पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रति इयर्तीति अर्वा । पृथुः पृथुश्च भव । सुषदः स्वस्थेयश्च भव । यतस्त्वग्नेः पुरीषवाहणः पुरीषं पशव्यं यवसं वहतीति पुरीषवाहणो रासभः ॥ ४४ ॥
म. रासभदेवत्यानुष्टुबुष्णिग्वा । इयर्ति प्रतिपदार्थं गच्छतीत्यर्वा रासभः हे अर्वन् गमनकुशल, स्थिरः चलनरहितः सन् त्वं वीड्वङ्गः दृढकायो भव । वीडुशब्दो दृढार्थः । वीडून्यङ्गानि यस्य सः । आशुः वेगवान्सन् वाजी अन्नहेतुर्भव । पृथुः विस्तीर्णः सन् अग्नेः सुषदः सुखासनः स्वास्थेयो भव । सुखेन सद्यते स्थीयते यस्मिन्स सुषदः । कीदृशस्त्वम् । पुरीषवाहणः पुरीषशब्देन पांशुरूपा मृदुच्यते तां वहतीति पुरीषं पशव्यं यवसं वहतीति वा पुरीषवाहणः । 'कव्यपुरीषपुरीष्येषु ञ्युट्' (पा० ३ । २ । ६५) इति ञ्युट्प्रत्ययः ॥ ४४ ॥

पञ्चचत्वारिंशी।
शि॒वो भ॑व प्र॒जाभ्यो॒ मानु॑षीभ्य॒स्त्वम॑ङ्गिरः ।
मा द्यावा॑पृथि॒वी अ॒भिशो॑ची॒र्माऽन्तरि॑क्षं॒ मा वन॒स्पती॑न् ।। ४५ ।।
उ० अजमभिमन्त्रयते । शिवो भव । अनुष्टुप् बृहती वा। हे अज, शिवः शान्तो भव । प्रजाभ्यो मानुषीभ्योऽर्थाय त्वम् हे अङ्गिरः । 'अङ्गिरा वा अग्निराग्नेयोऽजः' इति श्रुतिः । मा च त्वं द्यावापृथिवी अभिशोचीः अभिसंतापयेः । मा वान्तरिक्षं मा च वनस्पतीन् ॥ ४५ ॥
म० अजदेवत्या पथ्याबृहती । अङ्गिरोभिर्ऋषिभिः पूर्वं संपादितत्वात् अङ्गसौष्ठवाद्वा अङ्गिरा अग्निः तत्संबोधनं हे अङ्गिर अग्निरूप अज, मानुषीभ्यः मनोः संबन्धिभ्यः प्रजाभ्योऽर्थे त्वं शिवः शान्तो भव । 'अङ्गिरा वा अङ्गिराग्नेयोऽजः' (६ । ४ । ४ । ४) इति श्रुतेः । किंच द्यावापृथिवी मा अभिशोचीः मा संतापय । तथान्तरिक्षं माभिशोचीः । तथा वनस्पतीन्माभिशोचीः ॥ ४५ ॥

षट्चत्वारिंशी।
प्रैतु॑ वा॒जी कनि॑क्रद॒न्नान॑द॒द्रास॑भ॒: पत्वा॑ । भर॑न्न॒ग्निं पु॑री॒ष्यं᳔ मा पा॒द्यायु॑षः पु॒रा ।
वृषा॒ग्निं वृष॑णं॒ भर॑न्न॒पां गर्भ॑ᳪ समु॒द्रिय॑म् । अग्न॒ आ या॑हि वी॒तये॑ ।। ४६ ।।
उ० एतेषां पशूनामुपरिष्टात्प्रगृह्णाति । प्रैतु वाजी । त्र्यवसाना महापङ्क्तिः । अर्धर्चावश्वदेवत्यौ । प्रकर्षेण एतु आगच्छतु वाजी अश्वः । कनिकदन् अत्यर्थं ह्रेषितशब्दं कुर्वन् अयं च रासभोऽश्वयवसवाहनार्थं प्रकर्षेण एत्वागच्छतु नानदत्। सोपहासमुच्यते । गर्दभरटितेन सर्वा दिशो नादयन् रासभः पत्वा पतनशीलः । 'यदश्वस्य यजुषि रासभं निराह तद्रासभे शुचं दधाति' इति श्रुतिः । भरन्नग्निं पुरीष्यम् अयं चाश्वो भरन्धारयन् अग्निं पुरीष्यं पशव्यम् मा पादि मा विनश्यतु । आयुषः पुरा । आयुश्शब्देन शक्त्यात्र कर्माभिहितम् । यज्ञसंयोगेन हि अश्वादीनां स्तुतिः । आयुषः पुरा आसमाप्तेः कर्मणः रासभ उच्यते । वृषा सेक्ता । अग्निं वृषणं सेक्तारम् । आहुतिपरिणाममभिप्रेत्योक्तम् । भरन्धारयन् । अपां गर्भम् अपांमध्येऽवस्थानाद्गर्भ उच्यते । समुद्भियम् 'यो ह वै समुद्रा अग्निर्यजुषां महाव्रतं साम्नां महदुक्थमृचाम्' इत्येतदभिप्रायम् । तत्र भवः समुद्रियः। स्वरादाहरति । अग्ने आयाहि एकपदाग्नेयी गायत्री । हे अग्ने, आगच्छ वीतये हविरुपभोगाय ॥ ४६॥
म० 'धारयत्येषामुपरि पिण्डमनुपस्पृशन् प्रेतु वाजी वृषाग्निमित्यश्वखरयोरिति' (का० १६ । ३ । १०)। अश्वादीनामुपरि पिण्डं धारयति तानस्पृशन्प्रैतु वाजीत्यश्वोपरि वृषाग्निमिति खरोपरीति सूत्रार्थः । महापङ्क्तिस्त्र्यवसाना अष्टार्णषट्पादा महापङ्तिः त । आद्यावर्धर्चावश्वदेवत्यौ तृतीयोऽर्धर्चो रासभदेवत्यः तृतीयतुर्यौ पादौ व्यूह्यौ । वाजी अश्वः प्रैतु प्रकर्षेण गच्छतु । किं कुर्वन् । कनिक्रदन् अत्यर्थं हेषितशब्दं कुर्वन् । यङ्लुगन्तम् । रासभश्च प्रैतु यवसवाहनार्थम् । किं कुर्वन् । नानदत् सोपहासमुच्यते । गर्दभरटितेन सर्वा दिशो नादयन् । यङ्लुगन्तम् । कीदृशो रासभः । पत्वा पतनशीलः । 'पत्लृ गतौ' इत्यस्मात् 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३ । २ । ७५) इति | क्वनिप् । अश्वमन्त्रे रासभोपादानं रासभोपहासार्थम् । तथा च श्रुतिः 'यदश्वस्य यजुषि रासभं निराह तद्रासभे शुचं दधातीति' (६ । ४ । ४ । ७)। किंच अयमश्वः पुरीष्यं पशव्यमग्निं भरन्धारयन् । आयुषः पुरा कर्मणः पूर्वं । मा पादि मा विनश्यतु । कर्मसमाप्तिपर्यन्तं जीवत्वित्यर्थः । आयुःशब्देन श्रुत्या कर्मोक्तम् । यज्ञसंबन्धेनैवाश्वादीनां स्तुतिः क्रियते । अथ रासभमन्त्रः । वृषा सेक्ता रासभः अग्निं भरन्धारयन्सन् प्रैतु इति शेषः । कीदृशमग्निम् । वृषणं सेक्तारं फलाभिवर्षणसमर्थम् । आहुतिपरिणामेनेति भावः । अपां गर्भम् । जलमध्येऽवस्थानादेवमुच्यते । मेघस्थानां जलानां मध्ये विद्युद्रूपं वा । समुद्रियं समुद्रे वडवाग्निरूपेणोत्पन्नम् । यद्वा समुद्रे अग्निचयने भवः समुद्रियः तम् । 'त्रयो ह वै समुद्रा अभिर्यजुषां महाव्रतᳪ साम्नां महदुक्थमृचाम्' इति श्रुतेः । 'अग्न आयाहीत्याहृत्य खराच्छागस्यर्तᳪ सत्यमित्या निधानात्' (का० १६ । ३ । ११)। अग्न इति मन्त्रेण रासभात्पिण्डमाहृत्य ऋतं सत्यमिति मन्त्रेणाजस्योपरि पिण्डं धारयेत् परिवृते निधानपर्यन्तमिति सूत्रार्थः । एकपदा गायत्री अग्निदेवत्या । हे अग्ने, वीतये हविर्भक्षणाय आयाहि आगच्छ ॥ ४६॥

सप्तचत्वारिंशी। .
ऋ॒तᳪ स॒त्यमृ॒तᳪ स॒त्यम॒ग्निं पु॑री॒ष्य॒मङ्गिर॒स्वद्भ॑रामः ।
ओष॑धय॒: प्रति॑ मोदध्वम॒ग्निमे॒तᳪ शि॒वमा॒यन्त॑म॒भ्यत्र॑ यु॒ष्माः ।
व्यस्य॒न् विश्वा॒ अनि॑रा॒ अमी॑वा नि॒षीद॑न्नो॒ अप॑ दुर्म॒तिं ज॑हि ।। ४७ ।।