पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशी।
इ॒मं दे॑वा असप॒त्नᳪ सु॑वध्वं मह॒ते क्ष॒त्राय॑ मह॒ते ज्यै॑ष्ठ्याय मह॒ते जान॑राज्या॒येन्द्र॑स्येन्द्रि॒याय॑ ।
इ॒मम॒मुष्य॑ पु॒त्रम॒मुष्यै॑ पु॒त्रमस्यै वि॒श ए॒ष वो॑ऽमी॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒ᳪराजा॑ ।। १८ ।।
उ० इमं देवाः व्याख्यातम् ॥ १८॥
म० इमं देवाः । व्याख्यातापि व्याख्यायते । हे देवाः सोमादयः, दशरथस्य पुत्रं कौशल्यायाः पुत्रं कोशलायै विशे प्रजायै तिष्ठन्तमिमं राममसपत्नं शत्रुरहितं कृत्वा महते क्षत्राय महते ज्येष्ठत्वाय महते जानराज्यायेन्द्रस्यैश्वर्याय यूयं सुवध्वं प्रेरयध्वम् । हे अमी कोशलाः, एष रामो वो युष्माकं राजा अस्माकं ब्राह्मणानां तु सोमो राजा । एतावन्तं मन्त्रं पठित्वा पुरोहितोऽध्वर्युर्वाभिषिञ्चेत् । राजभ्रातुर्मन्त्रमाह । अग्नेर्भ्राजसाभिषिञ्चामि क्षत्राणामित्यादि इन्द्रस्येन्द्रियायेत्यन्तो मन्त्रः । हे यजमान, अग्नेर्वैश्वानरस्य भ्राजसा तेजसा त्वामभिषिञ्चामि । क्षत्राणामित्यादेः पूर्ववद्व्याख्या । राजमित्रमन्त्रमाह । सूर्यस्य वर्चसाभिषिञ्चामि । क्षत्राणामित्यादि पूर्ववत् । हे यजमान, सूर्यस्य तेजसा त्वामभिषिञ्चामि । अन्यत्पूर्ववत् । वैश्यमन्त्रमाह । इन्द्रस्येन्द्रियेणाभिषिञ्चामि क्षत्राणामित्यादि पूर्ववत् । हे यजमान, इन्द्रस्य वीर्येण त्वामभिषिञ्चामि क्षत्राणामित्यादि पूर्ववत् । श्रुत्या तु द्युम्नादिशब्दैर्वीर्याण्येव व्याख्यातानि ॥ १८ ॥

एकोनविंशी।
प्र पर्व॑तस्य वृष॒भस्य॑ पृ॒ष्ठान्नाव॑श्चरन्ति स्व॒सिच॑ इया॒नाः ।
ता आऽव॑वृत्रन्नध॒रागुद॑क्ता॒ अहिं॑ बु॒ध्न्य॒मनु॒ रीय॑माणाः ।
विष्णो॑र्वि॒क्रम॑णमसि॒ विष्णो॒र्विक्रा॑न्तमसि॒ विष्णो॑: क्रा॒न्तम॑सि ।। १९ ।।
उ० कण्डूयनाभिषेकेण कणान्प्रलिम्पति प्र पर्वतस्य । अब्देवत्या त्रिष्टुप् । या एता आहुतिपरिणामभूता आपः ताः पर्वतस्य पर्ववतोऽग्नेः पार्थिवस्य । स हि पर्ववान् पौर्णमास्यमावस्याचातुर्मास्यादिभिः पर्वभिः । वृषभस्य वर्षितुः पृष्ठात् । उत्थायेति शेषः । नावः । 'णू स्तुतौ' । नूयन्ते स्तूयन्ते स्तोत्रशस्त्रहोममन्त्रैरिति नाव आहुतिपरिणामभूता आपः चरन्ति गच्छन्ति आदित्यमण्डलं प्रति । स्वसिचः स्वयमेव सिञ्चन्तीति स्वसिचः । इयानाः। 'इण् गतौ' । 'ताच्छील्यवयोवचन' इत्यादिना चानश् । गमनशीलाः। ता हि आदित्यमण्डलं प्राप्य मध्यस्थानमागच्छन्ति । मध्यस्थानात्पृथिवीम् । तथाचोक्तम् । 'अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः' इति । ता आववृतमधरागुदक्ताः । आववृत्रन् आदित्यमण्डलं प्राप्य ता एवावर्तन्ते । अधराक् अधोञ्चनाः । उदक्ताः । 'उन्दी क्लेदने' क्विप् । 'उन्दनेन क्लेदनेन स्तम्भनेनाभ्यक्ता आपः । अहिर्बुध्न्यम् । अहिमेव बुध्नमन्तरिक्षं तत्र भवो बुध्न्यो मेघस्तं बुध्न्यं मेघ मध्यस्थानम् । अनुरीयमाणाः । रीयतिर्गत्यर्थः। अनुप्रविश्य मेघच्छिद्रैर्गच्छन्त्यो भूमिं प्राप्नुवन्तीति शेषः । अथवा आदित्यः पर्वतशब्देनोच्यते । या एताः पर्वतस्यादित्यस्य वृषभस्य पृष्ठात् इयानाः निर्गच्छन्त्यः नावः नाव्या आपः । प्रचरन्ति सर्वतो गच्छन्ति स्वयं सिक्ताः । नाव्या आदित्यस्य या उपरिष्टादापस्ता उच्यन्ते । तथाच श्रुतिः 'नाव्या उ एव यजुष्मत्य इष्टकाः' इत्युपक्रम्य 'षष्टिश्च ह वै त्रीणि च शतान्यादित्यं नाव्या अभिक्षरन्ति' इत्याह । ताः प्रावृट्काले आवर्तन्ते । अधराञ्चः उदक्ता व्यक्ताः । अहिं मेघं बुध्न्यम् अनुरीयमाणाः अनुप्रविश्य शुषिरैरनुगच्छन्त्यः । अथवा याः पर्वतस्य हिमवद्विन्ध्याद्रेः वृषभस्य वर्षितुः सेक्तुः पृष्ठात् इयानाः नावश्चरन्ति । नावा तार्या महानद्यः प्रचरन्ति स्वयं सिक्ताः, ता एव राजसूययाजिनोऽर्थाय आवर्तन्ते गृह्यमाणाः अभिषेकपात्रेषु उदक्ता उत्क्षिप्ताः । उत्पूर्वस्याञ्चतेरेतद्रूपम् । अधराक् अधराञ्चः अधोञ्चनाः । अहिम् अहन्तारं यजमानं शत्रूणाम् बुध्नम् बुध्नशब्देन मूलमुच्यते तत्र भवं यजमानं बुध्न्यं प्रधानमित्यर्थः । अनुरीयमाणाः यजमानं प्रत्यनुसिच्यमानाः । ता आववृत्रन्नित्यादिसंबन्धनीयम् । चर्मणि त्रिर्विक्रमयति यजमानम् । विष्णोर्विक्रमणम् । विष्णोः यज्ञस्य विक्रमणं यच्च विक्रान्तं यच्च क्रान्तं तत्सर्वं त्वमसि इति योजना ॥ १९॥
म० 'कण्डूयन्याभिषेकेण प्रतिलिम्पते प्र पर्वतस्येति' '(का. १५। ६ । ८)। यजमानः कृष्णविषाणया कृत्वाभिषेकोदकेन स्वाङ्गलग्नेन स्वाङ्गं लिम्पति । अब्देवत्या त्रिष्टुप् । प्रेत्युपसर्गश्चरन्तीति पदेन संबध्यते । नावः प्रचरन्ति । नूयन्ते स्तूयन्ते स्तोत्रशस्त्रमन्त्रैरिति नावः । यद्वा नुदन्ति प्रेरयन्ति फलप्राप्त्यै ता नावः । आहुतिपरिणामभूता आपः प्रचरन्ति गच्छन्ति आदित्यमण्डलं प्रति । 'ग्लानुदिभ्यां डौः' (उ० २। ६४) इति नुदतेडौँप्रत्ययः । किं कृत्वा । वृषभस्य वर्षितुरग्नेः पृष्ठात् पृष्ठप्रदेशात् उत्थायेति शेषः । किंभूतस्य वृषभस्य । पर्वतस्य पर्वाणि पौर्णमास्यमावास्याचातुर्मास्यादीनि विद्यन्ते यस्य स पर्वतस्तस्य 'तप्पर्वमरुद्भ्यां' इति तप्प्रत्ययः । किंभूता नावः । स्वसिचः स्वेनैवात्मनैव सिञ्चन्ति विश्वमभिषिञ्चन्ति स्वसिचः । तथा इयानाः यन्तीत्येवंशीला इयानाः । एतेः 'ताच्छील्यवयोवचनशक्तिषु चानश्' (पा० ३ । २ । १२९) इति चानश्प्रत्ययः चित्वादन्तोदात्तं पदम् । गमनशीलाः ता हि आदित्यमण्डलं प्राप्य मध्यस्थानमागच्छन्ति मध्यस्थानात्पृथिवीम् । तदुक्तम् । 'अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः' (म० ३ । ७६) इति । ता आहुतिपरिणामभूता आप आदित्यमण्डलं प्राप्याधराक् आववृत्रन् अधस्तादावर्तन्ते । वृतेर्णिजन्ताल्लुङि रगागमश्छान्दसः। किंभूतास्ताः । उदक्ताः ऊर्ध्वमक्ताः । 'अञ्चु गति