पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सत्यं ब्रह्म जयतीति । धनजितं धनं गवादि फलरूपेण यो जयति संपादयतीति धनजित् । स्वर्जितं स्वः स्वर्गं जयति फलत्वेन संपादयतीति स स्वर्जित्तम् । किंच ऋचा स्तोमम् गायत्री अवसानरहिता यजुरन्ता स्वाहेति यजुः । हे सवितः, ऋचा स्तोत्रहेतुसामाधारभूतया ऋचा सह स्तोमं त्रिवृदादिकं समर्धय समृद्धं कुरु । गायत्रेण साम्ना सह रथन्तरं साम समर्धय बृहत् साम च समर्धय । कीदृशं बृहत् । गायत्रवर्तनि गायत्रं सामैव वर्तनिर्मार्गो यस्य तत् । बृहत्साम्नो गायत्रं साम वर्त्मभूतमित्यर्थः ॥ ८ ॥

नवमी।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
आद॑दे गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वत्पृ॑थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॒मङ्गिर॒स्वदा भ॑र॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वत् ।। ९ ।।
उ०. अभ्रिमादत्ते देवस्य त्वा । व्याख्यातम् । आददे गृह्णामि अहं गायत्रेण छन्दसा । अङ्गिरस्वत् अङ्गिरसा तुल्यमङ्गिरोवदिति प्राप्ते 'अयस्मयादीनि छन्दसि' इति भसंज्ञा । श्रुतौ तु अग्निवदिति व्याख्यातम् । अभ्रिरुच्यते । त्वं च गृहीता सती पृथिव्याः सधस्थात्समानस्थानात्। अग्निं पुरीष्यं पशव्यम् । अङ्गिरस्वदाभर अङ्गिरसा तुल्यम् अग्निवद्वा आभर । 'हृग्रहोर्भश्छन्दसि' इति हकारस्य भकारः । आहर त्रैष्टुभेन छन्दसा अङ्गिरस्वत् ॥ ९॥
म०. 'देवस्य त्वेत्यभ्रिमादाय हस्त अधायेत्येनामभिमन्त्रयते' (का० १६ । २।८)। अस्यार्थः । देवस्य त्वेति कण्डिकाद्वयात्मकमन्त्रेण वैणवीमभ्रिमादाय हस्त आधायेति ऋचा (क. ११) एनामभ्रिमभिमन्त्रयते । देवस्य त्वा प्रजापतिः साध्या वा ऋषयः सावित्रं यजुः । व्याख्यातम् । आददे अभ्रिर्देवता अतिधृतिश्छन्दः । हे अभ्रे, सवितुर्देवस्य प्रसवे प्रेरणे सति अश्विनोः संबन्धिभ्यां मणिबन्धपर्यन्ताभ्यां बाहुभ्यां पूष्णः संबन्धिभ्यां साङ्गुलिभ्यां हस्ताभ्यां साधनभूताभ्यां गायत्रेण छन्दसा सहायभूतेन युक्तः सन् त्वा त्वामाददे गृह्णामि । तत्र दृष्टान्तः । अङ्गिरस्वत् अङ्गिरोभिस्तुल्यमङ्गिरोवदिति प्राप्ते 'अयस्मयादीनि छन्दसि' (पा० १। ४ । २०) इति भसंज्ञायामङ्गिरस्वदिति रुत्वाभावः । आङ्गिरस ऋषयः पूर्वं यथा त्वामगृह्णन् तद्वत् । हे अभ्रे, त्वं गृहीता सती पृथिव्याः सधस्थात् सहस्थानादुत्सङ्गात् अग्निमाभर आहर 'हृग्रहोर्भश्छन्दसि' (पा० ८ । २ । ३२ वा० १) इति हस्य भः । त्रैष्टुभेन छन्दसा कृत्वा अङ्गिरस्वत् अङ्गिरसो यथाग्निमाजह्रुः पुनरङ्गिरस्वदिति दृष्टान्तार्थातिशयार्थः ‘अभ्यासे भूयांसमर्थं मन्यन्ते' (निरु० १० । ४२) इति यास्कोक्तेः । किंभूतमग्निम् । पुरीष्यं 'पशवो वै पुरीषम्' (६ । ३ । १ । ३८) इति श्रुतेः पुरीषेभ्यः पशुभ्यो हितः पुरीष्यस्तं पशव्यम् । यद्वा पुरीषशब्देन पांशुरूपा शुष्का मृदुच्यते तदर्हतीति पुरीष्योऽग्निः मृदमादायोखां कृत्वा तस्यामग्निः स्थाप्यते यतोऽतो मृदग्न्योरभेदोपचारेण मृदाहरणमेवाग्यादरहरणमित्यभिप्रायेण पुरीष्यमग्निमाहरेत्युच्यते । अयं चोपचारोऽग्निचयनप्रकरणे सर्वत्रानुवर्तिष्यते ॥ ९ ॥

दशमी।
अभ्रि॑रसि॒ नार्य॑सि॒ त्वया॑ व॒यम॒ग्निᳪ श॑केम॒ खनि॑तुᳪ स॒धस्थ॒ आ । जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वत् ।।१० ।।
उ० अभ्रिरसि । नारी स्त्री त्वमसि । किंच त्वया वयम् अग्निं शकेम । खनितुं सधस्थे आ । समानस्थानेषु वर्तमानं पृथिव्याः । आकारोऽनर्थकः । जागतेन छन्दसा अङ्गिरस्वत् ॥ १०॥
म० त्वमभ्रिरसि उखां निर्मातुं मृत्खननहेतुभूतकाष्ठविशेषोऽसि । नारी असि स्त्रीरूपा चासि । यद्वा न विद्यते अरिः शत्रुर्यस्याः सा नारी । ईष् छान्दसः । खननकाले अश्मादिना तव कुण्ठीभावो नास्तीत्यर्थः । किंच त्वया युक्ता वयं सधस्थे पृथिव्या उत्सङ्गे वर्तमानमग्निं जागतेन छन्दसा खनितुं शकेम शक्ता भवेम । शक्नोतेर्व्यत्ययेन शप् । अङ्गिरस्वदिति दृष्टान्तः पूर्ववत् ॥ १० ॥

एकादशी।
हस्त॑ आ॒धाय॑ सवि॒ता बिभ्र॒दभ्रि॑ᳪ हिर॒ण्ययी॑म् । अ॒ग्नेर्ज्योति॑र्नि॒चाय्य॑ पृथि॒व्या अध्याऽभ॑र॒दानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वत् ।। ११ ।।
उ० अभ्रिमभिमन्त्रयते । हस्त आधाय । अनुष्टुप् यजुरन्ता । आनुष्टुभेनेत्यादि यजुः । हस्ते अभ्रिमाधाय सविता ततस्तामेवाभ्रिं बिभ्रत् धारयन् । हिरण्ययीममृतमयीं छन्दोमयीं वा । अग्नेर्ज्योतिर्निचाय्य निभाल्य दृष्ट्वा । ततः पृथिव्या अपि सकाशात् आभरत् आहृतवान् आनुष्टुभेन छन्दसाङ्गिरस्वत् ॥ ११ ॥
म० अनुष्टब्यजुरन्ता । आनुष्टुभेनेत्यादि यजुस्तस्य यजुषस्त्रिष्टुप्छन्दः । तृतीयचतुर्थपादयोर्व्यूहेन पूर्तिः । अभ्रिदेवत्या । सविता प्रेरकः प्रजापतिर्हस्ते हिरण्ययीं स्वर्णरूपामभ्रिमाधाय स्थापयित्वा बिभ्रत् तामेव धारयन्सन् अग्नेः संबन्धि ज्योतिर्निचाय्य निश्चित्य दृष्ट्वा पृथिव्याअधि भूमेः सकाशात् आनुष्टुभेन छन्दसा आभरत् आहृतवान् । अङ्गिरस्वदिति पूर्ववत्॥११॥

द्वादशी
प्रतू॑र्तं वाजि॒न्ना द्र॑व॒ वरि॑ष्ठा॒मनु॑ सं॒वत॑म् । दि॒वि ते॒ जन्म॑ पर॒मम॒न्तरि॑क्षे॒ तव॒ नाभि॑: पृथि॒व्यामधि॒ योनि॒रित् ।। १२ ।।