पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पूजनयोः' । ऊर्ध्वं गताः सत्यः अहिं मेघमनु रीयमाणाः मेघमनुसरन्त्यः। रियतिर्गत्यर्थः । किंभूतमहिम् । बुध्न्यं बुध्नमन्तरिक्षं तत्र भवो बुध्न्यः अन्तरिक्षे वर्तमानम् । यद्वायमर्थः । पर्वतशब्देनादित्य उच्यते । वृषभस्य वर्षितुः पर्वतस्यादित्यस्य पृष्ठादियानाः निर्गच्छन्त्यो नावः स्तुत्या आपः प्रचरन्ति सर्वतो गच्छन्ति । किंभूताः । स्वसिचः स्वयं सेक्त्र्यः आदित्योपरिष्टादापो नाव्या उच्यन्ते । तथा च श्रुतिः 'नाव्या आप एव यजुष्मत्य इष्टकाः' (१० । ५। ६ । १४) इत्युपक्रम्य षष्टिश्च वै त्रीणि च शतान्यादित्यं नाव्या अभिक्षरन्तीत्याह' । ता उदक्ता व्यक्ताः सत्यः बुध्न्यमन्तरिक्षस्थमहिं मेघमनुरीयमाणा अनुप्रविश्य गच्छन्त्यः सत्यः प्रावृट्काले अधराक् अधस्ताद्भूमिं प्रति आववृत्रन् आवर्तन्ते आगच्छन्ति । यद्वायमर्थ ऋचोऽस्याः । वृषभस्य वर्षणसमर्थस्य पर्वतस्य हिमवद्विन्ध्यादेः पृष्ठादियाना गच्छन्त्यो वहन्त्यो नावो नौतार्या महानद्यो गङ्गाद्याः प्रचरन्ति स्वसिचः स्वमात्मीयं यजमानक्षेत्रं सिञ्चन्ति ताः ता एव नावोऽधराक् अधस्तात् आववृत्रन् राजसूययाजिनोऽर्था वर्तन्ते । किंभूताः। उदक्ता अभिषेकपात्रेषु उत्क्षिप्ताः प्रक्षिप्ताः । तथा बुध्न्यं बुध्नशब्देन मूलमुच्यते तत्र भवं बुध्न्यं प्रधानमित्यर्थः । अहिमहन्तारं शत्रूणां यजमानमनुरीयमाणाः यजमानं प्रति सिच्यमानाः । 'चर्मणि त्रिर्विक्रमयति विष्णोरिति प्रतिमन्त्रमिति' (का. १५ । ६।९)। अध्वर्युर्यजमानेन व्याघ्रचर्मणि त्रिभिर्मन्त्रैस्त्रिवारं पादप्रक्षेपं कारयेत् । त्रीणि यजूंषि यजमानदेवत्यानि । हे मदीय प्रथमप्रक्रम, त्वं विष्णोर्व्यापनशीलस्य यज्ञपुरुषस्य जगदीश्वरस्य त्रिविक्रमावतारस्य विक्रमणं प्रथमपादप्रक्षेपेण जितो भूलोकोऽसि । हे द्वितीयप्रक्रम, त्वं विष्णोः विक्रान्तं द्वितीयपादप्रक्षेपेण जितमन्तरिक्षमसि । हे तृतीयप्रक्रम, त्वं विष्णोः क्रान्तं तृतीयपादप्रक्षेपेण जितं त्रिविष्टपमसि । इदं मन्त्रत्रयं लोकत्रयजये हेतुभूतं तित्तिरिराह "विष्णुक्रमान्क्रमते विष्णुरेव भूत्वेमांल्लोकानभिजयतीति' । 'इमे वै लोका विष्णोर्विक्रान्तं विष्णोर्विक्रमणं विष्णोः क्रान्तम्' (५ । ४।२।६) इति श्रुतेः ॥ १९ ॥

विंशी।
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ रू॒पाणि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्त्व॒यम॒मुष्य॑ पि॒तासाव॒स्य पि॒ता व॒यᳪ स्या॑म॒ पत॑यो रयी॒णाᳪ स्वाहा॑ ।
रुद्र॒ यत्ते॒ क्रिवि॒ परं॒ नाम॒ तस्मि॑न्हु॒तम॑स्यमे॒ष्टम॑सि॒ स्वाहा॑ ।। २० ।।
उ० जुहोति प्रजापतेन । प्राजापत्या त्रिष्टुप् यजुर्मध्या। अयममुष्य पितासावस्य पितेति यजुः । हे प्रजापते, न त्वदेतान्यन्यो विश्वरूपाणि परिता बभूव । त्वत्तोऽन्यो देवताविशेषः एतानि सर्वाणि नानाजातीयानि वर्तमानकालसंबन्धीनि रूपाणि परि समन्ततः। ता तानि च यान्युत्पन्नानि उत्पत्स्यन्ते वा । बभूव । अत्र नकारः संबध्यते । न बभूव न भवति आत्मरूपत्वेन यस्मात् अतो ब्रवीमि यत्कामास्ते जुहुमस्तन्नो अस्तु येन कामेन ते तव जुहुमः तत्कामरूपमस्माकमस्तु । यजुः कथंभूतम् । व्याख्यायते । अयममुष्य पिता अयं पुत्रः अमुष्य यजमानस्य पिता । असावस्य पिता असौ यजमानः अस्य पुत्रस्य पिता । सर्वथा सपुत्रा वयमेव स्याम भवेम । पतयोः रयीणां धनानाम् । स्वाहा सुहुतमस्तु । जुहोति । रुद्र यत्ते हे भगवन् रुद्र, यत् ते तव क्रिवि । 'क्रिवि हिंसाकरणयोः' कर्तृ हिंसितृ वा परमुत्कृष्टं नाम नमनम् । एवं रुद्रं संबोध्य अथेदानीं हव्यमाह । तस्मिन् नाम्नि हुतम् असि अमेष्टमसि । अमाशब्दो गृहवचनः । गृहे इष्टमसि स्वाहा ॥ २० ॥
म० 'शालाद्वार्ये जुहोति पुत्रेऽन्वारब्धे प्रजापत इति' (का. १५ । ६ । ११)। ततः सदसः शालायामागत्य पुत्रेऽन्वारब्धे शालाद्वार्येऽग्नौ जुहोति । प्रजापतिदेवत्या त्रिष्टुप् यजुर्मध्या तृतीयचतुर्थपादमध्येऽयममुष्येति यजुर्युक्ता । हे प्रजापते, त्वत्त्वत्तः अन्यो देवताविशेषः तानि एतानि विश्वा विश्वानि सर्वाणि रूपाणि नानाजातीयानि वर्तमानभूतभविष्यत्कालविषयाणि न परिबभूव परिभवितुं समर्थो नाभूत् । परिभवः सृष्टेरप्युपलक्षणम् । त्वदन्यो देव एतानि भूतानि स्रष्टुं संहर्तुं चाप्यशक्त इत्यर्थः । अतो वयं यत्कामास्ते जुहुमः यः कामो येषां ते यत्कामाः येन कामेन त्वां जुहुमः तत्कामरूपं फलं नोऽस्माकमस्तु । यजुर्व्याख्यायते । अयममुष्य पितेति पुत्रं पित्रीकृत्य तयोर्नाम गृह्णाति । अयं रामोऽमुष्य दशरथस्य पिता । असावस्य पितेति यथायथमेव नामग्रहः । यथा असौ दशरथोऽस्य रामस्य पितेति । सर्वथा सपुत्रा वयं रयीणां धनानां पतयः स्याम भवेम । 'आग्नीध्रीये पालाशेन शेषान् जुहोति रुद्र यत्त इत्युत्तरार्ध इति' । 'पालाशेनाभिषेकपात्रेणाभिषेकोदकशेषानाग्नीध्रीयाग्नेरुत्तरभागे जुहोति' (का० १५। ६ । १२) । रुद्रदेवत्यम् । हे रुद्र, यत्ते तव क्रिवि कर्तृ हिंसितृ वा परमुत्कृष्टं नामास्ति । 'क्रिवि हिंसाकरणयोः' इप्रत्ययः । एवं रुद्रं संबोध्य होमद्रव्यमाह । हे हविः, तस्मिन् रुद्रनाम्नि त्वं हुतमसि अमेष्टं चासि । अमाशब्दो गृहवाची । मदीये गृहे इष्टं दत्तमसि स्वाहा सुहुतमस्तु ॥ २० ॥

एकविंशी।
इन्द्र॑स्य॒ वज्रो॑ऽसि मि॒त्रावरु॑णयोस्त्वा प्रशा॒स्त्रोः प्र॒शिषा॑ युनज्मि ।
अव्य॑थायै त्वा स्व॒धायै॒ त्वाऽरि॑ष्टो॒ अर्जु॑नो म॒रुतां॑ प्रस॒वेन॑ ज॒यापा॑म॒ मन॑सा॒ समि॑न्द्रि॒येण॑ ।। २१।।
उ० रथमुपावहरति । इन्द्रस्य वज्रोऽसि । व्याख्यातम् ।