पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रवष्टभ्य अशस्तीः। पाप्मनो दुष्टान् अगमने को गुण इति चेत् । रुद्रस्य भगवतो गाणपत्यम् गणपतित्वं लप्स्यस इति शेषः । अतो मयोभूः सुखस्य भावयिता भूत्वा एहि । रासभमुत्क्रामयति । उर्वन्तरिक्षं वीहि । उरु विस्तीर्णमन्तरिक्षं रक्षोभिरनाकुलितं वि इहि विविधमागच्छ । स्वस्तिगव्यूतिः स्वस्तीत्यविनाशनाम । गव्यूतिर्मार्गः भयवर्जितः । प्रभूतयवसोदकमार्गः सन् त्वम् अभयानि कृण्वन् कुर्वन् ऋत्विग्यजमानानाम् । पूष्णा पृथिव्या सयुजा समानयोगिन्या सह । सहेति 'नैकोऽध्वानं प्रपद्येत' इत्येतद्दर्शयति ॥ १५ ॥
म० 'अनुपस्पृशन्नुत्क्रामयत्येनान् प्राचः प्रतिमन्त्रं प्रतूर्वन्नुर्वन्तरिक्षं पृथिव्याः सधस्थादिति' (का० १६ । २ । ११)। स्पर्शमकुर्वन्नश्वादीन्भयं दर्शयन्प्राचो गमयति । विराड्रूपा त्रिष्टुप् यजुर्मध्या । उर्वन्तरिक्षं वीहीत्येतावद्यजुः । त्रय एकादशाक्षराश्चतुर्थोऽष्टाक्षरः पादो यस्याः सा विराड्रूपा । अत्र द्वितीयो द्वादशार्णस्तेनैकाधिका । ऋचो मध्ये यजुः । अस्याः पूर्वार्धस्याश्वो देवता । हे अश्व, त्वमेहि आगच्छ । किं कुर्वन् । प्रतूर्वन् तूर्वतिर्वधकर्मा । शत्रून् हिंसन् । अशस्तीः भ्रातृव्यैः क्रियमाणा अपकीर्तीरवक्रामन् पादैरवष्टम्भयन्निवारयन्नित्यर्थः । आगमने को गुण इति चेत् । मयोभूः मयः सुखं भावयतीति मयोभूः अस्माकं सुखं भावयन् सन् रुद्रस्य क्रूरदेवस्य गणवतो गाणपत्यं गणपतित्वमेहि आ समन्तात् प्राप्नुहि । अत्रागमने गणपतित्वं लप्स्यस इति भावः । उर्वन्तरिक्षम् यजुःसहितोत्तरार्धस्य रासभोत्क्रमणे विनियोगः । हे गर्दभ, अभयानि कृण्वन् ऋत्विग्यजमानानां व्याघ्रादिभ्यो भयपरिहारं कुर्वन् सयुजा समानयोगिन्या पूष्णा पृथिव्या सह उरु विस्तीर्णमन्तरिक्षं वीहि विशेषेण प्राप्नुहि । 'इयं वै पृथिवी पूषा' (६ । ३ । २ । ८) इति श्रुतेः । सह युङ्क्ते सा सयुक् तया । किंभूतस्त्वम् । स्वस्तिगव्यूतिः । स्वस्तीत्यविनाशनाम । स्वस्ति विनाशरहितो गव्यूतिर्मार्गो यस्य । भयवर्जितप्रभूतयवसोदकमार्गः सन्नागच्छेत्यर्थः । 'नैकोऽध्वानं प्रपद्येत' इति न्यायात्पूष्णा सहेत्युक्तिः ॥१५॥

षोडशी
पृ॒थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॒मङ्गिर॒स्वदा भ॑रा॒ग्निं पु॑री॒ष्य॒मङ्गिर॒स्वदच्छे॑मो॒ ऽग्निं पु॑री॒ष्य॒मङ्गिर॒स्वद्भ॑रिष्यामः ।। १६ ।।
उ० अजमुत्क्रामयति । पृथिव्याः सधस्थात् पृथिव्याः सहस्थानात् । अग्निम् व्याख्यातम् । ब्रह्माध्वर्युयजमाना गच्छन्ति । अग्निं पुरीष्यम् 'अच्छाभेराप्तमिति शाकपूणिः' । अग्निं पशव्यम् अङ्गिरा इव अभिगच्छामः । यद्वा आप्तुं गच्छामः अनद्धा पुरुषमीक्षते । अग्निं पशव्यम् अङ्गिरा इव संभरिष्यामः ॥ १६॥
म० अजोत्क्रमणे विनियोगः । यजुः । आसुरी गायत्री आग्नेयी । हे अभ्रे, पृथिव्याः भूमेः सधस्थात् सहस्थानात् पुरीष्यं पशव्यमग्निमङ्गिरस्वदङ्गिरस इवाभर आहर । 'अग्निषु प्रज्वलत्सु पिण्डं गच्छन्त्यग्निं पुरीष्यमिति' ( का० १६ । ३ । १२)। त्रिषु अग्निषु दीप्यमानेषु ब्रह्मयजमानाध्वर्यवश्चतुष्कोणश्वभ्रस्थं मृत्तिकापिण्डं प्रति गच्छन्त्यश्वगर्दभाजा अपीति सूत्रार्थः । सामगायत्री छन्दः । पुरीष्यं पशव्यमग्निमङ्गिरस इव वयमच्छेम अच्छ अभिमुखमिमः गच्छामः । 'अच्छाभेराप्तुमिति शाकपूणिः' (निरु० ५। २८) इति यास्कः । 'अनद्धा पुरुषमीक्षते देवपितृमनुष्यानर्थकमग्निं पुरीष्यमिति' (का० १६ । २ । १४ ) देवपितृमनुष्याणां निष्प्रयोजनोऽनद्धा पुरुषस्तं पश्यतीति सूत्रार्थः । आग्नेयं यजुः । आसुर्यनुष्टुप् । पशव्यमग्निमङ्गिरस इव वयं भरिष्यामः संपादयिष्यामः ॥१६॥

सप्तदशी।
अन्व॒ग्निरु॒षसा॒मग्र॑मख्य॒दन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः ।
अनु॒ सूर्य॑स्य पुरु॒त्रा च॑ र॒श्मीननु॒ द्यावा॑पृथि॒वी आ त॑तन्थ ।। १७ ।।
उ० वल्मीकवपामादाय छिद्रेण पिण्डमीक्षते । अन्वग्निः आग्नेयी त्रिष्टुप् । प्रजापतिरूपेणात्राग्निः स्तूयते । उषसामग्रम् अनु योग्निः अख्यत् । 'ख्या प्रकथने' । प्रकथितः। उषसामग्रमादित्यं योग्निर्दीप्यत इत्यर्थः । यश्च अहान्यनुदीप्यते । प्रथमः आद्यः जातवेदाः जातप्रज्ञानः । अनुसूर्यस्य पुरुत्रा च रश्मीन् । यश्च सूर्यस्य रश्मीन् अनु पुरुत्रा बहुधा दीप्यते । अनुद्यावापृथिवी आततन्थ । यश्च द्यावापृथिव्यावनु स्वकीयं रश्मिजालम् आततन्थ आतनोति । 'बभूथाततन्थ-' इति छन्दसि निपात्यते । तमग्निं पश्याम इति शेषः ॥ १७ ॥
म० 'वल्मीकवपामादाय छिद्रेण पिण्डमीक्षतेऽन्वग्निरिति' (का० १६ । २ । १५)। वल्मीकस्य योऽवयव उन्नतत्वेनाभिवृद्धः सा वल्मीकवपा पिण्डाहवनीयान्तराले स्थापितास्ति तां गृहीत्वा तत्स्थाने स्थित्वा तच्छिद्रेण पिण्डं पश्यतीति | सूत्रार्थः । अग्निदेवत्या त्रिष्टुप्पुरोधोदृष्टा प्रथमस्य व्यूहनम् । अग्निरुषामुषःकालानामग्रमुपक्रममन्वख्यत् अनुक्रमेण प्रका शितवान् । जातं जातं वेत्ति वेदयति वा जादवेदाः अयमग्निः प्रथमः मुख्यः सन् अहानि दिनानि अन्वख्यत् । किंच सूर्यस्य रश्मीन् किरणान् पुरुत्रा बहुधा अन्वख्यत् । किंच द्यावापृथिवी उभे अपि अनुक्रमेण आततन्थ आतेनिथ आततान सर्वतो व्याप्तवान् । 'व्यत्ययो बहुलम्' (पा० ३ । १ । ८५) इति पुरुषव्यत्ययः 'बभूथाततन्थ-' (पा० ७ । २ । ६४) इत्यादिना निपातः । सर्वप्रकाशको लोकस्रष्टा योऽग्निस्तं पश्याम इति शेषः ॥ १७ ॥

अष्टादशी।
आ॒गत्य॑ वा॒ज्यध्वा॑न॒ᳪ सर्वा॒ मृधो॒ वि धू॑नुते । अ॒ग्निᳪ स॒धस्थे॑ मह॒ति चक्षु॑षा॒ नि चि॑कीषते ।। १८ ।।