पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षस्तूष्णीं श्वभ्रेऽवधाय श्रपणैः सर्वमाच्छाद्य दक्षिणाग्नेरानीतेन वह्निनोखां दीपयतीति सूत्रार्थः। विश्वदेवयुक्ता धिषणाः वागभिमानिन्यो देव्यः पृथिव्याः उपरि अङ्गिरस इव हे उखे, त्वामभीन्धतां समन्ताद्दीपयन्तु । 'वरूत्रीष्ट्वेतीक्षमाणो जपति' (का० १६ । ४ । १४) । सामर्थ्यादुखोपरिस्थश्रपणे छिद्रं कृत्वा तेनोखां पश्यन् त्रीणि यजूंषि जपतीति सूत्रार्थः । ऋगबृहती । विश्वदेवयुता वरूत्रयो देव्योहोरात्राभिमानिन्यो देवताः पृथिव्या उपरि अङ्गिरस इव हे उखे, त्वां श्रपयन्तु पच्यमानतां संपादयन्तु । 'अहोरात्राणि वै वरूत्रयोऽहोरात्रैर्हीदᳪ सर्वं वृतम्' ( ६ । ५ । ४ । ६) इति श्रुतेर्वरूत्रिशब्देनाहोरात्राणि । ग्नास्त्वा । साम जगती । 'छन्दाᳪसि ह वै ग्नाश्छन्दोभिर्हि स्वर्गं लोकं गच्छन्ति' ( ६ । ५। ४ । ७) इति श्रुतेर्ग्नाशब्देन छन्दांसि । विश्वदेवयुता ग्नादेव्यश्छन्दोभिमानिन्यो देवताः पृथिव्या उपरि हे उखे, अङ्गिरस इव त्वां पचन्तु । जनयस्त्वा । ऋक्पङ्क्तिः । 'नक्षत्राणि वै जनयः' (६। ५ । ४ । ८) इति श्रुतेर्जनयो नक्षत्राभिमानिन्यो देवताः हे उखे, त्वां पचन्तु । कीदृश्यो जनयः । अच्छिन्नपत्राः अच्छिन्नं पत्रं पतनं यासां ताः सन्ततयायिन्यः । शिष्टं स्पष्टम् ॥ ६१॥

द्विषष्टी।
मि॒त्रस्य॑ चर्षणी॒धृतोऽवो॑ दे॒वस्य॑ सान॒सि । द्यु॒म्नं चि॒त्रश्र॑वस्तमम् ।। ६२ ।।
उ० आचरति । मित्रस्य चर्षणीधृतः । मैत्री गायत्री । मित्रस्यादित्यस्य चर्षणीधृतः । चर्षणयो मनुष्याः तेषां धारणे अधिकृतस्य अवः देवस्य अवः रक्षणं । सानसि पुरातनं पुराणं द्युम्नं च यशः अन्नं वा । चित्रश्रवस्तमम् अतिशयेन चाकर्णनीयं श्रवणीयं च वयं स्तुम इति वाक्यशेषः । याचेमहीति वा । यद्वा यस्य मित्रस्य चर्षणीधृतः पालने पुराणमस्ति द्युम्नं चित्रश्रवस्तमम् स यजमानस्याभिप्रेतमर्थं साधयतु ॥ ६२॥
म० 'आचरति मित्रस्येति' (का. १६ । ४ । १५)। पाकान्तं श्रपणं क्षिपतीति सूत्रार्थः । मित्रदेवत्या गायत्री विश्वामित्रदृष्टा । मित्रस्यादित्यस्य अवो रक्षणं द्युम्नं यशोऽन्नं वा वयं स्तुम इति शेषः । याजेमहीति वा । कीदृशस्य मित्रस्य । चर्षणीधृतः चर्षणयो मनुष्यास्तान्धरतीति चर्षणिधृत् तस्य । संहितायां दीर्घः । मनुष्याणां धारयितुः । देवस्य दीप्यमानस्य । कीदृशमवः । सानसि सनातनम् । सानसीति पुराणनाम (निघ० ३ । २७ । ४) फलदानशीलं वा 'षणु दाने' इत्यस्य प्रयोगः । कीदृशम् । द्युम्नं चित्रश्रवस्तमं चित्रं विचित्रमनेकैः श्रूयते तचित्रश्रवः 'श्रु श्रवणे' अस्मात्कर्मण्यसुन् । अतिशयेन चित्रश्रव इति चित्रश्रवस्तममत्यन्तं श्रवणीयं यशः प्रार्थयामेति भावः ॥ ६२॥

त्रिषष्टी।
दे॒वस्त्वा॑ सवि॒तोद्व॑पतु सुपा॒णिः स्व॑ङ्गु॒रिः सु॑बा॒हुरु॒त शक्त्या॑ ।
अव्य॑थमाना पृथि॒व्यामाशा॒ दिश॒ आ पृ॑ण ।। ६३ ।।
उ० उद्वपति । देवस्त्वा । बृहती उख्या । देवः त्वा त्वां भवतीम् उद्वपतु प्रकाशीकरोतु । सुहस्तः स्वङ्गुरिः शोभनाङ्गुलिः । लकारस्य रेफश्छान्दसः। सुबाहुः सुभुजः । उत शक्त्या शक्त्या अपि बुद्ध्यति । उतशब्दः समुच्चयार्थः । उद्वपतीत्यनुवर्तते । त्वं च सवित्रा उद्वप्ता सती अव्यथमाना अचलन्ती । पृथिव्याम् आस्थिता आशा दिशो विदिशश्च आ पृण आपूरय आहुतिरसेन ॥ ६३ ॥
म० 'उद्वपति श्रपणं देवस्त्वेति' ( का० १६ । ४ । १८-१९)। भस्मीभूतं श्रपणमुखायाः पराकरोतीति सूत्रार्थः । सवितृदेवत्या बृहती । हे उखे, सविता देवः शक्त्या स्वसामर्थ्येन उत अपि बुद्ध्या च त्वा त्वामुद्वपतु श्रपणाच्छादनात्प्रकाशीकरोतु । उतशब्दाद् बुद्धिरध्याहार्या । कीदृशः सविता । सुपाणिः शोभनौ पाणी हस्तौ यस्य स सुपाणिः । स्वङ्गुरिः शोभना अङ्गुलयः करस्था यस्य स स्वङ्गुलिः । लकारस्य रेफश्छान्दसः । सुबाहुः शोभनौ बाहू भुजौ यस्य स सुबाहुः । मणिबन्धादुपरिभागो बाहुः अधोभागः पाणिः । 'उखामुत्तानां करोत्यव्यथमानेति' (का० १६ । ४ । १९–२०)। श्रपणमपाकृत्याषाढां बहिर्निष्काश्योखामुत्तानामूर्ध्वमुखीं करोतीति सूत्रार्थः । हे उखे, सवित्रा उदुप्ता सती अव्यथमाना अचलन्ती व्यथामनाप्नुवन्ती पृथिव्यां स्थिता सती त्वमाशाः प्राच्यादिदिशः आग्नेय्यादिविदिशश्च आपृण आपूरय । आहुतिरसेनेति शेषः ॥ ६३ ॥

चतुःषष्टी।
उ॒त्थाय॑ बृह॒ती भ॒वोदु॑ तिष्ठ ध्रु॒वा त्वम् ।
मित्रै॒तां त॑ उ॒खां परि॑ ददा॒म्यभि॑त्त्या ए॒षा मा भे॑दि ।। ६४ ।।
उ० उद्यच्छति । उत्थाय बृहती पूर्वोर्ध उख्य उत्तरो मैत्रः। एतस्माद्यजनस्थानादुत्थाय बृहती महती भव । तत उदुत्तिष्ठ प्रवर्तस्व स्वकीये कर्मणि । यतस्त्वं ध्रुवा स्थिरासि स्वभावतः परिगृह्य पात्रे करोति । मित्रैतां त इति । हे मित्र, एतां ते तव उखां परिददामि प्रयच्छामि । किमर्थम् । अभित्त्यै अभेदनाय। एषा च उखा त्वया गृहीता सती मा भेदि मा भिद्यताम् ॥ ६४॥
म० 'उद्यच्छत्युत्थायेति परिगृह्य' (का० १६।४।२१-२२)। हस्ताभ्यामुखामादाय पाकादूर्ध्वं निष्काशयतीति सूत्रार्थः । बृहती पूर्वोऽर्धर्च उखादेवत्यः उत्तरार्धो मित्रदेवत्यः । हे उखे, त्वमुत्थायैतस्मादवटाद्बहिरागत्य बृहती महती भव । तत

-