पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तिष्ठ स्वकर्मणि प्रवर्तस्व । यतः त्वं ध्रुवा स्थिरासि स्वभावतः । उकारः पादपूरणः । 'पात्रे करोति मित्रैतां त इति' (का. १६ । ४ । २२) । हस्तगृहीतामुखामुत्तरतः पूर्वस्थापिते कस्मिंश्चित्पात्रे स्थापयतीति सूत्रार्थः । ततो विश्वज्योतिषां तूष्णीमुद्वपनम् । हे मित्र सर्वप्राणिहितकारिन् देव, एतामुखां ते तव परिददामि परित्राणाय प्रयच्छामि । किमर्थम् । अभित्त्यै भेदनं भित्तिः न भित्तिरभित्तिस्तस्यै अभेदनाय । एषा चोखा त्वया गृहीता सती मा भेदि मा भिद्यतां विदीर्णा मास्तु ॥ ६४ ॥

पञ्चषष्टी।
वस॑व॒स्त्वाऽऽछृ॑न्दन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद्रुद्रास्त्वा॒ऽऽछृ॑न्दन्तु॒ त्रैष्टु॑भेन॒ छन्दसाऽङ्गिर॒स्वदा॑दि॒त्यास्त्वाऽऽछृ॑न्दन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद्विश्वे॑ त्वा दे॒वा वै॑श्वान॒रा आच्छृ॑न्द॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वत् ।। ६५ ।।
उ० आच्छृणत्ति वसवस्त्वा । निगदव्याख्यातम् ॥ ६५ ॥
म०. 'अजापयसावसिञ्चति वसवस्त्वेति प्रतिमन्त्रमिति' (का. १६ । ४ । २३)। चतुर्मन्त्रैश्चतुर्वारमजादुग्धमुखायामवनयतीति सूत्रार्थः । उखादेवत्यानि चत्वारि आद्या ऋग्गायत्री । हे उखे, वसवः गायत्रेण छन्दसाङ्गिरस इव त्वा त्वामाच्छृन्दन्तु समन्तासिञ्चन्तु । 'उच्छृदिर् दीप्तिदेवनयोः' रुधादिः अत्र सेचनार्थः । रुद्राः । प्राजापत्यानुष्टुप् । रुद्रास्त्वा त्रैष्टुभेन छन्दसा आच्छृन्दन्तु । आदित्याः । ऋग्गायत्री । आदित्याः जगतीच्छन्दसा त्वां छृन्दन्तु । विश्वे । सामजगती। वैश्वानराः सर्वहिता विश्वेदेवा अनुष्टुप्छन्दसा त्वां छृन्दन्तु शेषं स्पष्टम् ॥ ६५ ॥

षट्षष्टी
आकू॑तिम॒ग्निं प्र॒युज॒ᳪ स्वाहा॑ मनो॑ मे॒धाम॒ग्निं प्र॒युज॒ᳪ स्वाहा॑ चि॒त्तं विज्ञा॑तम॒ग्निं प्र॒युज॒ᳪ स्वाहा॑ वा॒चो विधृ॑तिम॒ग्निं प्र॒युज॒ᳪ स्वाहा॑ प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॑ ऽग्नये॑ वैश्वान॒राय॒ स्वाहा॑ ।। ६६ ।।
उ० औद्ग्रभणानि जुहोति । आकूतिमग्निम् । आकवनमाकूतिः । बलं वा आत्मनो धर्मो मनसः प्रेरणहेतुः । स एवाग्निः । प्रयुङ्क्ते कर्मणीति प्रयुक् । स्वाहा सुहुतं करोमीति व्याख्यातम् । 'नमःस्वस्तिस्वाहास्वधा-'इत्यादिना उपपदविभक्तिश्चतुर्थी । आकूत्यै अग्नये प्रयुजे स्वाहा । एवमुपरितना अपि मन्त्रा व्याख्येयाः । मनो मेधाम् । मनो मनसः प्रवृत्तिर्मेधायाश्च । चित्तं विज्ञातम् । ततश्चित्तस्य चिन्तनस्य संस्कारस्य वा विज्ञातस्य प्रवृत्तिः । वाचो विधृतिः । ततो वाचो विधारयिताग्निः प्रकाशको भवति । प्रजापतये मनवे मन्वन्तरकारिणे अग्नये वैश्वानराय विश्वानरपुत्राय ॥ ६६ ॥
म०. 'प्राकृतान्यौद्ग्रभणानि हुत्वा सप्ताग्निकान्याकूतिमिति प्रतिमन्त्रम्' (का० १६ । ४ । ३०) । एवमुखासंभरणं समाप्यान्या अपीष्टकाः कृत्वा फाल्गुनामावास्यायां दीक्षां कृत्वौद्ग्रभणहोमकाले प्राकृतानि सोमयागे कर्तव्यानि 'आकूत्यै प्रयुजेऽग्नये स्वाहा' ( अध्या० ४ । क० ७) इत्यादीनि पञ्चौद्ग्रभणानि हुत्वाग्निचयनसंबन्धीनि सप्तौद्ग्रभणानि प्रतिमन्त्रं जुहोतीति सूत्रार्थः । सप्तौद्ग्रभणसंज्ञानि लिङ्गोक्तदेवत्यानि । आकूत्यै यजुः पङ्क्तिः । आकूतिरस्मदीयः संकल्पोऽग्निचयनानुष्ठानविषयः तां प्रति प्रयुङ्क्ते प्रेरयतीति प्रयुक् तं संकल्पप्रेरकमग्निमुद्दिश्य स्वाहा सुहुतमस्तु । आकूतिरेवाग्निरिति सामानाधिकरण्यं वा । मनः । यजुस्त्रिष्टुप् । अनुष्ठेयस्मरणसाधनं मनः श्रुतयोर्मन्त्रतन्त्रयोर्धारणशक्तिर्मेधा तदुभयं प्रति प्रयुजं प्रेरकमग्निमुद्दिश्य स्वाहा । चित्तम् । यजुर्जगती । अविज्ञातस्यानुष्ठानस्य ज्ञानसाधनं चित्तं तेन चित्तेनावगतमनुष्ठानं विज्ञातम् तदुभयं प्रति प्रेरकमग्निमुद्दिश्य सुहुतमस्तु । वाचः । यजुर्जगती । वाचो मन्त्रपाठरूपाया विधृतिं विधारणं प्रति प्रयुजं प्रेरकमग्निमुद्दिश्य स्वाहा सुहुतमिदमस्तु । प्रजापतये । यजुःपङ्क्तिः । मनवे मन्वन्तरकारिणे प्रजापतये प्रजानां पालकाय स्वाहा । विश्वेषां नराणामनुग्राहकाय विश्वानरपुत्राय वाग्नये स्वाहा सुहुतमस्तु ६६

सप्तषष्टी ।
विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम् । विश्वो॑ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॑ ।। ६७ ।।
उ०. विश्वो देवस्येति व्याख्यातम् ॥ ६७ ॥
म० ऋष्याद्युक्तं व्याख्याता च ( अध्या० ४ । क० ८)। विश्वो मर्तो सर्वो मनुष्यो नेतुः फलप्रापकस्य देवस्य दानादिगुणयुक्तस्य सवितुः सख्यं सखिभावं वुरीत वृणुते प्रार्थयते । विश्वः सर्वो जनः राये धनाय इषुध्यति देवं प्रार्थयते । यात्राकर्मसु पठितः । किंच पुष्यसे पोष्टुं पोषणाय द्युम्नं यशोऽन्नं वा वृणीत सर्वो जनः प्रार्थयते । स्वाहा तस्मै प्रेरकाय सुहुतमस्तु ॥ ६७ ॥

अष्टषष्टी
मा सु भि॑त्था॒ मा सु रि॒षोऽम्ब॑ धृ॒ष्णु वी॒रय॑स्व॒ सु । अ॒ग्निश्चे॒दं क॑रिष्यथः ।। ६८ ।।
उ० उखामाहवनीयेऽधिश्रयति । मा सु भित्थाः इति गायत्री त्रिष्टुब्भ्यामुखादेवत्याभ्याम् । अग्निश्चेदमिति पाद आग्नेयश्च । हे उखे, मा त्वं भित्थाः । 'भिदिर विदारणे' । भिद्यस्व । सुकारोऽनर्थकः । मा च रिषः । रिषतिर्हिंसाकर्मा । मा विनश्यस्व । हे अम्ब, अम्बेति योषाया आमन्त्रणम् । धृष्णु धृष्टं प्रागल्भ्यं वीरयस्व वीरकर्म कुरुष्व अग्निधारणलक्षणम् । किंच । इतउत्तरम् अग्निश्च त्वं च इदं कर्म आसमाप्तेः करिष्यथः पचनम् ॥ ६८ ॥