पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्विसप्ततितमी।
प॒र॒मस्या॑: परा॒वतो॑ रो॒हिद॑श्व इ॒हाग॑हि । पु॒री॒ष्य॒: पुरुप्रि॒योऽग्ने॒ त्वं त॑रा॒ मृध॑: ।। ७२ ।।
उ० औदुम्बरीमादधाति । परमस्याः । तिस्रोऽनुष्टुभः । परावत इति दूरनामसु पठितम् । परमस्याः परावतः । परं दूरम् तस्मात् । हे रोहिदश्व, रोहितोग्नेः । हरित आदित्यस्य' इति निघण्टुः । हे अग्नेरश्व, इह आगहि आगच्छ । यतः त्वं पुरीष्यः पशव्योऽसि पुरुप्रियश्च बहुजनप्रियश्च । औदुम्बरे बहून्येवाशनानि 'तयोत (?) दूर्जा सर्वान्वनस्पतीन् प्रति पच्यते' इति श्रुतिः । आगत्य च हे अग्ने, त्वं तर विनाशय मृधः संग्रामान् ॥ ७२ ॥
म० 'औदुम्बरीं परमस्या इति' (का० १६ । ४ । ३७)। उदुम्बरतरुसमिधं तृतीयामादधातीति सूत्रार्थः । अनुष्टुब्वारुणीदृष्टा । हे अग्ने, परमस्याः परावतोऽत्यन्तदूरदेशादिहास्मिन्कर्मणि त्वमागहि आगच्छ । गच्छतेः शपि लुप्ते अनुदात्तोपदेशे मलोपे आगहीति रूपम् । परावत इति दूरनामसु पठितम् । परमाशब्दस्य सर्वनामत्वमार्षम् । परमा उत्कृष्टातिशयिता या परावत् । अतिदूरमित्यर्थः । आगत्य च मृधः संग्रामान् तर अतिलङ्घय । शत्रून्विनाशयेत्यर्थः । 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५) इति दीर्घः । कीदृशस्त्वम् । रोहिदश्वः ‘रोहितोग्नेऽर्हरित आदित्यस्य' इति निघण्टूक्तेः रोहितोऽग्नेरश्वाः रोहितः तत्संज्ञा अश्वा यस्य स रोहिदश्वः । पुरीष्यः पशव्यः पुरुप्रियः पुरूणां बहूनां प्रियो वल्लभः ॥ ७२ ॥

त्रिसप्ततितमी।
यद॑ग्ने॒ कानि॒ कानि॑ चि॒दा ते॒ दारू॑णि द॒ध्मसि॑ । सर्वं॒ तद॑स्तु ते घृ॒तं तज्जु॑षस्व यविष्ठ्य ।। ७३ ।।
उ० अपरशुवृक्तामादधाति । यदग्ने । यच्छब्दो दध्मसीत्यनेन संबध्यते । यदा दध्मसि यदा दध्मः । हे अग्ने, तव दारूणि कानिचित् । चिच्छब्दोऽनवक्लृप्तौ। यानि कानिचिदेवेत्यभिप्रायः । सर्वं तदस्तु ते तव घृतं । तज्जुषस्व सेवस्व । हे यविष्ठ्य युवतम , स्वार्थे यप्रत्ययः ॥ ७३ ॥
म० 'अपरशुवृक्णां यदग्न इति' (का० १६ । ४ । ३८) कुठारं विना छिन्नां वातादिना भग्नां यज्ञियतरुसमिधं चतुर्थीमादधातीति सूत्रार्थः । द्वे अनुष्टुभौ जमदग्निदृष्टे, अतिशयेन युवा यविष्ठः यविष्ठ एव यविष्ठ्यः । स्वार्थे यत्प्रत्ययः । हे यविष्ठ्य हे युवतम हे अग्ने, कानि कानिचित् यानि कानि दारूणि काष्ठानि ते तव । सप्तम्यर्थे षष्ठी । त्वयि यत् आदध्मसि आदध्मः आरोपयामः । इदन्तो मसि । तत्सर्वं काष्ठजातं ते त्वदर्थं घृतं घृतवत्प्रियमस्तु । तद्दारुजातं त्वं जुषस्व सेवस्व ॥ ७३॥

चतुःसप्ततितमी ।
यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति । सर्वं॒ तद॑स्तु ते घृ॒तं तज्जु॒षस्व॑ यविष्ठ्य ।। ७४ ।।
उ० अधःशयामादधाति । यदत्ति यद्भक्षयति काष्ठम् । उपजिह्विका उपदीपिका । यच्च वम्रः वल्मीकः अतीत्यनुवर्तते सर्वं तदिति व्याख्यातम् ॥ ७४ ॥
म० 'अधःशयां यदतीति' (का० १६ । ४ । ३९) । अधो नीचे देशे शेते तां भूलग्नां समिधं पञ्चमीमादधाति । उपजिह्विका उपदीपिका पिपीलिकासदृशः क्षुद्रजीवः यद्दारु अत्ति भक्षयति अधःशयत्वादेव । वम्रो वल्मीकश्च यद्दारु अति सर्पति अतिव्याप्नोति अतीत्यनुवर्तते तत्सर्वं ते घृतमस्तु इति पूर्ववत् ॥ ७४ ॥

पञ्चसप्ततितमी ।
अह॑रह॒रप्र॑यावं॒ भर॒न्तोऽश्वा॑येव॒ तिष्ठ॑ते घा॒सम॑स्मै । रा॒यस्पोषे॑ण॒ समि॒षा मद॒न्तोऽग्ने॒ मा ते॒ प्रति॑वेशा रिषाम ।। ७५ ।।
उ० पालाश्य उखा भवन्ति, अहरहः । त्रिष्टुभौ अस्मिन्मन्त्रे द्वितीयचतुर्थपादयोर्विरोधः । अश्वायेव तिष्ठते घासमस्मै । अत्र तिष्ठते अस्मै द्वे पदे परोक्षमग्निं ब्रूतः । तथाग्ने मा ते प्रति वेशा रिषामेति अग्ने ते इति प्रत्यक्षमग्निं ब्रूतः। नच वाक्यभेदेनार्थः संभवति । अतो द्वयोः पादयोर्लाक्षणिकया वृत्त्या व्याख्यायते । अहरहः सततम् अप्रयावमप्रमत्तं भरन्तः आहरन्तः अशनानि । कथमिव । तदुपमेयो दर्शयति अश्वायेति । अश्वस्येव स्थापयन्तो वयं घासं यवसम् अस्मै तव । किंच । रायस्पोषेण दक्षिणालक्षणेन धनस्य पोषेण । समदन्तः उत्साहयन्तः इषा अन्नेन समदन्तः त्वां हे अग्ने, मा रिषाम मा विनश्येम । ते तव प्रतिवेशाः प्रातिवेशिकाः । त्वदाश्रया इत्यर्थः । अध्याहारेण वा व्याख्यायते । अहरहः अप्रमत्ता आहरन्तोऽशनानि । पञ्च अश्वा येऽवदत्तं घासं भक्षितम् अदितं च अवतिष्ठते भस्म अस्मै अग्नये तदुद्वपन्तः । भस्मोद्वपनमपि पठितम् अत एवमपि व्याख्यायते । रायस्पोषेण समिषा मदन्त इत्यादि समानम् ॥ ७५ ॥
म० 'पालाशीः प्रत्यृचमहरहरिति' (का. १६ । ४ । ४० ) । अष्टर्ग्भिः प्रत्यृचमष्टौ पालाशीः प्रादेशमिताः समिध उख्येऽग्नावादधातीति सूत्रार्थः । द्वे त्रिष्टुभौ नाभानेदिष्ठदृष्टे । हे अग्ने, तव प्रतिवेशाः प्रातिवेशिकाः प्रत्यासन्नाः त्वदाश्रयाः सन्तो वयं मा रिषाम मा हिंसनं प्राप्नुमः मा विनश्येमेत्यर्थः । किं कुर्वन्तः । अहरहः प्रत्यहं संततमप्रयावमप्रमत्तं यथा तथा अस्मै अग्नये घासं समिद्रूपं भक्ष्यं भरन्तः संपादयन्तः प्रयवणं प्रयावः 'यु मिश्रणे' घञ्प्रत्ययः । नास्ति प्रयावः प्रमादो यस्यां क्रियायाम् । तत्र दृष्टान्तः । अश्वायेव तिष्ठते