पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ऽसि अमुं जेष्यामीति मनोवृत्तिरोजः तद्रूपं त्वमसि । शारीरं बलं सहस्तद्रूपमसि । अमृतं विनाशरहितं त्वमसि ॥ १५ ॥

षोडशी।
हिर॑ण्यरूपा उ॒षसो॑ विरो॒क उ॒भावि॑न्द्रा॒ उदि॑थ॒: सूर्य॑श्च ।
आ रो॑हतं वरुण मित्र॒ गर्त्तं॒ तत॑श्चक्षाथा॒मदि॑तिं॒ दितिं॑ च मि॒त्रो॒ऽसि॒ वरु॑णोऽसि ।। १६ ।।
उ० बाहू उद्गृह्णाति । हिरण्यरूप उषसो मैत्रावरुणीत्रिष्टुप् यजुरन्ता । मित्रोऽसि वरुणोऽसीति यजुः । हे हिरण्यरूपौ मित्रावरुणौ, यौ युवां उषसो विरोके उषसो व्युत्थानकाले । उभावपि हे इन्द्रौ । 'इदि परमैश्वर्ये' परमेश्वरौ उदिथः उद्गच्छथः । सूर्यश्च ययोर्युवयोः कार्यसंपादनाय सूर्य उदेति तौ युवाम् आरोहतम् । हे वरुण, हे मित्र, गर्तं पुरुषम् । 'बाहू वै मित्रावरुणौ पुरुषो गर्तः' इति श्रुतिः । अध्यात्मविषयं व्याचष्टे अधिदैवं तु गर्तो रथः । ततश्चक्षाथामदितिं दितिं च ततोऽनन्तरं पश्यतम् । अदितिम् अदीनम् स्वकर्मविहितानुष्ठातारम् , दितिं दीनं नास्तिकवृत्तिम् । अमुमेवार्थं श्रुतिराह । ततः पश्यतं स्वं चारणं चेत्येवैतदाह । अपरो मन्त्रविकल्पः । मित्रोऽसि वरुणोऽसि । बाहू एवोच्यते । मित्रस्त्वमसि वरुणस्त्वमसि ॥ १६ ॥
म० 'बाहू उद्गृह्णाति हिरण्यरूपा इति' ( का० १५ । ५ । २८)। यजमानबाहू ऊर्ध्वौ करोति । मित्रावरुणदेवत्या त्रिष्टुप् यजुरन्ता मित्रोऽसीति यजुः । हे वरुण शत्रुनिवारक, दक्षिणबाहो, हे मित्र सखिवत्पालक वामबाहो, तौ युवां गर्तं पुरुषमारोहत मारोहणं कुरुतम् । 'बाहू वे मित्रावरुणौ पुरुषो गर्तः' (५। ४ । १ । १५ ) इति श्रुतिरध्यात्मविषयं वाचष्टे । पुरुषारोहणानन्तरमदितिमखण्डितां स्वसेनां दितिं खण्डितां परसेनां चक्षाथां क्रमेणानुग्रहदृष्ट्या समीक्षेथाम् । तौ कौ । यौ युवामुभौ द्वौ उषसो विरोके रात्रेः समाप्तौ उदिथः उदयं कुरुथः । एतेर्लटि मध्यमद्विवचने इथ इति रूपम् । सूर्योदयानन्तरं स्वस्वव्यापारे प्रवर्तेथे इत्यर्थः । सूर्यश्च उदेति ययोर्युवयोः कार्यसंपादनायेत्यर्थः । किंभूतौ युवाम् । हिरण्यरूपौ हिरण्यवद्रूपं ययोस्तौ सुवर्णखचितकटकाद्यलंकारेण हिरण्यवद्भासमानौ । तथा इन्द्रौ सामर्थ्योपेतौ । एवमध्यात्ममर्थः । अधिदैवं त्वयमर्थः । हे वरुण, हे मित्र मित्रावरुणौ देवविशेषौ, युवां गर्तं रथोपरिभागं गर्तसदृशमारोहतम् । परबाणेभ्यो रक्षितुं चर्मकीलकादिभिराच्छादितो रथस्योपरिभागो गर्तसदृशो भवति । रथोऽपि गर्त उच्यते 'गृणातेः स्तुतिकर्मणः' (नि०३ । ५) इति यास्कोक्तेर्गर्तो रथः । यौ युवामुषसो विरोके उषःकालानन्तरम् उदिथः उद्गच्छथः सूर्यश्चेत्तदा उदेति । किंभूतौ । हिरण्यरूपौ अतितेजस्विनौ । इन्द्रौ परमेश्वरौ । ततो रथारोहणानन्तरमदितिं दितिं च युवां चक्षाथाम् अदितिमदीनं विहितानुष्ठातारं दितिं दीनं नास्तिकवृत्तं च पश्यतम् । अयं पापी अयं पुण्यवानिति युवां पश्यतमित्यर्थः । अमुमर्थं श्रुतिराह 'ततः पश्यतᳪ स्वं चारणं चेत्येवैतदाहेति' (५ । ४ । १ । १५) 'मित्रोऽसि वरुणोऽसीति वा' (का० १५ । ५ । २९) । अनेन मन्त्रेण वा बाहू उद्गृह्णाति । हे वामबाहो, मित्रोऽसि । हे दक्षिणबाहो, त्वं वरुणोऽसि ॥१६॥

सप्तदशी
सोम॑स्य त्वा द्यु॒म्नेना॒भिषि॑ञ्चाम्य॒ग्नेर्भ्राज॑सा॒ सूर्य॑स्य॒ वर्च॒सेन्द्र॑स्येन्द्रि॒येण॑ ।
क्ष॒त्राणां॑ क्ष॒त्रप॑तिरे॒ध्यति॑ दि॒द्यून्पा॑हि ।। १७ ।।
उ० यजमानमभिषिञ्चति । सोमस्य त्वा द्युम्नेन । 'द्युम्नं द्योततेर्यशो वा अन्नं वा' । सोमस्य त्वा द्युम्नेन अभिषिञ्चामि । अग्नेर्भ्राजसा अग्नेर्दीप्त्या । सूर्यस्य वर्चसा सूर्यस्य रोचिषा । इन्द्रस्येन्द्रियेण वीर्येण । श्रुत्या च सर्वाण्येव वीर्याणि व्याख्यातानि । अभिषिञ्चामीति सर्वशेषः । क्षत्राणां क्षत्रपतिरेधि इति सर्वशेषः । त्वं च एतैरभिषिक्तः सन् क्षत्राणां सर्वेषामधिपतिः एधि भव । अतिदिद्यून्पाहि अतीत्यातिक्रम्य दिद्यून् इषून् पाहि गोपायात्मानम् । 'इषवो वै दिद्यव इषुवधमेवैनमेतदतिनयति' इति श्रुतिः ॥ १७ ॥
म० 'स्थितं प्राञ्चमभिषिञ्चति पुरोहितोऽध्वर्युर्वा पुरस्तात्पालाशेन प्रथमं पश्चादितरे द्वितीयेन स्वस्तृतीयेनामित्र्यो राजन्यो वैश्यश्चतुर्थेन सोमस्य त्वा द्युम्नेनेति प्रतिमन्त्रमभिषिञ्चामीति सर्वत्र साकाङ्क्षत्वात् क्षत्राणां क्षत्रपतिरेधीति चेमममुष्येति च प्रथमो देवसूवदिति' ( का० १५ । ५ । ३०-३३) । अस्यार्थः । रुक्मसहितव्याघ्रचर्मणि प्राङ्मुखमवस्थितं राजानं पुरोहितादयः पुरस्तादवस्थायाभिषिञ्चेयुः । पालाशौदुम्बरन्यग्रोधाश्वत्थानि चतुर्विधान्यभिषेकजलपात्राणि स्थापितानि । तत्र पालाशपात्रेण पुरोहिताध्वर्य्वोरन्यतरः प्रथममभिषिञ्चेत् । इतरे स्वादयः पश्चादवस्थिता अभिषिञ्चेयुः । तानेवाह । स्वो राज्ञो भ्राता द्वितीयेनौदुम्बरपात्रेण मित्रभूतः कश्चित् क्षत्रियस्तृतीयेन वटपात्रेण वैश्यश्चतुर्थेनाश्वत्थपात्रेणाभिषिञ्चति । चतुर्णामभिषेक्तॄणां क्रमेण सोमस्याग्नेः सूर्यस्येन्द्रस्य ते चत्वारो मन्त्राः । अभिषिञ्चामीति पदमग्रिमेषु त्रिषु मन्त्रेष्वनुवर्तते । क्षत्राणामित्यवयवोऽपि प्रथमादिमन्त्रषु योज्यः । इमममुष्येति मन्त्रं प्रथमः पुरोहितोऽध्वर्युर्वा देवसूहविःष्विव नामग्रहणयुक्तं पठति । प्रथमग्रहणादन्येषामिमममुष्येति मन्त्रशेषो न भवति ब्राह्मणानाᳪ राजेति मन्त्रलिङ्गादिति सूत्रार्थः । चतुर्णां मन्त्राणां यजमानो देवता । हे यजमान, सोमस्य द्युम्नेन चन्द्रस्य यशसा त्वा त्वामभिषिञ्चामि तेनाभिषिक्तः सन् क्षत्राणां क्षत्रपतिरेधि क्षत्रियाणां सर्वेषां मध्ये क्षत्रपतिः क्षत्रियेश्वर एधि भव । अति दिद्यून् पाहि । 'दो अवखण्डने' द्यन्ति खण्डयन्ति दिद्यवो बाणाः । 'इषवो वै दिद्यव इषुवधमेवैनमेतदतिनयति' (५। | ४ । २ । २ ) इति श्रुतेः तानतिक्रम्य शत्रुप्रयुक्तानिष्वादीनपसार्य इमं यजमानं हे सोम, त्वं पाहि पालय ॥ १७ ॥