पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यदात्मकः स तद्दातुमुत्सहते । यतस्त्वं शतमानमसि ततः शताब्दपरिमितमायुर्मयि रोपय । युङ्ङसि युनक्ति यज्ञं संभारनिचयेन दक्षिणादानेन वेति युङ् वर्चस्तेजस्वी भवसि । अतो मे मम वर्चः तेजो धेहि । 'तौ ब्रह्मणे दत्त्वोर्गसीति शाखामुपस्पृशतीति' ( का० १५। ६ । ३० )। तौ शतमानौ ब्रह्मणे दत्त्वा पूर्वोक्तरथवाहने एवोपगूहितारमौदुम्बरीं शाखामुपस्पृशेत् । शाखादेवत्यम् । हे औदुम्बरि शाखे, त्वमूर्गसि अन्नरूपा भवसि । तत ऊर्जमन्नं मयि धेहि स्थापय । 'इन्द्रस्य वामित्यवहरते बाहू पयस्यायां व्याघ्रचर्मदेशे स्थितायामिति' (का० १५। ६ । २१) । अध्वर्युयजमानबाहू व्याघ्रचर्मस्थापितायां मैत्रावरुण्यां पयस्यायां नीचौ करोति । बाहुदेवत्यम् । वीर्यकृतो वीर्यकारिणः इन्द्रस्य परमैश्वर्ययुक्तस्य यजमानस्य संबन्धिनौ हे बाहू, अहं वां युवामुपावहरामि मैत्रावरुणीपयस्यां प्रति नीचौ करोमि ॥ २५ ॥

षड्विंशी
स्यो॒नाऽसि॑ सु॒षदा॑ऽसि क्ष॒त्रस्य॒ योनि॑रसि । स्यो॒नामासी॑द सु॒षदा॒मासी॑द क्ष॒त्रस्य॒ योनि॒मासी॑द ।। २६ ।।
उ० आसन्दीं निदधाति । स्योनासि । स्योनमिति सुखनाम । स्योनासि सुखरूपासि । सुषदासि सुखेन यस्यां सीदन्ति सा तथोक्ता । क्षत्रस्य योनिः स्थानमसि। सुन्वन्तमस्यामुपवेशयति । स्योनामासीद सुखरूपामासन्दीमासीद अधिरोह । सुषदाम् अधिरोह च । क्षत्रस्य स्थानमधिरोह ॥२६॥
म० 'प्राक् स्विष्टकृतः खादिरीमासन्दीं रज्जुं तां व्याघ्रचर्मदेशे निदधाति स्योनासीति' (का० १५। ६ । ३३-७)। पयस्यायाः स्विष्टकृद्धोमात्प्राक् रज्जुभिर्व्यूतां खादिरीमञ्चिकां व्याघ्रचर्मदेशे मैत्रावरुणधिष्ण्यस्य पुरो निदधाति । आसन्दीदेवत्यम् । हे आसन्दि, त्वं स्योना सुखरूपासि सुखकरी भवसि । सुषदासि सुखेन सीदन्ति यस्यां सा सुषदा सुखेनोपवेष्टुं योग्यासि । 'अधीवासमस्यामास्तृणाति क्षत्रस्य योनिरिति' ( का० १५ । ७ । २) । आसन्द्यां वस्त्रमाच्छादयति । अधीवासदैवतम् । हे अधीवास, त्वं क्षत्रस्य क्षत्रियस्य योनिर्मातृवद्धारकत्वेन कारणमसि । 'सुन्वन्तमस्यामुपवेशयति स्योनामासीदेति' ( का० १५ । ७ । ३ ) । आसन्द्यां यजमानं स्थापयेत् । यजमानदेवत्यम् हे यजमान, स्योनां सुखकरीमासन्दीमासीद आरोह । सुषदां सुखोपवेशनयोग्यामासीद ।क्षत्रस्य योनिं स्थानमासन्दीमासीद ॥ २६ ॥
 
सप्तविंशी।
निष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्यास्वा । साम्रा॑ज्याय सु॒क्रतु॑: ।। २७ ।।
उ० यजमानस्य उरोऽभिमृश्य जपति। निषसाद धृतव्रतः। वारुणी गायत्री। अधियज्ञं यजमानो वरुणः निषसाद निषण्णः धृतव्रतः । धृतं व्रतं कर्म येन स तथोक्तः । 'धृतव्रतो वै राजा न वा एष सर्वस्मा इव वदनाय न सर्वस्मा इव कर्मणे यदेव साधु वदेद्यत्साधु कुर्यात् तस्मै वा एष श्रोत्रियश्च' इति श्रुतिः। पस्त्यासु प्रजासु । आधिपत्येनेत्युपसर्गादर्थपरिपूर्तिः। साम्राज्याय 'सम्राड्भावाय राज्याय' इति श्रुतिः । सुक्रतुः सुकर्मा । शोभनप्रज्ञो वा ॥ २७ ॥
म० 'निषसादेत्युरोऽस्यालभत इति' (का० १७ । ४ । ७) । अध्वर्युर्यजमानहृदयं स्पृशति । वरुणदेवत्या गायत्री शुनःशेपदृष्टा अष्टषट्सप्तवर्णपादत्वाद्वर्धमाना गायत्री । असौ यजमानः पस्त्यासु विक्षु प्रजासु आ निषसाद । 'विशो वै पस्त्याः ' (५। ४ । ४ । ५) इति श्रुतेः। आधिपत्येनोपविवेश। यदासन्द्यां निषण्णः स प्रजास्वेव निषण्ण इत्यर्थः । 'व्यवहिताश्च' (पा० १ । ४ । ८२) इति आङ उपसर्गस्य क्रियापदेन व्यवस्थानम् । किंभूतो यजमानः । धृतव्रतः धृतं व्रतं यज्ञलक्षणं कर्म येन स्वीकृतयज्ञः । वरुणः वारयत्यनिष्टमिति वरुणः । तथा सुक्रतुः शोभनसंकल्पः शोभनप्रज्ञो वा । किमर्थं निषसाद । साम्राज्याय सम्राजो भावः साम्राज्यम् । 'सम्राड्भावाय राज्याय' (५। ४ । ४ । ५) इति श्रुतेः ॥ २७ ॥

अष्टाविंशी।
अ॒भि॒भूर॑स्ये॒तास्ते॒ पञ्च॒ दिश॑: कल्पन्तां॒ ब्रह्मँ॒स्त्वं ब्र॒ह्माऽसि॑ सवि॒ताऽसि॑ स॒त्यप्र॑सवो॒ वरु॑णोऽसि स॒त्यौजा॒ इन्द्रो॑ऽसि॒ विशौ॑जा रु॒द्रो॒ऽसि सु॒शेव॑: । बहु॑कार॒ श्रेय॑स्कर॒ भूय॑स्क॒रेन्द्र॑स्य॒ वज्रो॑ऽसि॒ तेन॑ मे रध्य ।। २८ ।।
उ० पञ्चाक्षान्पाणावावपति । अभिभूरसि । कृतत्रेताद्वापरकलयश्चत्वारोक्षाः पञ्चमो रमणः। तत्र कलिः सर्वानन्यान् अभिभवति स उच्यते । यजमानो वा तत्संबन्धेन । अभिभूरसि अभिभवितासि । एतास्तव पञ्चदिशः कपटोपलक्षिताः क्लृप्ताः भवन्तु । ब्रह्मन्निति प्रथममामन्त्रयते यजमानः ब्रह्माणम् त्वं ब्रह्मासि सवितासि सत्यप्रसव इति । ब्रह्माह त्वमेव ब्रह्मासि भवसि सविता चासि सत्याभ्यनुज्ञः। द्वितीयं प्रत्याह त्वं ब्रह्मासि वरुणोऽसि सत्यौजाः सत्यमोजो यस्य स सत्यौजाः। तृतीयं प्रत्याह त्वं ब्रह्मासि इन्द्रश्च त्वमसि विशौजाः विश् ओजो यस्य स विडोजा इति प्राप्ते विशौजा इत्यन्याय्यः समासः । अतएव पदकारो नावगृह्णाति । चतुर्थं प्रत्याह । | त्वं ब्रह्मासि रुद्रश्च त्वमसि । सुशेवः शेव इति सुखनाम । शोभनं सुखयिता । सुमङ्गलनामानं ध्वनयति । बहुकारः बहु करोतीति बहुकारः । श्रेयस्करः श्रेयः करोतीति श्रेयस्करः । भूयः करोतीति भूयस्करः तेषां संबोधनम् हे बहुकार श्रेयस्कर भूयस्कर । स्फ्यमस्मै प्रयच्छति । इन्द्रस्य वज्रोऽसि । यतः 'इन्द्रो ह यत्र वृत्राय वज्रं प्रजहार' इत्युपक्रम्य 'स स्फ्यस्ततोऽयं च' इत्यादिना श्रुतिग्रन्थे उक्तः। अतस्त्वां ब्रवीमि तेन हेतुना मे मम यजमानं रध्य । रध्यतिर्वशगमने । वश

.
.