पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मानाः बर्हिष उपरि स्थिताः नमउक्तिम् । नम इत्यन्ननाम । उक्तिर्वचनम् । हविर्लक्षणं नमोऽन्नमादाय उक्तिं याज्यामभिधाय यजन्ति यागं कुर्वन्ति । उपयामगृहीतोऽसीत्यादि व्याख्यातम् ॥३२॥
म० ‘ग्रहं गृह्णाति कुविदङ्गेति त्रीन् वा प्रतिदेवतमेतयैवेति' ( का० १५ । १० । १२ )। पूतायां सुरायां बदरीफलचूर्णं प्रक्षिप्य कुविदङ्गेत्येकं ग्रहं वैकङ्कतपात्रेण गृह्णाति । यद्वा कुविदङ्गेत्यृचैव त्रीन् ग्रहान्प्रतिदेवतं गृह्णाति । यथा । कुविदङ्ग उपयामगृहीतोऽस्यश्विभ्यां त्वेति प्रथमम् । कुविदङ्ग० उपयामगृहीतोऽसि सरस्वत्यै त्वेति द्वितीयम् । कुविदङ्ग० उपयामगृहीतोऽसीन्द्राय त्वा सुत्राम्ण इति तृतीयम् । तृचं काक्षीवतसुकीर्तिदृष्टम् । आद्या सोमदेवत्याऽनिरुक्ता त्रिष्टुप् । कुविदिति बहुनाम । 'अङ्गेति क्षिप्रनाम' ( नि० ५ । १७) चिदिति वितर्के । हे सोम, यथा यवमन्तः । यवा विद्यन्ते येषां ते यवमन्तः । 'मादुपधायाश्च मतोर्वोऽयवादिभ्यः' (पा. ८।२।९) इति यवादीनां निषेधान्मतोर्मकारस्य वकाराभावः । बहुयवसंपन्नाः कृषीवलाः । कुवित् बहुलं यवं सर्वं यवमयं सस्यं चित् विचार्य अनुपूर्वमानुपूर्व्येण वियूय पृथक्कृत्य अङ्गं क्षिप्रं दान्ति लुनन्ति । 'दाप् लवने' लट् । तथा एषां यजमानानां संबन्धीनि भोजनानि भोज्यानि वस्तूनि इह अस्मिन्नेव यजमाने कृणुहि कुरु । एषां केषाम् । ये यजमाना बर्हिष उपरि स्थिता नमउक्तिं यजन्ति । नम इत्यन्ननाम । उक्तिर्वचनम् । हविर्लक्षणमन्नमादाय उक्तिं याज्यामभिधाय यजन्ति यागं कुर्वन्ति । हे सोम, त्वमुपयामेन गृहीतोऽसि अश्विभ्यां त्वा त्वां गृह्णामि सरस्वत्यै त्वां गृह्णामि सुत्राम्णे रक्षकायेन्द्राय त्वां गृह्णामि ॥ ३२॥

त्रयस्त्रिंशी।
यु॒वᳪ सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा॑ । वि॒पि॒पा॒ना शु॑भस्पती॒ इन्द्रं॒ कर्म॑स्वावतम् ।। ३३ ।।
उ० युवं सुरामम् । अनुवाक्या । पुत्रमिव याज्या । अनुष्टुप्त्रिष्टुभौ अश्विसरस्वतीन्द्रदेवत्ये। तत्रेतिहासमाचक्षते। नमुचिर्नामासुर इन्द्रस्य सखिभूत आस । स इन्द्रस्य विश्वस्तस्य सुरया वीर्यं पपौ। सोऽश्विनौ च सरस्वतीं चोपाधावत् । पीतवीर्योऽहं नमुचिना । ततोऽपां फेनं वज्रमसिञ्चत् तेनेन्द्रो नमुचेः शिरश्चिच्छेद । तत्र लोहितमिश्रः सुरासोमोऽतिष्ठत् तदेतदुच्यते । हे अश्विनौ, युवां सुरामम् सुरामयं सोमं सुरमणीयं वा । नमुचौ आसुरे अवस्थितम् । सचा सहभूत्वा एकीभूय । विपिपाना विविधं पिबन्तौ । हे शुभस्पती स्वामिनौ इन्द्रं कर्मसु निमित्तभूतेषु स्वकर्मकरणार्थम् आवतं पालयतम् । स्वकर्मक्षमं कुरुतमित्यर्थः ॥ ३३ ॥
म० 'ग्रहाणां युवᳪ सुरामं पुत्रमिवेति' (का० १५। ६। ८)। युवं सुरामं पुत्रमिवेति द्वे ऋचौ सुराग्रहाणां याज्यानुवाक्ये प्रथमानुवाक्या पुत्रमिवेति याज्या अनुष्टुप् अश्विसरस्वतीन्द्रदेवत्या । हे अश्विना अश्विनौ, युवं युवां कर्मसु निमित्तेषु इन्द्रमावतमपालयतं स्वकर्मक्षममकुरुतमित्यर्थः । अवतेर्लडि मध्यमद्विवचनम् । किंभूतौ युवाम् । असुर एव आसुरस्तस्मिन्नमुचौ नमुचिसंज्ञे आसुरे असुरे दैत्ये स्थितं सुरामं सुष्ठु रमयतीति सुरामं सुष्ठु रमणीयं सोमं सचा सह एकीभूय विपिपाना विपिपानौ विविधं पिबन्तौ विविधं पिबतस्तौ विपिपानौ। पिबतेर्व्यत्ययेन ह्वादित्वे शानच्प्रत्यये रूपम् । तदर्थे श्रुतावितिहासः । (१२ । ३ । ४।१) नमुचिर्नामासुर इन्द्रस्य सखासीत् । स विश्वस्तस्येन्द्रस्य वीर्यं सुरया सोमेन सह पपौ । तत इन्द्रोऽश्विनौ सरस्वतीं चोवाचाऽहं नमुचिना पीतवीर्योऽस्मि ततोऽश्विनौ सरखती चापां फेनरूपं वज्रमिन्द्राय ददुः तेनेन्द्रो नमुचेः शिरश्चिच्छेद ततो लोहितमिश्रः ससुरः सोमस्तदुदरादश्विभ्यां पीत्वा शुद्ध इन्द्रायार्पित इति तदर्पणेनेन्द्रमश्विनावरक्षतामित्यर्थः । पुनः कीदृशौ । शुभः पती शोभनं शुप् ‘शुभ दीप्तौ' इत्यस्मात् संपदादित्वाद्भावे क्विप् तस्य शुभः शोभनस्य कर्मणः पती पालकौ । 'षष्ठ्याः पतिपुत्र' (पा० ८।३ । ४३) इत्यादिना पतिशब्दे परे विसर्गस्य सकारः ॥ ३३ ॥

चतुस्त्रिंशी।
पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भेन्द्रा॒वथु॒: काव्यै॑र्द॒ᳪसना॑भिः । यत्सु॒रामं॒ व्यपि॑ब॒: शची॑भि॒: सर॑स्वती त्वा मघवन्नभिष्णक् ।। ३४ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां दशमोऽध्यायः ॥ १० ॥
उ० पुत्रमिव पितरौ यथा मातापितरौ पुत्रं पालयतः एवमुभावप्यश्विनौ हे इन्द्र, त्वाम् आवथुः । पुरुषव्यत्ययः । त्वां पालितवन्तौ । काव्यैः कविकर्मभिः । मन्त्रदर्शनैरित्यर्थः । दंसनाभिः । दंस इति कर्मनाम । कर्मभिश्च मन्त्रैश्चेत्यर्थः । कथमवगम्यते अश्विनौ त्वां पालितवन्तावित्याह । यत्सुरामं व्यपिबः शचीभिः । यस्मात्त्वं सुरामयं विविधं पीतवानसि । शचीभिः कर्मभिः । नमुचेः शिरश्छेदनं कर्म कृत्वा स्ववीर्येण नह्य दृढ एतत्कर्म कर्तुं शक्त इत्यभिप्रायः। सरस्वती त्वा मघवन्नभिष्णक् सरस्वती च त्वां हे मघवन् धनवन्, अभिष्णक् । अभिष्णक्शब्दः कण्ड्वादिषु पठ्यते तस्यैतद्रूपम् । अभिषज्येताभिषजितवती सरस्वती च त्वाम् ॥ ३४ ॥
इति उवटकृतौ मन्त्रभाष्ये दशमोऽध्यायः ॥ १० ॥
म० त्रिष्टुप् अश्विसरस्वतीन्द्रदेवत्या । हे इन्द्र उभा अश्विना उभौ अश्विनौ त्वामावथुः । अवतेर्लिटि मध्यमद्विवचनं पुरुषव्यत्ययः । आवथुः पालितवन्तौ । कैः । काव्यैः कवीनां मन्त्रद्रष्टॄणां संबन्धिभिर्मन्त्रैः कवीनामिमे काव्यास्तैः । तथा दंसनाभिः । दंस इति कर्मनाम । दंससः करणं दंसना 'तत्करोति तदाचष्टे'