पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(पा० ३ । १ । २६ ) इति णिचि जाते ‘ण्यासश्रन्थो युच्' (पा० ३ । ३ । १०७) इति युच्प्रत्यये दंसनेति रूपम् । दृष्टान्तमाह । पुत्रमिव पितरौ यथा मातापितरौ पुत्रं पालयतस्तथाश्विनौ त्वामावथुः । अश्विनाविन्द्रस्य रक्षणं कृतवन्ताविति कथमवगम्यते तत्राह । यदिति । यद्यस्मात्कारणात् हे इन्द्र, त्वं शचीभिः कर्मभिः । नमुचिवधादिकर्माणि कृत्वेत्यर्थः । सुरामं सुष्ठु रमणीयं सोमं व्यपिबः विशेषेण पीतवानसि । पिबतेर्लङि मध्यमैकवचने रूपम् । हे मघवन् धनवन्निन्द्र, यस्माच्च सरस्वती देवी त्वा त्वामभिष्णक् उपसेवते त्वत्कृतसोमपानेन सरस्वतीकृतत्वत्सेवनेन च अश्विनौ त्वामावतुरिति ज्ञायत इत्यर्थः। 'भिष्णज् उपसेवायां' कण्ड्वादिः अस्माल्लङि 'कण्ड्वादिभ्यो यक्' (पा० ३।१।२७) इति प्राप्तस्य यको व्यत्ययेन लुक् 'हल्ड्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल्' (पा०६।१।६८) इति तिपो लुक् 'लुङ्लङ्लृङ्क्ष्वडुदात्तः' (पा० ६।४ । ७१) अडागमः 'वावसाने (पा० ८ । ४ । ५६) इति जकारस्य ककारः अभिष्णगिति रूपम् ॥ ३४ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे । अगमद्दशमोऽध्यायो राजसूयान्तवर्णनः ॥१०॥

एकादशोऽध्यायः।
तत्र प्रथमा
यु॒ञ्जा॒नः प्र॑थ॒मं मन॑स्त॒त्त्वाय॑ सवि॒ता धिय॑: । अ॒ग्नेर्ज्योति॑र्नि॒चाय्य॑ पृथि॒व्या अध्याऽभ॑रत् ।। १ ।।
उ०. अष्टावध्याया अग्निसंबद्धास्तान्प्रजापतिर्ददर्श । साध्या वा ऋषयः प्रजापतेः प्राणभूताः । अथ पञ्चधा दर्शितः 'प्रजापतिः प्रथमां चितिमपश्यत् प्रजापतिरेव तस्या आर्षेयस् । देवा द्वितीयां चितिमपश्यन् त एव तस्या आर्षेयम् । इन्द्राग्नी च विश्वकर्मा च तृतीयां चितिमपश्यन् त एव तस्या आर्षेयम् । ऋषयश्च चतुर्थीं चितिमपश्यन् ऋषय एव तस्या आर्षेयम् । परमेष्ठी पञ्चमीं चितिमपश्यत् परमेष्ठ्येव तस्या आर्षेयमिति' । अथवा प्रतिकर्मदर्शी नः सवितैतानि सावित्राण्यपश्यदिति । युञ्जानः प्रथमं मनः । अष्टौ कण्डिकाः सवित्रा दृष्टाः सवितृदेवत्याः ताभिः संतताज्याहुतिर्हूयते । प्रथमाऽनुष्टुप् । अग्न्यारम्भे सविता युञ्जानः नियुञ्जानः प्रथम मनः ततोऽनन्तरम् तत्वाय । 'तनु विस्तारे' । क्त्वो यप् छान्दस उपजनः । तनित्वा विस्तार्य धियः बुद्धीः । मनसा पर्यालोच्य बुद्ध्याऽवधार्येत्यर्थः । अग्नेर्ज्योतिः अग्निसंबन्धि ज्योतिः । पञ्चसु पशुषु प्रविष्टं निचाय्य उपलभ्य । 'यथा वा अग्निः समिद्धो दीप्यते' इत्यादिना । ततः पशुरूपान्वितायाः पृथिव्या अध्याभरत् अध्याहृतवानग्निं इष्टकां कृत्वा चितवानग्निम् । श्रुतौ प्रजापतिः कर्तोपदिष्टः तदनुकृत्या इदानींतना यजमाना उपदिश्यन्ते प्रजापतिर्वै युञ्जान इति ॥ १॥
म० रमाकान्तं नमस्कृत्य गणेशं शारदां गुरुम् । संहितैकादशाध्याये मन्त्रदीपो वितन्यते ॥ एकादशमारभ्याष्टादशाध्यायपर्यन्तमग्निचयनमन्त्राः । तेषां प्रजापतिर्ऋषिः साध्या ऋषयो वा । सोऽग्निः पञ्चचितियुक्तः प्रथमचितिमन्त्राणां प्रजापतिर्ऋषिः द्वितीयचितेर्देवा ऋषयः तृतीयचितेरिन्द्राग्निविश्वकर्माण ऋषयः । चतुर्थचितेर्ऋषय एवर्षयः । पञ्चमचितिमन्त्राणां परमेष्ठी ऋषिः । तथा च श्रुतिः 'प्रजापतिः प्रथमां चितिमपश्यत् प्रजापतिरेव तस्या आर्षेयं देवा द्वितीयां चितिमपश्यन् देवा एव तस्या आर्षेयमिन्द्राग्नी च विश्वकर्मा च तृतीयां चितिमपश्यंस्त एव तस्या आर्षेयमृषयश्चतुर्थीं चितिमपश्यन्नृषय एव तस्या आर्षेयं परमेष्ठी पञ्चमीं चितिमपश्यत् परमेष्ठ्येव तस्या आर्षेयमिति' ( ६ । २ । ३ । १०)। चयनं कर्तुमिच्छन् फाल्गुनकृष्णप्रतिपदि पौर्णमासेष्टिं कृत्वा पुरुषाश्वगोऽव्यजानालभ्याजेन यागं कृत्वा पञ्चानां शिरांसि घृताक्तानि प्रथमचितावुपधानार्थं क्वचित्संस्थाप्य तेषां कबन्धान्यज्ञशेषं च मृद्युक्ते तडागादिजले प्रास्येत् । उखार्थमिष्टकार्थं च मृदं जलं च तत एवादेयम् । ततः फाल्गुनकृष्णाष्टम्यामुखासंभरणम् । तदर्थमाहवनीयदक्षिणाग्नी उद्धृत्याहवनीयात् प्राक् कृते चतुष्कोणे गर्ते ततस्तडागान्मृत्पिण्डमानीय भूसमं स्थापयेत् । पिण्डाहवनीयान्तराले सच्छिद्रां वल्मीकमृदं निदध्यात् ।आहवनीयाद्दक्षिणदेशेऽश्वगर्दभाजाः प्राङ्मुखाः प्रागपरा मुञ्जरसनाबद्धाः स्थाप्याः । आहवनीयोत्तरे वैण्व्युभयतस्तीक्ष्णा कल्माषी हिरण्मयी वाभ्रिः स्थाप्या। ततः कर्माह 'अष्टागृहीतं जुहोति सन्ततमुद्गृह्णन् युञ्जानः' ! ( का० १६ । २।७) इति । अस्यार्थः । गार्हपत्ये घृतं संस्कृत्य जुहूं स्रुवं च संमृज्य स्रुच्यष्टागृहीतमाज्यमाहवनीये परिस्तरणसमिदाधानपूर्वकं सन्ततमविच्छिन्नधारया स्रुचमूर्ध्वां कुर्वन्नध्वर्युर्जुहोति युञ्जान इत्याद्यष्टकण्डिकाभिः। सान्तत्यं चाष्टर्चान्ते स्वाहाकारपर्यन्तम् । आद्यानुष्टुप् तृतीयः सप्ताक्षरः । अष्टानां सविता ऋषिः देवोऽपि सविता । अथ मन्त्रार्थः । सविता सर्वस्य प्रेरकः प्रजापतिः अग्नेर्ज्योतिः चीयमानस्य वह्नेः सम्बन्धि तेजः निचाय्य पञ्चपशुषु प्रविष्टं निश्चित्योपलभ्य । यद्वा सफलानां कर्मणां साधनभूतं निश्चित्य । पृथिव्याः पशुशरीरान्विताया भूमेः सकाशादध्याभरत् अध्याहृतवान् । इष्टकाः कृत्वाग्निं चितवानित्यर्थः । सवितृशब्देन श्रुतौ प्रजापतिरुक्तः 'प्रजापतिर्वै युञ्जानः' (६।३।१।१२) इति श्रुतेः। किंभूतः । प्रथममग्न्यारम्भे मनो युञ्जानः समादधानः युङ्क्तेऽसौ युञ्जानः । किं कृत्वा । धियो बुद्धीरिष्टकादिविषयाणि ज्ञानानि तत्वाय तनित्वा। निस्तार्य मनसा पर्यालोच्य बुद्ध्यावधार्येत्यर्थः। 'तनु विस्तारे' 'समानकर्तृकयोः पूर्वकाले' ( पा० ६ । ४ । २१) इति क्त्वाप्रत्ययः । अनित्यमागमशासनमितीडागमाभावः । | 'अनुदात्तोपदेश-' (पा० ६ । ४ । ३७) इत्यादिना नलोपः 'क्त्वो यक्' (पा० ७।१। ४७) इति क्त्वाप्रत्ययान्तस्य यगागमः ॥१॥