पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिंशी
स॒वि॒त्रा प्र॑सवि॒त्रा सर॑स्वत्या वा॒चा त्वष्ट्रा॑ रू॒पैः पू॒ष्णा प॒शुभि॒रिन्द्रे॑णा॒स्मे बृह॒स्पति॑ना॒ ब्रह्म॑णा॒ वरु॑णे॒नौज॑सा॒ऽग्निना॒ तेज॑सा॒ सोमे॑न॒ राज्ञा॒ विष्णु॑ना दश॒म्या दे॒वत॑या॒ प्रसू॑त॒: प्रस॑र्पामि ।। ३० ।।
उ० सर्पति । सवित्रा प्रसवित्रा । सवित्रा अभ्यनुज्ञातस्य कर्त्रा प्रसूतः प्रसर्पामि । एवं सरस्वत्यादिभिर्योजनीयम् । इन्द्रेणास्मे । अस्मे इति इह तृतीयान्तम् । इन्द्रेण मया । शेष सुबोधम् ॥३०॥
म०. 'पितामहदशगणᳪ सोमपानाᳪ संख्याय सर्पणᳪ सवित्रेति वानुवाकमुक्त्वेति' ( का० १५ । ८ । १५-१६)। पित्रादयः पूर्वजाः पितामहशब्देनोच्यन्ते । ऋत्विजोऽन्ये विप्राश्च मिलिताः शतसंख्याः सन्तो दशपेययागे सौत्येऽहनि प्रतिसवनं सर्पणात्प्राक् स्वं स्वं सोमयाजिनां पित्रादीनां दशानां गणं गणयित्वा अमुकः प्रथमः सोमपः असौ द्वितीयोऽसौ तृतीय इत्यादिदशमपर्यन्तान् सोमयाजिनो गणयित्वा विभूरसीत्यादिसर्पणं धिष्ण्योपस्थानं कुर्वन्ति । सर्पणं भक्षणकाले सदःप्रवेशो वा । पक्षान्तरमाह सवित्रेति । यद्वा सवित्रा प्रसवित्रेत्येककण्डिकात्मकमनुवाकं पठित्वा शतं विप्राः सर्पणं कुर्वन्ति । दशानां सोमयाजिनामसंभवादयमेव पक्षः श्रेयानिति सूत्रार्थः । सवित्रादिदेवत्यात्यष्टिः । एताभिर्दशभिर्देवताभिः प्रसूत आज्ञप्तोऽहं प्रसर्पामि सर्पणं करोमि । प्रत्येकपाठादेकवचनं सर्पामीति । काभिर्दशभिः प्रसूत इत्यत आह । प्रसवित्रा अभ्यनुज्ञानकारिणा सवित्रा सूर्येण । वाचा वाग्रूपया सरस्वत्या । रूपैरुपलक्षितेन त्वष्ट्रा देवेन । 'त्वष्टा रूपाणामधिपतिः' इत्युक्तेः । पशुभिरुपलक्षितेन पूष्णा देवेन । अस्मे अनेन इन्द्रेण । विभक्तेः शेआदेशः । ब्रह्मणा देवयागे ब्रह्मत्वकर्त्रा बृहस्पतिना । ओजसा ओजस्विना वरुणेन । तेजसा तेजस्विना अग्निना । राज्ञा ओषधिविप्राधिपेन दीप्यमानेन वा सोमेन चन्द्रेण । दशम्या दशसंख्यापूरिकया । विष्णुना देवतया यज्ञाधिष्ठात्रा विष्णुरूपेण देवेन । एतैराज्ञप्तः प्रसर्पामीत्यर्थः॥३०॥
इति राजसूयः समाप्तः ॥

एकत्रिंशी।
अ॒श्विभ्यां॑ पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व ।
वा॒युः पू॒तः प॒वित्रे॑ण प्र॒त्यङ्सोमो॒ अति॑स्रुतः । इन्द्र॑स्य॒ युज्य॒: सखा॑ ।। ३१ ।।
उ० इतउत्तरं चरकसौत्रामणीयं । अश्विनोरार्षम् । सुरां संदधाति अश्विभ्यां पच्यस्व । पाको नामान्नविपरिणामः । ज्येष्ठता । सरस्वत्यै इन्द्राय सुत्राम्णे शोभनत्राणाय सुत्रातव्याय वा । भैषज्यं हीन्द्रस्य कर्तव्यं सौत्रामण्या सुरां पुनाति । वायुः पूतः । सौमी गायत्री । यः सोमः वायुना पूतः । सोमः प्रथमं पूतिगन्ध आसीत् । ततो देवैर्वायुरुक्तः अपहृतविरूपगन्धं सोमं कुर्विति । ततो वायुनापहृतः सोमस्य गन्धः । ऐन्द्रवायवब्राह्मणे एतत्प्रतिपादितं तदेतदस्माभिर्व्याख्यातं विभक्तिव्यत्ययेन । यद्वा यो वायुरूपः सोमः पूतः यश्च पवित्रेण प्रत्यङ् नीचैः अधोमुखम् अतिस्रुतः 'सु गतौ' । अतिक्रम्य गतः । स सोमः । इन्द्रस्य युज्यः समानयोगी च । सखा च समानख्यानः । कथमिन्द्रं हिनस्तीति शेषः ॥ ३१ ॥
म० अथ राजसूयगतचरकसौत्रामणीमन्त्रा उच्यन्ते । राजसूयप्रान्ते विहिता सौत्रामणी चरकसौत्रामणीत्युच्यते तन्मन्त्राणामश्विनावृषी । 'पक्त्वौदनं विरूढांचूर्णीकृत्याश्विभ्यां पच्यस्वेति सᳪसृजतीति' ( का० १५ । ९ । २५)। विरूढा जाताङ्कुरा अजाताङ्कुराश्च व्रीहयः क्षौमे बद्धाः सन्ति तन्मध्ये अजाताङ्कुराणां व्रीहीणामोदनं पक्त्वा विरूढान्व्रीहींश्चूर्णीकृत्यौदनेन मिश्रयति । त्रीणि यजूंषि सुरादेवत्यानि । हे सुरे, त्वमश्विभ्यां पच्यस्व अश्विनोरर्थाय पाकं कुरु । पाको नाम विपरिणामश्रेष्ठता। सरस्वत्यै देव्यै पच्यस्व । सुष्ठु त्रायत इति सुत्रामा तस्मै सुत्राम्णे शोभनत्राणकर्त्रे सुत्रातव्याय वा इन्द्राय पच्यस्व । यतः सौत्रामण्येन्द्रस्य भैषज्यं कर्तव्यमस्ति । 'वपामार्जनान्ते कुशैः परिस्रुतं पुनाति वायुः पूत इति' ( का० १५ । १० । १०)। पशूनां वपामार्जनान्ते कर्मणि कृते दर्भैः सुरां कस्मिंश्चित्पात्रे पुनाति । सोमदेवत्या गायत्री । वायुः ‘सुपां सुलुक्' (पा० ७।१ । ३९) इत्यादिना तृतीयैकवचनस्य सु आदेशः। सोमो वायुः वायुना पूतः शोधितः पवित्रेण कुशमयेन पूतः सन् प्रत्यङ् नीचैरधोमुखः सन् अतिस्रुतः अतिक्रम्य गतः। किंभूतः । इन्द्रस्य युज्यो योगार्हः सखा सखिभूतः । 'सोमः पूर्वं पूतिगन्धोऽभूत्ततो देवैर्वायुरुक्तस्त्वं सोमᳪ सुगन्धं कुर्विति ततो वायुना सोमो दुर्गन्धमपहृत्य सुगन्धः कृतः' ( १२ । ७ । ३) | इति श्रुत्योक्तं तदयं मन्त्रो वदतीत्यर्थः ॥ ३१॥ .

द्वात्रिंशी।
कु॒विद॒ङ्ग यव॑मन्तो यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ । इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑उक्तिं॒ यज॑न्ति ।
उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्णे॑ ।। ३२ ।।
उ० ग्रहं गृह्णाति । कुविदङ्ग । अनिरुक्ता सौमी त्रिष्टुप् । । कुविदिति बहुनाम । अङ्गेति क्षिप्रनाम । हे सोम, यथा केचिज्जनपदाः कुविद्बहुक्षेत्रम् अङ्गं क्षिप्रम् । यवमन्तः बहुयवाः। यतः सोमः यवं चित् । चिच्छब्दो वितर्के । यवं वितर्क्य दान्ति । 'दाप् लवने' । लुनन्ति । अनुपूर्वम् आनुपूर्व्येण वियूय पृथक्कृत्य अमिश्रित्य। एवम् इहेहैषां कृणुहि भोजनानि भोग्यानि वस्तूनि । ये बर्हिषो नमउक्तिं यजन्ति । ये यज