पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वर्तिनं कुरु । 'यो वै राजा ब्राह्मणादबलीयानमित्रेभ्यो वै स बलीयान्भवति' इति श्रुतिः ॥ २८॥
म० 'अभिभूरित्यस्मै पञ्चाक्षान्पाणावाधायेति' (का० १५।। ७।५)। यजमानहस्ते द्यूतसाधनभूतान् पञ्चाक्षान् सौवर्णकपर्दान्निदध्यात् । अक्षा यजमानो वा देवता । चतुर्णामक्षाणां कृतसंज्ञा पञ्चमस्य कलिरिति । यदा पञ्चाप्यक्षा एकरूपाः पतन्ति उत्ताना अवाञ्चो वा तदा देवितुर्जयः । तत्र कलिः सर्वानक्षानमिभवति तं प्रत्युच्यते, तत्संबन्धेन यजमानं प्रति वा । हे अक्ष, यद्वा हे यजमान, त्वमभिभूरसि अभिभविता अभितो व्याप्तोसि । एताः कपर्दिकोपलक्षिताः पञ्च दिशः पूर्वादयश्चतस्र ऊर्ध्वा चेति पञ्च दिशः ते त्वदर्थं कल्पन्तां त्वत्प्रयोजनसमर्था भवन्तु । कले: सर्वाक्षाभिभावकत्वात्सुन्वतोऽपि जयापेक्षित्वात् पञ्चाक्षव्यापकत्वमिति भावः । 'वरं वृत्वा ब्रह्मन्नित्यामन्त्रयते पञ्चकृत्वः प्रत्याह व्यत्यासᳪ सविता वरुण इन्द्रो रुद्र इति त्वं ब्रह्मासीत्यादिभिरादिनैवान्त्यमिति' (का० १५ । ७ । ७ । ९) यजमानो राज्यं मेऽस्वित्यादि द्रव्यं संप्रार्थ्य पञ्चवारं ब्रह्मन्निति मन्त्रेण ब्रह्माणमामन्त्रयते । एवमामन्त्रितो ब्रह्मा त्वं ब्रह्मासीत्यादिभिः सवितासि वरुणोऽसि इन्द्रोऽसि रुद्रोऽसीत्येतैर्मन्त्रैर्व्यत्यासं यजमानं प्रत्याह । तेन चतुर्णामपि मन्त्राणामादौ त्वं ब्रह्मासीति प्रयोगः । व्यत्यासमित्यादौ यजमानो ब्रह्मन्नित्यामन्त्रयते । ब्रह्मा त्वं ब्रह्मासि सवितासि सत्यप्रसव इति प्रत्याह । पुनर्यजमानो ब्रह्मन्निति ब्रह्माणमामन्त्रयते । ब्रह्मा त्वं ब्रह्मासि वरुणोऽसि सत्यौजा इति प्रत्याह । पुनर्यजमानो ब्रह्मन्निति ब्रह्माणमामन्त्रयते ब्रह्मा त्वं ब्रह्मासि इन्द्रोऽसि विशौजा इत्याह । पुनर्यजमानो ब्रह्मन्निति ब्रह्माणमामन्त्रयते । ब्रह्मा वं ब्रह्मासि रुद्रोऽसि सुशेव इत्याह । अन्त्यं च पञ्चमं प्रतिवचनमादिनैव त्वं ब्रह्मासीत्येतावतैव कार्यं ब्रह्मणेति सूत्रार्थः । ब्रह्मन् ब्रह्मदेवत्यम् । यजमानः प्रथमं ब्रह्माणमामन्त्रयते । हे ब्रह्मन् , ऋत्विक् , त्वामामन्त्रय इति शेषः । त्वं ब्रह्मासि । पञ्च यजूंषि यजमानदेवत्यानि । ब्रह्मामन्त्रितो यजमानं प्रत्याह हे यजमान, त्वं ब्रह्मासि महान् भवसि सविता प्रेरकश्चासि । सत्यप्रसवः सत्यः प्रसवोऽनुज्ञा यस्य । द्वितीयं प्रत्याह त्वं ब्रह्मासि वरुणोऽनिष्टनिवारकोऽसि । सत्यौजाः सत्यमोजो यस्य अमोघवीर्योऽसि सत्ये वा ओजो यस्य । तृतीयं प्रत्याह त्वं ब्रह्मासि इन्द्रोऽसि ऐश्वर्यवानसि विशौजाः विक्षु प्रजास्वोजस्तेजो यस्य विडोजा इति प्राप्ते विशौजा इति छान्दसम् । अतएव पदकारो नावग्रहं चकार । चतुर्थं प्रत्याह । त्वं ब्रह्मासि रुद्रोऽसि हे राजन्, त्वं रुद्ररूपोऽसि शत्रूणां रोदनाद्द्रावणाच्च । सुशेवः शेव इति सुखनाम । शोभनं शेवः सुखं यस्मात् शोभनं सुखयिता । त्वं ब्रह्मासीत्येतावदेव पञ्चमं प्रतिवचनम् । 'बहुकारेति च ह्वयत्येवंनामानमिति' (का० १५ । ७।१०) । यजमानं बहुकारेत्यादिसुमङ्गलनामानं नरमाकारयति । लिङ्गोक्तदैवतम् । हे बहुकार, बहु कार्यं करोतीति बहुकारः श्रेयः करोतीति श्रेयस्करः भूयो बहुतरं करोतीति भूयस्करः तेषां संबोधनानि हे बहुकारेत्यादि । कल्याणनामन् , त्वामाह्वय इति शेषः । 'स्फ्यमस्मै प्रयच्छति पुरोहितोऽध्वर्युर्वेन्द्रस्य वज्र इति' (का. १५ । ७ । ११)। अस्मै यजमानाय स्फ्यं ददाति द्यूतभूमिकरणाय । स्फ्यदेवत्यम् । हे स्फ्य, इन्द्रस्य वज्रस्त्वमसि । 'इन्द्रो ह यत्र वृत्राय वज्रं प्रजहार' इत्यादि 'तस्य स्फ्यस्तृतीयम्' (१।२ । ४ । १) इति श्रुतेः । तेन हेतुना मे मम यजमानं रध्य । रध्यतिर्वशगमने । वशवर्तिनं कुरु । 'यो वै राजा ब्राह्मणादबलीयानमित्रेभ्यो वै स बलीयान्भवति' (५ । ४ । ४ । १५) इति श्रुतेः । यद्वा तेन मे रध्य यस्मात्त्वं वज्ररूपस्तेन कारणेन मम रध्य द्यूतभूमौ परिलेखनरूपं कार्यं साधय ॥ २८ ॥

एकोनत्रिंशी।
अ॒ग्निः पृ॒थुर्धर्म॑ण॒स्पति॑र्जुषा॒णो अ॒ग्निः पृ॒थुर्धर्म॑ण॒स्पति॒राज्य॑स्य वेतु॒ स्वाहा॑ स्वाहा॑कृता॒: सूर्य॑स्य र॒श्मिभि॑र्यतध्वᳪ सजा॒तानां॑ मध्य॒मेष्ठ्या॑य ।। २९ ।।
उ० हिरण्यमस्मिन्निधायाभिजुहोति। अग्निः पृथुः। योऽयं देवानामग्निः पृथुः इतरस्मादग्रे धर्मणस्पतिः धारणस्य पतिः स जुषाणः सेवमानः प्रीयमाणो वा । अग्निः पृथुः धर्मणस्पतिः आज्यस्य घृतस्य वेतु पिबतु स्वाहा सुहुतं चैतद्धविर्भवतु । अक्षान्निर्वपति । स्वाहाकृताः हे अक्षाः, स्वाहाकारपूर्विकयाहुत्या तर्पिताः सन्तः सूर्यस्य रश्मिभिर्यतध्वं स्पर्धां कुरुत । सजातानां समानजन्मनां वा भ्रातॄणां क्षत्रियाणां वा। मध्यमे । 'मध्यान्मः' मध्ये भवो मध्यमः । मध्यमे प्रदेशेऽवस्थानाय यजमानस्य । यतध्वमित्यनुवर्तते ॥ २९ ॥
म० 'द्यूतभूमौ हिरण्यं निधायाभिजुहोति चतुर्गृहीतेनाग्निः पृथुरिति' ( १५। ७ । १६ ) । एवं कृतायां द्यूतभूमौ कनकं निधाय तदुपरि चतुर्गृहीताज्यं जुहुयात् । अग्निदेवत्यम् । अग्निः आज्यस्य वेतु । कर्मणि षष्ठी । घृतं पिबतु स्वाहा सुहुतमस्तु । किंभूतोऽग्निः । पृथुः देवानां प्रथमत्वाद्विशालः । तथा धर्मणस्पतिः धारणं धर्म जगतो धारणस्य धर्मस्य वा स्वामी। जुषाणः प्रीयमाणः हूयमानं हविः सेवमानो वा । अग्निः पृथुर्धर्मणस्पतिरिति पुनःपाठ आदरार्थः । 'अक्षान्निवपति स्वाहाकृता इति' ( का० १५। ७ । १६ ) । पूर्वोक्तपञ्चाक्षान्द्यूतभूमौ क्षिपति । अक्षदेवत्यम् । हे अक्षाः, यूयं स्वाहाकृताः स्वाहाकारपूर्विकयाहुत्या तर्पिताः सन्तः सूर्यस्य रश्मिभिः किरणैर्यतध्वं स्पर्धां कुरुत । सजातानां समानजन्मनां भ्रातॄणां क्षत्रियाणां मध्यमेष्ठ्याय मध्यमप्रदेशे यजमानावस्थानाय च यतध्वं यत्नं कुरुत । यजमानं सर्वक्षत्रियश्रेष्ठं कुरुतेत्यर्थः । मध्ये भवो मध्यमः मध्यमे प्रदेशे तिष्ठतीति मध्यमेष्ठः तस्य भावो मध्यमेष्ठ्यं तस्मै ॥ २९ ॥