पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वादशी।
प्र॒तीची॒मा रो॑ह॒ जग॑ती त्वाऽवतु वैरू॒पᳪ साम॑ सप्तद॒श स्तोमो॑ व॒र्षा ऋ॒तुर्विड् द्रवि॑णम् ।। १२ ।।
म० अथ तृतीयो मन्त्रः । हे यजमान, त्वं प्रतीची दिशमारोह । जगती छन्दः त्वामवतु । यद्द्याव इन्द्र ते शतमित्यस्यामृच्युत्पन्नं वैरूपं साम (छ० सं० १।३।२।४)। सप्तदशः स्तोमः । वर्षा ऋतुः । विट् वैश्यजातिलक्षणं द्रविणम् । एते त्वामवन्तु । यद्वा वैश्यजातिस्ते द्रविणमवतु । सप्तदशस्तोमस्त्वेवमाम्नातः ( २५ तमब्रा० २ । ७) 'पञ्चभ्यो हिंकरोति स तिसृभिः स एकया पञ्चभ्यो हिंकरोति स एकया स तिसृभिः स एकया सप्तभ्यो हिंकरोति स एकया स तिसृभिः स तिसृभिर्दशसप्ता सप्तदशस्य विष्टुतिरिति । प्रथमपर्याये प्रथमां त्रिर्गायेत् मध्यमोत्तमे सकृत् । द्वितीयपर्याये प्रथमोत्तमे सकृन्मध्यमां त्रिर्गायेत् । तृतीयपर्याये प्रथमां सकृद्गायेन्मध्यमोत्तमे त्रिरिति सप्तदशस्तोमस्य विविधस्तुतिर्दशसप्तेत्यभिधीयत इत्यर्थः ॥ १२ ॥

त्रयोदशी।
उदी॑ची॒मा रो॑हानु॒ष्टुप् त्वा॑ऽवतु वैरा॒जᳪ सामै॑कवि॒ᳪश स्तोम॑: श॒रदृ॒तुः फलं॒ द्रवि॑णम् ।। १३ ।।
उ० तत्र धान्यफलं वा यज्ञफलं वा अभिप्रेतम् ॥१३॥
म० अथ चतुर्थो मन्त्रः । हे यजमान, त्वमुदीची दिशमारोह । अनुष्टुप् छन्दः । पिबा सोममिन्द्र मन्दतु त्वा एतस्यामृच्युत्पन्नं वैराजं साम (छ० सं० १।५।१)। एकविंशः स्तोमः । शरदृतुः । फलं यज्ञफललक्षणं द्रविणं धनम् । एते त्वामवन्तु । एकविंशस्तोमस्त्वेवमाम्नातः (२५ तमब्रा० २। १४ ) 'सप्तभ्यो हिंकरोति स तिसृभिः स तिसृभिः स एकया सप्तभ्यो हिंकरोति स एकया स तिसृभिः स तिसृभिः सप्तभ्यो हिंकरोति स तिसृभिः स एकया स तिसृभिः सप्तसप्तिन्येकविंशस्य विष्टुतिरिति' । प्रथमपर्याये प्रथममध्यमे त्रिर्गायेदुत्तमा सकृत् । द्वितीयपर्याये प्रथमां सकृद्गायेन्मध्यमोत्तमे त्रिः । तृतीयपर्याये मध्यमा सकृद्गायेत् प्रथमोत्तमे त्रिरित्येकविंशस्तोमस्य विष्टुतिः सप्तसप्तिनीत्युच्यत इत्यर्थः ॥ १३ ॥

चतुर्दशी ।
ऊ॒र्ध्वामा रो॑ह प॒ङ्क्तिस्त्वा॑ऽवतु शाक्वररैव॒ते साम॑नी त्रिणवत्रयस्त्रि॒ᳪशौ॒ स्तोमौ॑ हेमन्तशिशि॒रावृ॒तू वर्चो॒ द्रवि॑णं॒ प्रत्य॑स्तं॒ नमु॑चे॒: शिर॑: ।। १४ ।।
उ० वर्चो द्रविणमित्यत्रापि तेजो ब्रह्मवर्चसं वा अभिप्रेतम् । सीसं निरस्यति । प्रत्यस्तम् । 'असु क्षेपणे' प्रतिगृह्य क्षिप्तम् । नमुचेरसुरस्य शिरः ॥ १४ ॥
म० अथ पञ्चमो मन्त्रः । हे यजमान, ऊर्ध्वां दिशमारोह । पङ्क्तिश्छन्दः । प्रोष्वस्मै पुरोरथमित्येतस्यामृच्युत्पनं शाक्करं साम (छ० सं० २ । ९ । १ । १४ । १) रेवतीर्नः सधमाद इत्येतस्यामृच्युत्पन्नं साम रैवतम् (छ० सं० १। २।२।१।९-२)। त्रिणवत्रयस्त्रिंशौ स्तोमौ । हेमन्तशिशिरावृतू । वर्चस्तेजो ब्रह्मवर्चसं वा द्रविणम् । एते त्वामवन्तु । यद्वा वर्चस्तेजोऽभिमानी देवस्ते धनं रक्षतु । त्रिणवः स्तोम एवमाम्नातः (प. ब्रा० ३ । १) 'नवभ्यो हिंकरोति स तिसृभिः स पञ्चभिः स एकया नवभ्यो हिंकरोति स एकया स तिसृभिः स पञ्चभिर्नवभ्यो हिंकरोति स पञ्चभिः स एकया स तिसृभिर्वज्रो वै त्रिणव इति' । प्रथमपर्याये प्रथमां त्रिर्गायेन्मध्यमां पञ्चकृत्वः उत्तमां सकृत् । द्वितीयपर्याये प्रथमां सकृद्गायेन्मध्यमां त्रिरुत्तमां पञ्चकृत्वः। तृतीयपर्याये प्रथमां पञ्चकृत्वो मध्यमां सकृदुत्तमां त्रिर्गायेत् सोऽयं त्रिरावृत्तनवसंख्योपेतत्वात्त्रिणवनामको वज्रसमानः स्तोमः । त्रयस्त्रिंशः स्तोम एवमाम्नातः (प० ब्रा० ३ । ३) 'एकादशभ्यो हिंकरोति स तिसृभिः स सप्तभिः एकयैकादशभ्यो हिंकरोति स एकया स तिसृभिः स सप्तभिरेकादशभ्यो हिंकरोति स सप्तभिः स एकया स तिसृभिरन्तो वै त्रयस्त्रिंश इति' । प्रथमपर्याये प्रथमां त्रिर्गायेन्मध्यमां सप्तकृत्व उत्तमां सकृत् । द्वितीयपर्याये प्रथमां सकृन्मध्यमां त्रिरुत्तमां सप्तकृत्वः । तृतीयपर्याये प्रथमां सप्तकृत्वो मध्यमां सकृदुत्तमां त्रिर्गायेत् । सोऽयं त्रयस्त्रिंशः स्तोमः सर्वेषां स्तोमानामन्तः । 'आक्रम्य पादेन सीसं निरस्यति प्रत्यस्तमिति' ( का० १५ । ५ । २४ )। व्याघ्रचर्मपश्चाद्भागे निहितं सीसमाक्रम्य पादेन क्षिपेत् । असुरदेवत्यम् । नमुचेरसुरस्य शिरो मस्तकं प्रत्यस्तम् । 'असु क्षेपणे' प्रतिगृह्य क्षिप्तं सीसरूपेण ॥ १४ ॥

पञ्चदशी।
सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र्भूयात् । मृ॒त्योः पा॒ह्योजो॑ऽसि॒ सहो॑ऽस्य॒मृत॑मसि ।। १५ ।।
उ० व्याघ्रचर्मारोहति । सोमस्य त्विषिरसि व्याख्यातम् । रुक्ममधः पदं कुरुते । मृत्योः पाहि । हे रुक्म, मृत्योः सकाशान्मां गोपाय । शिरसि च रुक्मं करोति । ओजोऽसि ओज इति मनोवृत्तिः, जेष्याम्यमुमिति या प्रतिज्ञा सोच्यते । सह इति बाह्यं बलमुच्यते । अमृतमिति प्रकटार्थम् ॥ १५॥
म०. 'व्याघ्रचर्मारोहयति सोमस्य त्विषिरिति' (का० १५ । | ५ । २५)। अभिषेकार्थं राजानं व्याघ्रचर्मणि स्थापयेत् । चर्मदेवत्यं व्याख्यातम् (क० ५) । 'रुक्ममधः पदं कुरुते | मृत्योरिति' ( का० १५ । ५। २६) । पादतले हिरण्यं कुर्यात् । रुक्मदैवतम् । हे सुवर्ण, मृत्योः सकाशान्मां पाहि पालय । 'शिरसि च नवतर्द्मᳪ शततर्द्मं वौजोऽसीति' ( का. १५ । ५ । २७)। नवच्छिद्रं शतच्छिद्रं वा सौवर्णमण्डलं यजमानशिरसि कुर्यात् । रुक्मदैवतम् । हे हिरण्य, त्वमोजो