्तन्तामित्यर्थः । अधेत्यव्ययमथार्थम् । 'निपातस्य च' (पा० ६ । ३ । १३६) इति संहितायां दीर्घः । अथापि शतसहस्रसंख्यानामावृत्त्युपावृत्तिशक्तीनां यः पोषः समृद्धिस्तस्यापि पोषस्यान्यः पोषोऽयुतलक्षादिसंख्याकाभिवृद्धिस्तादृशेन पोषेण नोऽस्मदीयं नष्टं धनं पुनर्भूयोऽपि आकृधि आवृत्तं कुरु आगमय । पुनः भूयोऽपि नोऽस्मदीयं पूर्वमसंपादितं धनमाकृधि सर्वतः संपादितं कुरु । करोतिर्गतिकर्मा 'श्रुशृणुप्रकृवृभ्यश्छन्दसि' (पा० ६ । ४ । १०२) हेर्धिः व्यत्यये न शपो लुक् ॥ ८॥

नवमी।
पुन॑रू॒र्जा निव॑र्त्तस्व॒ पुन॑रग्न इ॒षाऽऽयु॑षा । पुन॑र्नः पा॒ह्यᳪह॑सः ॥ ९ ॥
उ० पुनरूर्जा गायत्र्यौ । पुनःपुनरभ्यासोऽनवच्छेदार्थः । पुनरपि उर्जा दध्याद्युपसेचनेन निवर्तस्व । पुनश्च हे अग्ने, इषा अन्नेन सह आयुषा च सह । किंच पुनरेव नोऽस्मान् पाहि अंहसः पापात्सकाशात् यथा पूर्वं रक्षिताः ॥ ९॥
म०. आग्नेय्यौ द्वे गायत्र्यौ । हे अग्ने, त्वमूर्जां क्षीरादिरसेन सह निवर्तस्व पुनरत्रागच्छ । इषा अन्नेन आयुषा जीवेन च सह पुनरागच्छ । आगतस्त्वं नोऽस्मान्पुनः कृतादंहसः पापात्पाहि रक्ष ॥ ९॥

दशमी।
स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वप्स्न्या॑ वि॒श्वत॒स्परि॑ ॥ १० ॥
उ० सह रय्या सह धनेन निवर्तस्व । किंच । हे अग्ने, पिन्वस्व । पिन्वतिः सेचनार्थः । तां च रयिं सिञ्च । वसोर्धारया अनवच्छिन्नधनदानेन निवर्तस्व । पुनःपुनराप्यायस्वेत्यभिप्रायः । कथंभूतया रय्या । विश्वप्स्न्या विश्वत