पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० जनेषु मलिम्लुचः जनेषु स्तेनासः 'आज्जसेरसुक्' तस्कराः । वने वनाश्रिताः येच कक्षेषु नदीपर्वतकक्षेषु अघायवः । 'छन्दसि परेच्छायामिति वक्तव्यम्' इत्यघशब्दात्क्यच् 'क्याच्छन्दसि' इति उप्रत्ययः। अघं परस्मै इच्छन्तीत्यघायवः तान् तव दधामि स्थापयामि जम्भयोः भक्षणाय ॥ ७९ ॥
म० जनेषु ग्रामवर्तिषु ये मलिम्लुचः पूर्वोक्ता वन्दीकाराः ये च वने स्तेनासः स्तेनाः ‘आज्जसेरसुक्' (पा. ७ । १।५०) इत्यसुक् । गुप्तचोराः तस्कराः प्रकटचोराः । ये च कक्षेषु नदीपर्वतगहनेषु अघायवः परेषां पापाभिलाषुकाः हे अग्ने, तान् चतुर्विधान् ते तव जम्भयोः दंष्ट्रयोर्दधामि स्थापयामि भक्षणायेत्यर्थः । अघं परस्येच्छन्ति ते अघायवः 'छन्दसि परेच्छायामिति वक्तव्यम्' इति अघशब्दात्क्यच् । 'क्याच्छन्दसि' (पा० ३ । २ । १७० ) इति उप्रत्ययः ॥ ७९ ॥

अशीतितमी।
यो अ॒स्मभ्य॑मराती॒याद्यश्च॑ नो॒ द्वेष॑ते॒ जन॑: । निन्दा॒द्यो अ॒स्मान्धिप्सा॑च्च॒ सर्वं॒ तं म॑स्म॒सा कु॑रु ।। ८० ।।
(भस्मसा – मस्मसा पाठभेदः)
उ० यो अस्मभ्यम् यो मनुष्यः अस्मभ्यम् अस्मदर्थम् अरातीयात् अरातिरिवाचरेत् । अरातिः शत्रुः। यश्च न अस्मान् द्वेषते द्वेष्टि जनः । निन्दाच्च निन्दयति योऽस्मान् दिप्साच्च । दभ्नोतेः सन्यभ्यासलोपः । दभितुमिच्छति यः । तान् तव दधामि । सर्वमेतच्छत्रुजातं मस्मसा कुरु । मस्मसेति शब्दोऽनुकरणे डाजन्तः । यथा भक्षमाणा मस्मसा शब्दं कुर्वन्ति तथा कुर्वित्यर्थः ॥ ८॥
म० पूर्व चोरभेदा दर्शिताः इदानीं शत्रुभेदा उच्यन्ते । ते चतुर्विधाः अरातयो द्वेषिणो निन्दका जिघांसवश्चेति । तत्र दातव्यत्वेन प्राप्तं धनं यो न ददाति सोऽरातिः । कार्यविघातं यः करोति स द्वेषी । वाग्दौर्जन्यमात्रं यः करोति स निन्दकः । हन्तुकामश्चतुर्थः । तान् अग्नये समर्पयति । यो नरः अस्मभ्यमस्मदर्थे अरातीयात् अरातिरिवाचरति अरातीयति अरातित्वमिच्छति । आचारे इच्छायां वा क्यच्प्रत्ययः । यश्च जनो नोऽस्मान्द्वेषते कार्यनाशेनाप्रीतिमुत्पादयति 'द्विष अप्रीतौ' 'बहुलं छन्दसि' (पा० २।४ । ७३) इति शपो लुगभावः । योऽप्यन्योऽस्मान्निन्दात् निन्दति वाचा दुःखं ददाति । यश्चापरोऽस्मान् धिप्सात् धिप्सति । दम्भितुमिच्छति जिघांसति । दम्भेः सनन्तस्य 'दम्भ इच्च' (पा० ७ । ४ । ५६ ) इत्यभ्यासलोप इकारश्च । 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ४ । ९७ ) इतीकारलोपः 'लेटोऽडाटौ' (पा० ३ । ४ । ९४) इत्याडागमोऽरातीयादित्यादिषु त्रिष्वपि । हे अग्ने, तं सर्वं जनं चतुर्विधं मस्मसा कुरु चूर्णीकुरु चर्वित्वा भक्षयेत्यर्थः । मस्मसाशब्दो डाजन्तो निपातः चर्वणजन्यशब्दानुकरणवाची ॥ ८०॥

एकाशीतितमी।
सᳪशि॑तं मे॒ ब्रह्म॒ सᳪशि॑तं वी॒र्यं बल॑म् । सᳪशि॑तं क्ष॒त्रं जि॒ष्णु यस्या॒हमस्मि॑ पु॒रोहि॑तः ।। ८१ ।।
उ० पुरोहितस्यादधाति । संशितं मे ब्रह्म । 'शो तनूकरणे' उपसर्गव्यत्ययः । निशितं तीक्ष्णीकृतं मे मम ब्रह्म । निशितं च वीर्य वीरकर्म बलम् । निशितं च क्षत्रं जिष्णु जयनशीलम् । यस्य अहम् अस्मि भवामि पुरोहितः ॥ ८१ ॥
म० 'उपोत्तमां क्षत्रियस्येच्छन्नुत्तमां पुरोहितस्य' (का. १६ । ४१।४-४२) । क्षत्रिययजमानस्य द्वादशीं संशितमित्येतामिच्छया दधाति पुरोहितयजमानस्यान्त्यामुदेषामित्येतामिच्छया दधाति एकादश नित्याः सर्वासामृचामन्ते स्वाहाकारश्चेति सूत्रार्थः । मे मदीयं ब्रह्म ब्राह्मण्यं संशितं सम्यक् तीक्ष्णीकृतम् शास्त्रीयमार्गवर्ति कृतमित्यर्थः । 'शो तनूकरणे' क्तान्तः । वीर्यमिन्द्रियशक्तिः, बलं शरीरशक्तिः, तदुभयं संशितं स्वकार्यक्षमं कृतम् । तथा यस्य क्षत्रस्याहं पुरोहितोस्मि भवामि तन्मदीयं क्षत्रं क्षत्रजातं जिष्णु जयनशीलं यथा भवति तथा संशितं तीव्रं कृतम् ॥ ८१ ॥

द्व्यशीतितमी।
उदे॑षां बा॒हू अ॑तिर॒मुद्वर्चो॒ अथो॒ बल॑म् । क्षि॒णोमि॒ ब्रह्म॑णा॒ऽमित्रा॒नुन्न॑यामि॒ स्वाँ२ अ॒हम् ।। ८२ ।।
उ० उदेषाम् क्षत्रियस्य उदतिरम् उद्धरितवान् अस्मि । एषां योद्धॄणां बाहू उद्वर्चः उद्धरितवान्वर्चः । अथो अपिच बलम् । क्षिणोमि च विनाशयामि ब्रह्मणा पुरोहितसंज्ञेन अमित्रान् । उन्नयामि उद्गमयामि च स्वान् पुत्रपौत्रान् अहम् ॥ ८२॥
म० एषां स्वकीयानां राजब्राह्मणादीनां मध्ये एकैकस्य बाहू भुजौ उदतिरमुत्कर्षेण वर्धितवानस्मि । तिरतिर्वृद्ध्यर्थः । लौकिकोक्तिरियम् । लोके हि योऽन्यस्मादुत्कृष्टो भवति जना एवं वदन्ति अयं स्वहस्तमुपरि कृतवानिति । वर्चः कान्तिः तामप्युदतिरम् । अथो अपि च बलं शरीरशक्तिमुदतिरम् । ब्रह्मणा मन्त्रसामर्थ्येन अमित्रान्शत्रून् क्षिणोमि क्षीणान्करोमि । स्वान्स्वकीयान्पुरुषान्पुत्रपौत्रादीनहमुन्नयामि उत्कर्षं प्रापयामि । एवं त्रयोदश समिन्मन्त्रा उक्ताः ॥ ८२ ॥

त्र्यशीतितमी
अन्न॑प॒तेऽन्न॑स्य नो देह्यनमी॒वस्य॑ शु॒ष्मिण॑: । प्र-प्र॑ दा॒तारं॑ तारिष॒ ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ।। ८३ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां एकादशोऽध्यायः।।११।।