पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० समिधमादधाति अन्नपते अग्ने, अन्नस्य स्वमंशं नः अस्मभ्यं देहि । अनमीवस्य अमीवा व्याधिः तद्रहितस्य । शुष्मिणः । शुष्ममिति बलनाम । बलवतः। किंच । प्रप्रदातारं तारिषः अतिशयार्थं उपसर्गाभ्यासः । महता प्रकर्षेणान्नस्य दातारं प्रदातारं प्रतारिषः प्रवर्धय । किंच । ऊर्जमन्नं नः अस्मभ्यं धेहि देहि । द्विपदे चतुष्पदे द्विपाद्भ्यश्चतुष्पाद्भ्यश्च ॥ ८३॥
इति उवटकृतौ मन्त्रभाष्य एकादशोऽध्यायः ॥ ११ ॥
म०. 'न्यज्य समिधं व्रते प्रत्ते प्रत्तेऽन्नपत इत्याधानम्' (का० १६ । ६।८) । अध्वर्युणा व्रतपयसि दत्ते तत्र समिधमभ्यज्य दीक्षित उख्येऽग्नावादध्यात् । प्रत्ते इति वीप्सा प्रतिव्रतं समिदाधानप्राप्त्यर्था इति सूत्रार्थः। आग्नेयी उपरिष्टाद्बृहती अष्टार्णत्रिपादा चतुर्थो द्वादशार्णः । हे अन्नपते अन्नस्य पालक अग्ने, नोऽस्मभ्यमन्नस्य देहि । कर्मणि षष्ठी । अन्नं प्रयच्छ । यद्वान्नस्य स्वमंशं देहि । कीदृशस्यान्नस्य । अनमीवस्य नास्ति अमीवा व्याधिर्येन तदनमीवं तस्य । शुष्मिणः शुष्ममिति बलनाम । शुष्मं बलं विद्यते यस्मात्तत् शुष्मि तस्य । रोगनाशकं बलहेत्वन्नं प्रयच्छेत्यर्थः । किंच दातारं प्रतारिषः अन्नस्य दातारं प्रकर्षेण वर्धय । 'प्रसमुपोदः पादपूरणे' (पा०८।१। ६) इति पादपूर्त्यै प्रोपसर्गस्य द्वित्वम् । अतिशयार्थं वोपसर्गाभ्यासः 'अभ्यासे भूयांसमर्थं मन्यन्ते' (नि. १० । ४२) इति यास्कोक्तेः 'तॄ प्लवनतरणयोः' लेटो मध्यमैकवचनं 'सिब्बहुलं लेटि' (पा.३ । १।३४ ) इति सिप्प्रत्ययः । 'आर्धधातुकस्य' (पा० ७ । २ । ३५) इतीट् छन्दसि धातोर्वृद्धिः ‘लेटोऽडाटौ' (पा० ३ । ४ । ९४) इति अडागमः 'इतश्च लोपः' (पा० ३ । ४ । ९७) इति लेट इकारलोपे रुत्वविसर्गौ । तारिष इति रूपम् । किंच नोऽस्माकं द्विपदे मनुष्ये पुत्रादौ चतुष्पदे गवादौ च ऊर्जमन्नं धेहि धारय । यद्वा द्वौ पादौ यस्य स द्विपात्तस्मै द्विपदे । चत्वारः पादा यस्य स चतुष्पात् तस्मै ‘पादः पत्' (पा० ६ । ४ । १३०) 'पादस्य लोपोऽहस्त्यादिभ्यः' (पा० ५। ४ । १३८) इति अन्तलोपे पदादेशः । द्विपदे मनुष्याय चतुष्पदे गवादये अन्नं धेहि देहि जातावेकवचनम् । सर्वेभ्यो नरपशुभ्योऽन्नं देहीत्यर्थः ॥ ८३ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे । उखादिसमिदाध्यन्तोऽध्याय एकादशोऽगमत् ॥ ११ ॥

द्वादशोऽध्यायः।

तत्र प्रथमा
दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद् दु॒र्मर्ष॒मायु॑: श्रि॒ये रु॑चा॒नः ।
अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं॒ द्यौरज॑नयत्सु॒रेता॑: ।। १ ।।
उ० यजमानः कण्ठे रुक्मं प्रतिमुञ्चति । दृशानो रुक्मः त्रिष्टुप् । आदित्याध्यासेन रुक्मस्तुतिः । यो दृशानः दृश्यमानः प्रत्यक्षत उपलभ्यमानः । रुक्मः रोचनः । उर्व्या महत्या दीप्त्या व्यद्योत् विद्योतते यस्य च दुर्मर्षमायुः दुर्मर्षमनवखण्डितम् आयुर्जीवनम् । श्रिये रुचानः यश्च जनेभ्यः श्रियं दातुं रोचते सोऽयमग्निः अमृतः अमरणधर्मा चाभवत् । वयोभिरन्नैः पशुपुरोडाशप्रभृतिभिः यदेनं द्यौरजनयत् । यच्च एनमग्निं द्यौः अजनयत् जनितवती । सुरेताः शोभनरेताः । रेतः पुत्रः। 'सुरेता ह्येषा यस्यायमग्निः' इति द्वितीयममृतत्वकारणमः ॥ १॥
म० एकादशाध्याये उखासंभरणादिमन्त्रा उक्ताः द्वादशेऽध्याये उखाधारणादिमन्त्रा उच्यन्ते । तत्र 'यजमानः कण्ठे रुक्मं प्रतिमुञ्चते परिमण्डलमेकविᳪशतिपिण्डं कृष्णाजिननिष्यूतं लोमसु शुक्लकृष्णेषु शणसूत्रे त्रिवृत्योतमुपरिनाभि बहिष्पिण्डं दृशानो रुक्म इति' (१६ । ५। १)। समिदाधानान्ते ऐशान्यां तिष्ठन्यजमानो ग्रीवायां रुक्मं स्वर्णनिर्मितं फलकाकारमाभरणविशेषं बध्नाति । कीदृशम् । वर्तुलम् एकविंशतिः पिण्डा यत्र । शणकदलतुल्याः स्वरूपाद्बहिर्भूता उन्नतबिन्दवः पिण्डा उच्यन्ते । कृष्णाजिनखण्डे श्वेतकृष्णरोमस्थाने स्यूतम् त्रिगुणशणसूत्रे प्रोतं नामेरूर्ध्वं वर्तमानं पिण्डा बहिर्भवन्ति तथा धार्यमिति सूत्रार्थः । रुक्मदेवत्या त्रिष्टुप् वत्सप्रीदृष्टा । आदित्याध्यासेन रुक्मः स्तूयते । रुक्म आभरणविशेषः उर्व्या महत्या दीप्त्या व्यद्यौत् विद्योतते । 'द्युत द्योतने' व्यत्ययेन शपि लुप्ते वृद्धौ लङि रूपम् । कीदृशो रुक्मः । दृशानो दृश्यमानः । शानचि शपो लुक् । प्रत्यक्षमुपलभ्यमानः। श्रिये जनेभ्यः श्रियं दातुम् । दुर्मर्षं दुर्मर्षमनवखण्डितं केनाप्यतिरस्कार्यं वा आयुः जीवनं रुचानः रोचत इति रुचानो वाञ्छन् । रोचतेः शानचि 'बहुलं छन्दसि' (पा० २। ४ । ७३) इति शपो लुक् सोऽयमग्निर्वयोभिरन्नैः पशुपुरोडाशप्रभृतिभिरमृतोऽमरणधर्मा अभवत् । यद्यस्मात्कारणात् द्यौर्द्युलोकवासी देवगण एनमग्निमजनयत् जनितवती । कीदृशी द्यौः । सुरेताः शोभनं रेतोऽग्निरूपं यस्याः सा तस्मादमृतत्वं युक्तम् ॥ १॥

द्वितीया।
नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेक॑ᳪ समी॒ची ।
द्यावा॒क्षामा॑ रु॒क्मो अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाः ।। २ ।।
उ० द्वाभ्यां परिगृह्णाति । नक्तोषासा । आग्नेयी त्रिष्टुप् नक्ता रात्रिः उषाशब्देनाहरुच्यते रात्र्यहनी । समनसा एकमनस्के। विरूपे नानारूपे । कृष्णा रात्रिः शुक्लमहः । धापयेते पाययेते सायंप्रातरग्निहोत्रादिभिः कर्मभिः।शिशुं बालमिव मातापितरौ एकं अग्निलक्षणम् । समीची सम्यगञ्चिते संश्लिष्टे वा । ये इत्थंभूते ताभ्यां गृह्णामीति शेषः । हरन् जपति