पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्त ऋषयो ब्राह्मणाश्चोच्यन्ते । वामर्थे पूर्व्यं पुरातनं ब्रह्म ब्राह्मणजातिं नमोभिरन्नैर्युजे योजयामि । अन्नैर्विप्रांस्तर्पयामीत्यर्थः । किमर्थमिति चेत् सूरेः पण्डितस्य यजमानस्य श्लोकः कीर्तिर्व्येतु विविधं गच्छतु लोकद्वयं व्याप्नोतु । 'व्यवहिताश्च' (पा० १ । ४ । ८२) इति वि एतु अनयोर्व्यवधानम् । तत्र दृष्टान्तः । पथ्या इव पथोऽनपेता पथ्या यज्ञभागप्रवृत्ता आहुतिर्यथा लोकद्वयं व्याप्नोति एवं यजमानस्य श्लोकं उभयलोकसंचारी भवत्विति भावः । किंच अमृतस्य मरणधर्मरहितस्य प्रजापतेः पुत्रा विश्वे सर्वे देवा यजमानस्य श्लोकं शृण्वन्तु । के । ये दिव्यानि दिवि भवानि स्थानानि आतस्थुः अधिष्ठितवन्तः ते सर्वेऽस्य कीर्तिं शृण्वन्वित्यर्थः ॥५॥

षष्ठी।
यस्य॑ प्र॒याण॒मन्व॒न्य इद्य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मोज॑सा ।
यः पार्थि॑वानि विम॒मे स एत॑शो॒ रजा॑ᳪसि दे॒वः स॑वि॒ता म॑हित्व॒ना ।। ६ ।।
उ० यस्य प्रयाणम् । जगती । सवितैव प्रजापतिरत्राभिप्रेयते । व्यवहितपदप्रायमिदं मन्त्रवाक्यम् । यस्य देवस्य प्रयाणं अनु प्रगमनमनु अन्ये देवा ययुः जग्मुः । इच्छब्दोऽनर्थकः । महिमानमोजसा। महिमानं महाभाग्यं विभूतिम् । ओजसा बलेन ययुर्देवाः । यश्च सविता देवः पार्थिवानि रजांसि विममे । 'लोका रजांस्युच्यन्ते' । पृथिवीप्रभृतीन् लोकान्मिमीते महित्वना स्वकीयेन महाभाग्येन । स एतशः एतज्जगत्स्थावरजङ्गमं प्राणभावेन शेत इति सविता एतश इत्युच्यते । यद्वा एतश इत्यश्वनामसु पठितम् । सोऽश्वरूपेण समस्तमेतज्जगदवष्टभ्य स्थितः । तदुक्तम् 'उषा वा अश्वस्य मेध्यस्य शिरः' इत्यादिना 'सूरादश्वं वसवो निरतष्ट' इति च ॥ ६ ॥
म०. सावित्री जगती प्रथमस्य व्यूहेन पूरणम् । अन्ये देवा यस्य सवितुः प्रयाणं प्रवृत्तिमनुययुरित् अवश्यमनुगच्छन्त्येव । यत्प्रवृत्तिमनुवर्तन्त इत्यर्थः । अन्ये देवा यस्य देवस्य महिमानं महत्त्वं च ओजसा बलेनानुययुः। यश्च सविता पार्थिवानि रजांसि विममे पृथिवीप्रभृतींस्त्रींल्लोकान्मिमीते । 'लोका रजांस्युच्यन्ते' (निरु० ४ । १९) इति यास्कः । स देवः महित्वना स्वकीयेन महाभाग्येन एतशः एतज्जगत्त्रयं स्थावरजङ्गमं प्राणभावेन शेते व्याप्नोतीत्येतशः महेर्महतो भावो महित्वं तेन । भावे छान्दसस्त्वन्प्रत्ययः । यद्वा एतश इत्यश्वनामसु पठितम् । स देव एतशः अश्वरूपेण सर्वं जगदवष्टभ्य स्थितः । 'उषा वा अश्वस्य मेध्यस्य शिरः' (१० । ६ । ४ । १) इति श्रुतेः 'सूरादश्वं वसवो निरतष्टे' ति वक्ष्यमाणत्वाच्च ( अ० २९ का. १३ ॥ ६ ॥

सप्तमी।
देव॑ सवित॒: प्र सु॑व य॒ज्ञं प्र सु॑व य॒ज्ञप॑तिं॒ भगा॑य ।
दि॒व्यो ग॑न्ध॒र्वः के॑त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाचं॑ नः स्वदतु ।। ७ ।।
उ० देवसवितरिति व्याख्यातम् । इयांस्तु विशेषः । वाचस्पतिर्वाचं नः स्वदतु इति । 'वाचा वा इदं कर्म प्राणो वाचस्पतिः' इति ॥ ७ ॥
म० त्रिष्टुप् । व्याख्यातापि (अ० ९ का० १) कथ्यते । हे देव सवितः, यज्ञं प्रसुव प्रकर्षेण प्रेरय यज्ञपतिं यजमानं च भगाय सौभाग्याय प्रसुव । किंच दिव्यो दिवि भवः स्वर्गस्थः केतपूः केतं परचित्ते वर्तमानं ज्ञानं पुनाति शोधयतीति केतपूः ईदृशो गन्धर्वः गां वाचं धारयतीति गन्धर्वः सविता नोऽस्माकं केतं चित्तवर्ति ज्ञानं पुनातु ब्रह्मविवर्तनेन शोधयतु । वाचः वाण्याः पतिः सविता नोऽस्मदीयां वाचं स्वदतु स्वादयतु। | अस्मदुक्ता वाक्तस्मै रोचतामित्यर्थः ॥ ७ ॥

अष्टमी।
इ॒मं नो॑ देव सवितर्य॒ज्ञं प्रण॑य देवा॒व्य॒ᳪ सखि॒विद॑ᳪ सत्रा॒जितं॑ धन॒जित॑ᳪ स्व॒र्जित॑म् ।
ऋ॒चा स्तोम॒ᳪ सम॑र्धय गाय॒त्रेण॑ रथन्त॒रं बृ॒हद्गा॑य॒त्रव॑र्तनि॒ स्वाहा॑ ।। ८ ।।
उ० इमं नो देव । आ अवसानाद्यजुः । इमं यज्ञं नोस्माकं हे देव सवितः, प्रणय प्रापय । कथंभूतं यज्ञम् । देवाव्यम् देवा यस्मिन्नव्यन्ते तर्प्यन्ते स देवाव्यः । सखिविदम् सखायो यस्य विद्यन्ते स सखिवित्, सखीन्वा यो विन्दते स सखिवित् तं सखिविदम् । सत्राजितम् । सत्राशब्दः सत्यवचनः। सत्यं ब्रह्म यो जयति स सत्राजित् तं सत्राजितम् । धनं यो गवादि जयतीति धनजित् तं धनजितम् । स्वर्गलोकं यो जयति स स्वर्जित् तं स्वर्जितं । ऋचा स्तोमम् गायत्र्यनवसानया ऋचा ऋग्वेदेन सह स्तोमं त्रिवृदादि समर्धय । गायत्रेण साम्ना सह रथन्तरं समर्धय । बृहत् महत् । कथंभूतं महत् । गायत्रवर्तनि गायत्रं यस्य बृहतो वर्तनि वर्त्मभूतम् ॥ ८॥
म० अवसानपर्यन्तं यजुः तस्य प्राजापत्या जगती छन्दः । हे सवितर्देव, नोऽस्माकमिमं यज्ञं प्रणय प्रापय । कीदृशं । यज्ञम् । देवाव्यं देवा अव्यन्ते तर्प्यन्ते यस्मिन्नसौ देवावीः तम् । 'अव प्रीणनादौ' अस्मादौणादिक ईप्रत्ययः । तथा सखिविदं सखायं स्वनिष्पादकं यजमानं वेत्तीति तम् । 'विद ज्ञाने' | सखीनृत्विजो विन्दते प्राप्नोतीति वा सखिवित्तम् 'विद्लृ लाभे' सखायो विद्यन्ते यस्मिन्निति वा 'विद सत्तायाम्'। सत्राजितं सत्राणि द्वादशाहादीनि जयति वशीकरोतीति सत्रजित्तम् तानि हि चीयमानमग्निमपेक्षन्ते । यद्वा सत्राशब्दः सत्यवाची। सत्रा